276 लोकेऽपि च—

अविनष्टे विनष्टे च दृश्येते साध्वसाधुते ।
तथा सति च तद्द्वारा सिद्धिः शब्दापशब्दयोः ॥
यद्वा सत्यत्वमेवेदं साधुत्वमभिधीयते ।
असत्यत्वमसाधुत्वं धर्माधर्मोपयोगवत् ॥
धर्माधर्मव्यवस्था हि सत्यानृतनिबन्धना ।
विहितप्रतिषिद्धत्वात्तयोश्चेष्टा सशास्त्रता ॥
अर्थसत्यं यथा वाच्यं शब्दसत्यं तथैव हि ।
शब्दानृतं न हातव्यमर्थानृतवदेव नः ॥
एवं सति व्यवस्थाने भक्ष्यामक्ष्यविभागवत् ।
प्रयोगोत्पत्त्यशास्त्रत्वादिति हेतोरसिद्धता ॥

अथ वा यदुक्तम् ।

साधोर्नित्यप्रसक्तत्वादसाधोरप्रसङ्गतः ।
न धर्मनियमोऽस्तीति तत्रेदमभिधीयते ॥
अपराधस्य भागित्वादुभयं सावकाशकम् ।
साधोरनियता प्राप्तिरसाधोश्च प्रयोज्यता ॥

यदि हि साधुः प्रयुज्यमानो न कश्चित्कदाचिदपि विनश्येत्ततस्तस्य नित्यप्राप्तत्वान्निवर्त्यापशब्दाप्राप्तेश्च नियमशास्त्रमनर्थकं भवेत् । यदा त्वपराधभागित्वे सति द्वयोरप्यनियता प्राप्तिस्तदा साधुनियमकारिणः शास्त्रस्य न विषयव्याघातः । एक एवायं शब्दः पुरुषाशक्तिप्रमादकारणादिभेदात्तां तां वर्णन्यूनातिरेकक्रमान्यत्वाद्यवस्थामनुपतंस्तेन तेनापभ्रंशरूपेण गृह्यमाणस्तमेवार्थं प्रतिपादयतीति न पर्यायकल्पनया वाचकशब्दान्तरत्वैकान्तसिद्धिः । किं च ।

देवदत्तादिनामानि निःसंदिग्धानि यानि च ।
बालैस्तत्तादिरूपेण नाश्यन्ते तैश्च संशयः ॥

तत्तादिशब्दादपि हि बालप्रयुक्तात्तदनुकारिकठोरबुद्धिप्रयुक्ताद्वा देवदत्ताद्यर्थप्रत्ययमुपलभमानः कथमिव प्रयोगप्रत्ययदर्शकाभ्यामेव वाचकत्वमध्यवस्येत् ।

अपभ्रंशाश्च ये केचिद्रूढा गाव्यादयो जने ।
तेऽपि गाव्यादिरूपेण नाश्यन्ते व्यभिचारिताः ॥