278
नामान्तरे श्रुते चार्थस्तद्भिन्नोऽन्यः प्रतीयते ।
संज्ञा89 चोत्पत्तिसंयोगादित्यत्रैतद्वदिष्यते ॥
या तु हस्तः करः पाणिरित्यत्रानेकशब्दता ।
अनन्यगतिकत्वेन सा दृढस्मरणेन च ॥
एकशक्त्यनुसारेण यावत्त्वस्ति गतिः क्वचित् ।
उपमानानुमानाभ्यां तावत्सैवानुगम्यते ॥
तस्मात्स्वरूपसंबन्धशब्दार्थत्वनिरूपणे ।
एकैकनियमादेव गतिः स्यान्नान्यगोचरा ॥

यथा च प्रकृतिसारूप्यद्वारेणापभ्रंशाः प्राकृतीमेव शक्तिमाविर्भावयन्तोऽर्थप्रतिपत्तावुपयोगं गच्छन्तिं तथा 90तदशक्तिश्चानुरूपत्वादित्यत्र वर्णयिष्यते ।

तेनानेकप्रयोगेऽपि कश्चिदेवार्थसंगतः ।
तदुपस्थापनेनान्ये बोधकास्तदशक्तिजाः ॥ २६ ॥

तुल्यप्रयोगप्रतिपत्तीनामन्यतरावधारणमशक्यामिति चेदत आह—तत्र तत्त्वमभियोगविशेषात्स्यादिति । कः पुनरभियोगः को वा तद्विशेषः कथं वा तेन वाचकत्वनिरूपणमिति । तदुच्यते—

लक्षणश्रवणाभ्यासादभियोगः प्रवर्तते ।
तेन लक्ष्यान्तरज्ञानं तद्विशेषोऽभिधीयते ॥

प्रतिपदपाठो ह्यानन्त्यादत्यन्ताशक्यस्तदभावे च लक्षणानुसरणमेवैकमशेषलक्ष्यनिरूपणक्षमत्वेनावधार्यते ।

तस्मान्न लोकवेदाभ्यां कश्चिद्व्याकरणादृते ।
वाचकाननपभ्रष्टान्यथावज्ज्ञातुमर्हति ॥
तत्सामस्त्यापरिज्ञाने पारिशेष्यानिरूपणात् ।
अर्थापत्त्याऽपशब्दानां निश्चयो नोपपद्यते ॥
लक्षणानुगमाद्यांस्तु बहिरेव प्रयुञ्जते ।
नियतप्रतिपक्षत्वात्तेष्वर्थापत्तिसंभवः ॥

  1. जै॰ सू॰ ( २—२—८ ) ।
  2. जै॰ सू॰ ( १—३—८ ) ।