तुल्यप्रयोगप्रतिपत्तीनामन्यतरावधारणमशक्यामिति चेदत आह—तत्र तत्त्वमभियोगविशेषात्स्यादिति । कः पुनरभियोगः को वा तद्विशेषः कथं वा तेन वाचकत्वनिरूपणमिति । तदुच्यते—
प्रतिपदपाठो ह्यानन्त्यादत्यन्ताशक्यस्तदभावे च लक्षणानुसरणमेवैकमशेषलक्ष्यनिरूपणक्षमत्वेनावधार्यते ।
279 तेनोभयज्ञानस्यापि व्याकरणमेवोपाय इति तद्गताभियोगविशेषाश्रयणम् । यत्तु प्रयोगोत्पत्तिशास्त्रत्वादिति लक्षणे तन्मूलासंभवादितरेतराश्रयत्वमुक्तं तल्लोकव्यवहारप्रसिद्धप्रतिपादकत्वमात्रेणानिर्णीतपारमार्थिकवाचकत्वैरपि व्याकरणावयवभूतैः पदैः केषांचित्साधुत्वमन्वाख्याय पुनस्तैरप्यन्वाख्यापकशब्दसाधुत्वनिर्णयात्परिहरिष्यते ।
तेन संकीर्णासंकीर्णवाचकज्ञानोपायत्वाल्लोकव्याकरणयोर्भिन्नविषयत्वेनापुनरुक्तता, वेदे साधुशब्दमात्रदर्शनादनर्थकं व्याकरणमिति चेत् । न । अकृत्स्नविषयत्वात् ।
यथैव लौकिकप्रतिपदपाठस्याशक्यत्वमेवं वेदेऽपि सर्वशाखागतान्सकृदपि श्रोतुमशक्तिः किमुताध्येतुम् ।
एतेन पुरुषार्थक्रत्वर्थादृष्टसाधुशब्दप्रयोगज्ञानसाध्यसाधनभावविधिवाक्यगतपदव्याक्रिया तस्याश्च पूर्वप्रसिद्धतन्मूलत्वकल्पनागतेतरेतराश्रयत्वप्रसङ्गः प्रत्युक्तः । यदि ह्येकान्तेन “तस्मान्न ब्राह्मणेन म्लेच्छितवै” “एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग्भवति” 91“तस्मादेषा व्याकृता वागुद्यते” इति चैवमादिक्रतुपुरुषगतनियमविधिदर्शनोत्तरकालमेव व्याकरणेन प्रवर्तितव्यमिति पौर्वापर्यव्यवस्था भवेत्तत एवं पर्यनुयोगः प्रसज्येतापि व्याकृतत्वाश्रयो वेदविधिर्वेदविध्याश्रयं च व्याकरणं कथमवकल्पिष्यत इति । यदा तु किंचिद्ग्रन्थोपनिबद्धप्रकृतिप्रत्ययादिविभागद्वारप्रक्रियात्मकव्याकरणस्मृतिवर्जितकालाभावादन्वाख्यानान्वाख्येयान्वाख्यातविधिप्रयोगानन्वाख्यातप्रतिषेधवर्जनषट्कस्याप्यवगम्यमानवेदविधिमूलत्वादनादित्वे सति सर्वेषां वेदवेदियूपाहवनीयाध्वर्युगोदोहनादिस्वरूपतत्कार्यतत्साधनविधीनामिव सर्वदाऽनवगतपूर्वापरविभागसंब280 न्धेऽत्यन्तादृष्टार्थत्वमेव केवलं शास्त्रप्रत्ययाधीनं, तदा सर्वकालव्याक्रियमाणविद्यमानशब्दनियमविधेर्न किंचिदनुपपन्नम् । यत्तु वाचकत्वावाचकत्वव्यतिरिक्तसाध्वसाधुताभावाद्वाचकावाचकत्वयोश्च लौकिकप्रयोगप्रतिपत्तितद्विपर्ययमात्रशरणत्वाद्गाव्यादिशब्दानामवाचकत्वप्रतिज्ञाने लोकविरोधान्न भेर्यादिशब्दमातृकाक्षरपाठप्रसिद्धन्यूनातिरिक्तविपर्यस्तवर्णपदव्यतिरिक्तप्रसिद्धमध्ये कश्चिदपशब्दो नामास्तीति । तत्राभिधीयते—
लोकव्याकरणाभ्यां हि मिश्राभ्यामविप्लुतवाचकसिद्धिरिति तावदेव लोकव्यवहाराद्वाचकत्वज्ञानं जायते यावद्वयाकरणानुगतत्वं नाभ्युपगम्यते ।
