संशयापादनात्परपक्षे जितेऽपि स्वपक्षसिद्धिर्दुर्लभैवेत्येवमर्थमुत्तरसूत्रम्—अन्यायश्चानेक शब्दत्त्वमिति । कथं पुनरिदमन्याय्यम् । तदुच्यते—

वाच्यवाचकसामर्थ्यनियमो योऽभिधागतः ।
संबन्धस्तदनेकत्वे स्वरूपात्सोऽपि हीयते ॥

एकात्मकयोरेव हि वाच्यवाचकयोरन्योन्याक्षेपात्परस्परनियमः संभवत्यन्यतरस्यापि त्वनेकत्वे सति व्यभिचारान्नियमहानिः । किं च—

सामर्थ्यं सर्वभावानामर्थापत्त्याऽवगम्यते ।
एकसामर्थ्यसिद्धेऽर्थे नानेकं तच्च लभ्यते ॥

अत्यन्तादृष्टा हि वाच्यप्रत्ययान्यथानुपपत्तिमात्रप्रमाणिका वाचकशक्तिरेकत्रैव कल्पिता तदनुसार्यपभ्रंशेष्वपि चेदनुगम्यते को नाम तन्निरपेक्षवाचकशक्त्यन्तरकल्पनां लभेत ।

नाम च व्यवहारार्थमर्थस्याभ्युपगम्यते ।
तेनैकेनैव सिद्धेऽर्थे द्वितीयादि च निष्फलम् ॥

किं च—

विकल्पस्याष्टदोषत्वं पुरस्तादेव वर्णितम् ।
स चेहानेकशब्दत्वे निश्चयेन प्रसज्यते ॥
278
नामान्तरे श्रुते चार्थस्तद्भिन्नोऽन्यः प्रतीयते ।
संज्ञा89 चोत्पत्तिसंयोगादित्यत्रैतद्वदिष्यते ॥
या तु हस्तः करः पाणिरित्यत्रानेकशब्दता ।
अनन्यगतिकत्वेन सा दृढस्मरणेन च ॥
एकशक्त्यनुसारेण यावत्त्वस्ति गतिः क्वचित् ।
उपमानानुमानाभ्यां तावत्सैवानुगम्यते ॥
तस्मात्स्वरूपसंबन्धशब्दार्थत्वनिरूपणे ।
एकैकनियमादेव गतिः स्यान्नान्यगोचरा ॥

यथा च प्रकृतिसारूप्यद्वारेणापभ्रंशाः प्राकृतीमेव शक्तिमाविर्भावयन्तोऽर्थप्रतिपत्तावुपयोगं गच्छन्तिं तथा 90तदशक्तिश्चानुरूपत्वादित्यत्र वर्णयिष्यते ।

तेनानेकप्रयोगेऽपि कश्चिदेवार्थसंगतः ।
तदुपस्थापनेनान्ये बोधकास्तदशक्तिजाः ॥ २६ ॥
  1. जै॰ सू॰ ( २—२—८ ) ।
  2. जै॰ सू॰ ( १—३—८ ) ।