275

एवं प्राप्तेऽभिधीयते—

अनैकान्तिकता तावदर्थापत्तेरिहोच्यते ।
अन्यथाऽप्युपपन्नत्वात्प्रयोगार्थावबोधयोः ॥
वाचकत्वादृते यस्तु न कथंचित्प्रयुज्यते ।
प्रयोगप्रत्ययायत्ता तत्र वाचकता ध्रुवम् ॥
संशयप्रतिबद्धे च पूर्वपक्षार्थनिर्णये ।
इष्टार्थनिश्चयः शक्यः सुखं सिद्धान्तहेतुना ॥

दृढविपर्ययज्ञानानन्तरं सहसैव च सम्यग्ज्ञानोत्पादातिभाराद्भारैकदेशावतारणार्थं संशयोत्थापनामात्रमेव तावद्युक्तम् । अथ वा—

संसिद्धव्यवहारत्वादनादित्वं यदाश्रितम् ।
अपराधप्रसङ्गेन तत्रैषा संशयक्रिया ॥

यदि ह्येकान्तेन यादृशः परमुखाच्छब्दः श्रूयते तादृगेव सर्वेण सर्वदोच्चार्येत ततो वृद्धव्यवहारपरम्परायां सत्यां गवादिभिरिव न गाव्यादिभिः कश्चिदपि कालः शून्य आसीदित्यध्यवसायादनादित्वमङ्गीक्रियेत । अपराधजस्य शब्दस्य संभवात्तु तदाशङ्कायां सत्यां नैकान्ततः सर्वेषामनादित्वम् । प्रयत्ननिष्पत्तेरिति पूर्वोक्तन्यायावधारितप्रयत्नाभिव्यक्तिरेव हेतुत्वेनोपदिश्यते । अपर आह । अप्रयत्ननिष्पत्तेरपराधस्य भागितेति । यो ह्यस्खलितप्रयत्नः शब्दमभिव्यनक्ति तस्य परम्परागतशब्दोच्चारणमात्रात्सर्वे समानविधाना भवेयुः । यदा त्वप्रयत्ननिष्पत्तिरपि शब्दे संभाव्यते तदा तत्रापराधजरूपान्तरापत्तिप्रसङ्गान्न नियोगतः सर्वशब्दानां समानविधानत्वम् । अथ वा शब्दविषयस्य प्रयत्नस्यैव या निष्पत्तिस्तस्यामपराधः सुनिपुणानामप्यविकलकरणानां दृश्यते किमुतानिपुणविगुणकरणानाम्—

यश्च प्रयत्ननिष्पत्तावपराधः कृतास्पदः ।
शब्दे स तदभिव्यङ्ग्ये प्रसजन्केन वार्यते ॥
अतश्चानपराधेन व्यज्यमानेषु साधुता ।
सापराधेष्वसाधुत्वं व्यवस्थैवं च तत्कृता ॥

276 लोकेऽपि च—

अविनष्टे विनष्टे च दृश्येते साध्वसाधुते ।
तथा सति च तद्द्वारा सिद्धिः शब्दापशब्दयोः ॥
यद्वा सत्यत्वमेवेदं साधुत्वमभिधीयते ।
असत्यत्वमसाधुत्वं धर्माधर्मोपयोगवत् ॥
धर्माधर्मव्यवस्था हि सत्यानृतनिबन्धना ।
विहितप्रतिषिद्धत्वात्तयोश्चेष्टा सशास्त्रता ॥
अर्थसत्यं यथा वाच्यं शब्दसत्यं तथैव हि ।
शब्दानृतं न हातव्यमर्थानृतवदेव नः ॥
एवं सति व्यवस्थाने भक्ष्यामक्ष्यविभागवत् ।
प्रयोगोत्पत्त्यशास्त्रत्वादिति हेतोरसिद्धता ॥

अथ वा यदुक्तम् ।

साधोर्नित्यप्रसक्तत्वादसाधोरप्रसङ्गतः ।
न धर्मनियमोऽस्तीति तत्रेदमभिधीयते ॥
अपराधस्य भागित्वादुभयं सावकाशकम् ।
साधोरनियता प्राप्तिरसाधोश्च प्रयोज्यता ॥

यदि हि साधुः प्रयुज्यमानो न कश्चित्कदाचिदपि विनश्येत्ततस्तस्य नित्यप्राप्तत्वान्निवर्त्यापशब्दाप्राप्तेश्च नियमशास्त्रमनर्थकं भवेत् । यदा त्वपराधभागित्वे सति द्वयोरप्यनियता प्राप्तिस्तदा साधुनियमकारिणः शास्त्रस्य न विषयव्याघातः । एक एवायं शब्दः पुरुषाशक्तिप्रमादकारणादिभेदात्तां तां वर्णन्यूनातिरेकक्रमान्यत्वाद्यवस्थामनुपतंस्तेन तेनापभ्रंशरूपेण गृह्यमाणस्तमेवार्थं प्रतिपादयतीति न पर्यायकल्पनया वाचकशब्दान्तरत्वैकान्तसिद्धिः । किं च ।

देवदत्तादिनामानि निःसंदिग्धानि यानि च ।
बालैस्तत्तादिरूपेण नाश्यन्ते तैश्च संशयः ॥

तत्तादिशब्दादपि हि बालप्रयुक्तात्तदनुकारिकठोरबुद्धिप्रयुक्ताद्वा देवदत्ताद्यर्थप्रत्ययमुपलभमानः कथमिव प्रयोगप्रत्ययदर्शकाभ्यामेव वाचकत्वमध्यवस्येत् ।

अपभ्रंशाश्च ये केचिद्रूढा गाव्यादयो जने ।
तेऽपि गाव्यादिरूपेण नाश्यन्ते व्यभिचारिताः ॥

277 कतिषुचिदेव गाव्यादिषु चिरापभ्रष्टत्वाद्रूढयाशङ्कया साधुत्वभ्रान्तिर्भवेत् । ये तु संप्रत्येव जडप्रायज्ञानकरणैरभिनवगाव्यादिरूपेण विनाश्यशब्दाः प्रयुज्यमानाः प्रकृत्यनुसरणद्वारेण वाऽर्थं प्रत्यापयन्त उपलभ्यन्ते तेष्वपि प्रयोगप्रत्ययदर्शनमस्तीत्यनैकान्तिकता ।

ततश्च त्वत्प्रयुक्तोऽयं हेतुरप्यपराधभाक् ।
अनैकान्तिकतादोषान्न ह्यसौ साधनक्षमः ॥
अन्यथोच्चार्यमाणश्च शब्दोऽपभ्रश्यते यथा ।
तथा हेतुरनैकान्ताद्धेत्वाभासत्वमृच्छति ।
तस्माद्दृष्टप्रयोगेऽपि पुनरस्ति विचारणा ।
वाचकोऽयं न वेत्येवं सति वाऽन्येन निर्णयः ॥ २५ ॥