यदा तु तयोर्मार्गभेदेन प्रतिपत्तिस्तदा ‘तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात्’92 इत्युपन्यस्य ‘शास्त्रस्था वा तन्निमित्तत्वात्’ इत्यनेनैवोत्तरेण व्याकरणाख्यशास्त्रगतप्रतिपत्तिबलीयस्त्वं तदभियुक्तपुरुषबलीयस्त्वं वा पूर्वमेव स्थापितम् ।
यथैव तुल्यशिरःपाण्याद्याकारेष्वपि संकीर्णलोकदृष्टिग्राह्येषु ब्राह्मणादिषु मातापितृसंबन्धस्मरणादेव वर्णविवेकावधारणं भवति तथा साधुशब्दावधारणमपीति लोकविरोधाभावः ।
यो नाम स्मृतिप्रतिपादितोऽर्थः कर्मफलसंबन्धवदनियतकालत्वान्न ज्ञायते कदा भविष्यतीति सोऽत्यन्तं प्रत्यक्षाद्यविषयत्वात्केवलशास्त्रमूलत्वेन स्थाप्यते । यस्य त्वादौ स्मरणजनितविवेके कृते तदनन्तरमेव प्रत्यक्षमपि विचाराभ्यासजनितसंस्कारस्य रागाभ्यासजनितषङ्जादिविभागविषयमिव साध्वसाधुशब्दरूपगोचरमुपजायते ।
तेनापशब्दगतवाचकत्वापादनस्यैव समस्तप्रमाणविरोधः शक्यो वक्तुं न स्मर्यमाणशब्दसाधुत्वपक्षस्येति निरवद्यता । तेनादृष्टार्थप्रत्यायननियमप्रतिषेधद्वारं धर्माधर्मसाध281 नत्वकृतमपि साध्वसाधुत्वज्ञानमुपपत्स्यते । यस्त्वाह—साधुत्वं नेन्द्रियग्राह्यमित्यादिश्लोकम् । तं प्रत्येवं वक्तव्यम् ।
ग्रस्तनिरस्ताम्बूकृतादिदोषवर्जितनियमह्रस्वादिकालाभिव्यङ्ग्ययथालक्षितक्रमग्राह्यवर्णानां स्मर्यमाणाविनष्टवाचकरूपविषयश्रोत्रज्ञानेनोदात्तादिवदिन्द्रियग्राह्यत्वम् । तदुत्तरकालप्रवृत्तव्यवहारगतार्थप्रतिपत्तिसहितलक्षणगतप्रकृतिप्रत्ययलोपागमविकारादेशादिलिङ्गमप्यव्यभिचारि विद्यते । शास्त्रस्य च द्विविधस्यापि श्रुतिस्मृतिरूपस्य स्वर्गलोकयज्ञोपकारसिद्धिसाधनभावप्रतिपादनार्थस्यार्थानर्थकार्यस्वरूपज्ञानार्थस्य चायमेवंविध एवान्योऽपि विषयः । अविनष्टैः शब्दैर्भाषमाणस्य स्वर्गयज्ञोपकारौ भवतः । याज्ञे च कर्मण्यपशब्दैर्भाषमाणस्यानृतमिव वदतः प्रतिषिद्धाचरणनिमित्तक्रतुवैगुण्यप्रसङ्गः । यथोक्तं “वाग्योगविद्दुष्यति चापशब्दैः” इति । एतौ द्वावप्यर्थौ न शास्त्रादृतेऽन्येन प्रतिपादयितुं शक्येते इत्यतीव शास्त्रविषयः । द्वाम्यामेव च विधिप्रतिषेम्यामविनष्टैः शब्दैः स्वर्गयज्ञोपकारकामो भाषेत न विनष्टैरिति न प्रतिशब्दापशब्दमनन्तविधिप्रतिषेधकल्पनप्रसङ्गः । न च विधिप्रतिषेधविषयेणैव शास्त्रेण भवितव्यं न प्रमेयस्वरूपज्ञापनार्थेनेत्येतदीश्वराज्ञासिद्धम् । न हि ‘अविनाशी वा अरे अयमात्माऽनुच्छितिधर्मा’ इत्यादि, ‘चतुस्त्रिंशदाश्चीनानि सरस्वत्या विनशनप्लाक्षप्रश्रवणे’ इत्येवमादिवाक्यशेषाणां च शास्त्रगतानामर्थतत्त्वप्रतिपादनपरत्वं न लभ्यते । नापि तत्प्रतिपादने शास्त्रशब्दवाच्यत्वबाधः । अथापि विधिप्रतिषेधात्मकेनैव शास्त्रेण भवितव्यमिति का चित्परिभाषा तथाऽप्येवंविधाः साधुशब्दाः प्रत्येतव्या इतीदृशो विधिः संभवत्येव । यो वाक्यान्तरावगतादृष्टफलार्थी यद्यविनष्टैः