277 कतिषुचिदेव गाव्यादिषु चिरापभ्रष्टत्वाद्रूढयाशङ्कया साधुत्वभ्रान्तिर्भवेत् । ये तु संप्रत्येव जडप्रायज्ञानकरणैरभिनवगाव्यादिरूपेण विनाश्यशब्दाः प्रयुज्यमानाः प्रकृत्यनुसरणद्वारेण वाऽर्थं प्रत्यापयन्त उपलभ्यन्ते तेष्वपि प्रयोगप्रत्ययदर्शनमस्तीत्यनैकान्तिकता ।

ततश्च त्वत्प्रयुक्तोऽयं हेतुरप्यपराधभाक् ।
अनैकान्तिकतादोषान्न ह्यसौ साधनक्षमः ॥
अन्यथोच्चार्यमाणश्च शब्दोऽपभ्रश्यते यथा ।
तथा हेतुरनैकान्ताद्धेत्वाभासत्वमृच्छति ।
तस्माद्दृष्टप्रयोगेऽपि पुनरस्ति विचारणा ।
वाचकोऽयं न वेत्येवं सति वाऽन्येन निर्णयः ॥ २५ ॥

संशयापादनात्परपक्षे जितेऽपि स्वपक्षसिद्धिर्दुर्लभैवेत्येवमर्थमुत्तरसूत्रम्—अन्यायश्चानेक शब्दत्त्वमिति । कथं पुनरिदमन्याय्यम् । तदुच्यते—

वाच्यवाचकसामर्थ्यनियमो योऽभिधागतः ।
संबन्धस्तदनेकत्वे स्वरूपात्सोऽपि हीयते ॥

एकात्मकयोरेव हि वाच्यवाचकयोरन्योन्याक्षेपात्परस्परनियमः संभवत्यन्यतरस्यापि त्वनेकत्वे सति व्यभिचारान्नियमहानिः । किं च—

सामर्थ्यं सर्वभावानामर्थापत्त्याऽवगम्यते ।
एकसामर्थ्यसिद्धेऽर्थे नानेकं तच्च लभ्यते ॥

अत्यन्तादृष्टा हि वाच्यप्रत्ययान्यथानुपपत्तिमात्रप्रमाणिका वाचकशक्तिरेकत्रैव कल्पिता तदनुसार्यपभ्रंशेष्वपि चेदनुगम्यते को नाम तन्निरपेक्षवाचकशक्त्यन्तरकल्पनां लभेत ।

नाम च व्यवहारार्थमर्थस्याभ्युपगम्यते ।
तेनैकेनैव सिद्धेऽर्थे द्वितीयादि च निष्फलम् ॥

किं च—

विकल्पस्याष्टदोषत्वं पुरस्तादेव वर्णितम् ।
स चेहानेकशब्दत्वे निश्चयेन प्रसज्यते ॥