शब्दैर्भाषितुमिच्छेत् स चैतानेवंरूपानेतत्क्रममांत्रांश्च वर्णानुपाददीत नाधिकान्न न्यूनांश्चेति यावद्रूपं विधिप्रतिषेधौ शक्यौ दर्शयितुमिति शास्त्रविषयत्वसिद्धिः । निःसंदिग्धवृद्धबालप्रयुक्तदेवदत्ततत्तादिशब्दोपमयाऽपि च सर्वशब्दानां विनष्टाविनष्टरूपैरवश्यं भवितव्यमिति शक्यं विज्ञातुम् । एवं व्याकरणानुगतवैदिकशब्दाविनाशसादृश्यादपि तद्विधलौकिकाविनष्टत्वोपमानं दर्शयितव्यम् । तथा लौकिकार्थप्रत्ययोत्थापितवाचकत्वार्थापत्तिलभ्यस्तावदेकः साधुत्वनिश्चयः । ततः संभवत्प्रमादालस्यकरणवैगुण्यनिमित्तापभ्रष्टरूपवर्जितकेवलसाध्वन्वाख्यानस्यान्यथानुपपद्यमानत्वादपरयाऽप्यर्थापत्त्या सिद्धमेव साधुत्वज्ञानम् ।
पौरुषेयव्याकरणागमपरम्परायामपि च तदनुगतसाधुत्वानन्तरदर्शनात्पूर्वदृष्टविवेकज्ञानमात्रपरत्वाद्वा नान्धपरम्परावचनन्यायप्रसङ्गः । यावानिह दृष्टार्थांशः स वैदिकविधिप्रतिषेधद्वयादेवोपपन्नः । तत्सिद्धयर्थाविनष्टशब्दरूपज्ञानं वेदशिष्टप्रयोगसंवादिव्याकरणान्वाख्यानपारम्पर्येण सद्यः फलत्वात्सुलभमिति न पुरुषकृतत्वनिमित्तदोषप्रसङ्गः । यत्तु दृष्टार्थत्वात्स्वसामर्थ्यप्राप्तत्वादेव 93‘अप्राप्ते शास्त्रमर्थवत्’ इति वाचकभाषणविधानमनुपपन्नमिति तत्राधिकरणेनैवोत्तरं दास्यते 94‘नियमार्था वा श्रुतिरुच्यते’ इति । यत्त्ववाचकत्वेनापशब्दानामप्रसङ्गाद्वयावर्त्याभावे नियमानुपपत्तिरिति । तत्रोच्यते—
सति भाषितव्ये कदाचिदविनष्टेन भाषेत कदाचित्प्रमादाशक्तिजापभ्रंशेनाप्यक्षिनिकोचनादिना वा शब्दरहितेनैव प्रत्यापयेत् ।
यद्यपि च नियमेऽन्यनिवृत्तिरवश्यं कल्पनीया तथाऽपि साधुशब्दस्मृतिव्यवहितानां 95कालरूढरूपभ्रान्तिवाचकत्वगृहीतानां चापशब्दानां संभवति प्रयोगप्रसङ्गे साधुनियमेन व्यावृत्तिः ।
अथ वा नैवापशब्दानामपृथक्त्वे केचिदेकक्रियाविषयानेकद्रव्यगुणादिवदभिधायां प्राप्नुवन्ति ये साधुनियमेन व्यावर्त्येरन् । किं तु ।
तद्यथा । ‘यो विदग्धः स नैर्ऋतः’ इत्येवमादिदोषनिन्दापूर्वकम् ‘अविदहता श्रपयितव्यः’ इति नियम्यते । तथा ‘दुष्टः शब्दः स्वरतो वर्णतो वा’ इत्यादिना निन्दितत्वात्, ‘तस्माद्ब्राह्मणेन न म्लेच्छितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्दः’ इति प्रमादादिनिमित्तविनाशेन शब्दकार्यादर्थसाधनादपेतोऽयं म्लेच्छः, 96‘म्लेच्छ अव्यक्तायां वाचि’ इति स्मरणात्स न प्रयोक्तव्य इति प्रतिषेधः । ‘तस्मादेषा व्याकृता वागुद्यते’ इति च विधिरविनष्टप्रयोगनियमार्थः ।
उच्यते—
यत्तु दृष्टार्थप्रत्यायननिराकाङ्क्षत्वाददृष्टार्थप्रयोगोत्पत्त्यशास्त्रत्वमिति । तत्रोच्यते—
97‘एकस्य तूभयत्वे संयोगपृथत्क्वं' तच्चेह प्रकरणानारभ्यवादाभ्यामवगतं, तत्र—
क्रत्वर्थं ह्यतिर्ज्ञातोपायत्वात्सर्वादृष्टोपसंग्रहक्षममिति नियमापूर्वमात्मसात्कुर्वत्पुरुषार्थांशे फलश्रुतिमर्थवादी करोति । पुरुषार्थस्य नियमस्य त्ववश्यकल्पनीयप्रयोजनत्वादर्थप्रतिपत्तेश्चापभ्रंशेऽप्यक्षिनिकोचादिभ्यो वा सुतरां सिद्धत्वादनाकाङ्क्षितनियमापूर्वोपजी284 वनसामर्थ्यं नास्तीत्यवश्यमर्थवादोपात्तमेव स्वर्गलोके कामधुगाद्येव फलत्वेनाऽऽश्रयणीयम् । यत्तु न ज्ञायते क्वेदं नियमापूर्वमाश्रितमिति, तत्राभिधीयते—
99‘प्रकरणविशेषाद्वा तद्युक्तस्य तत्संस्कारो द्रव्यवत्’ इति हि ज्योतिष्टोमप्रकरणगतब्राह्मणशब्दलक्षिततदपूर्वसाधनयजमानसंस्कारत्वात्साधुभाषणनियमापूर्वस्य 100‘याजमानास्तु तत्प्रधानत्वात्कर्मवत्’ इत्यनेन न्यायेन फलप्रतिग्रहणयोग्यत्वाधानार्थं तदाश्रितमेव विज्ञायते । पुरुषार्थवाक्येऽपि सम्यग्ज्ञातसुप्रयुक्तत्वाक्षिप्तज्ञातृप्रयोक्तृपर्युपस्थापनात्क्रियाफलयोश्च तद्गामित्वात्प्रधानयागाद्यपूर्ववदेव ज्ञातृप्रयोक्त्राश्रितं निष्पद्यते ।
यथैव ‘प्रयाजशेषेण हवींष्यभिघारयति’ इति सत्यपि शेषस्य तृतीयानिर्देशे कार्योपयोगित्वात्संस्कार्यत्वावधारणमेवं ब्राह्मणस्यापीत्यदोषः ।
तच्चोपयोगित्वं प्रकरणतृतीयाविभक्तिश्रवणाभ्यामवगतं शेषस्वीकरणसमर्थं भवति । बाह्यपुरुषार्थत्वेऽपि कामधुक्छब्दस्य पुरुषोपभोग्यकाम्यमानार्थसाधनवचनत्वात्पुरुषप्राधान्यप्रतिपत्तिः । यद्यपि च साधुशब्दोच्चारणमुच्चारयित्रर्थं क्रत्वर्थं च न भवति तथाऽपि तद्गतनियमप्रतिषेधयोरेव क्रत्वर्थपुरुषार्थत्वे भविष्यतः । न हि यदर्थे कर्मणि यौ नियमप्रतिषेधौ तावेव केवलौ तदर्थौ भवतः । तथा हि—
अतश्च परार्थोच्चारणाश्रितावपि नियमप्रतिषेधौ स्वप्रयोजनाकाङ्क्षावेलायां संनिहितपुरुषप्रधानौ विज्ञायेते ।
शास्त्रशब्दो यदि तावद्रूढस्ततश्चतुर्दशसु तावद्विद्यास्थानेषु शास्त्रस्थानामेव प्रसिद्धस्तदन्तर्गतत्वाच्च व्याकरणस्य शास्त्रत्वनिराकरणानुपपत्तिः । अथापि शिष्यतेऽनेनेति शास्त्रत्वमन्वर्थमिष्यते तथाऽपि व्याकरणेन साधुशब्दाः शिष्यन्ते तदनुगमोपाया वा प्रकृतिप्रत्ययादयस्तदभियुक्तशिष्यजनो वेति सर्वथा शास्त्रशब्दप्रवृत्तिरविहता ।
यथैव हि व्याकरणादीनां कृत्रिमकाव्योपनिबन्धसाधर्म्याच्छास्त्रत्वं प्रतिषेद्धुमध्यवसीयते, तथाऽऽकाशदिक्कालात्मनां परमाणुदृष्टान्तबलेन नित्यत्वाद्वेदस्याशास्त्रत्वमप्ययत्नेनैव क्रियेत । यो हि नागरिकभाषाभिज्ञतया ग्रामीणैर्मातापितरावपि 101शुक्लवचनैरभिदधीत स केनान्येन वार्येत ।
यत्त्वितरस्मृतीनां प्रायेण सारूप्याद्वयाकरणस्य तद्विलक्षणत्वात्तन्मध्यपातित्वमसंभाव्यमिति । तत्रोच्यते । सर्वधर्मसूत्राणां वर्णाश्रमधर्मोपदेशित्वाद्धर्माणां चैकरूपप्रायत्वात्परस्परसंवादित्वं युक्तं, व्याकरणस्य त्वन्य एव साधुशब्दतत्त्वनिर्णयरूपो विषयस्तत्रास्य व्याकरणान्तरेणैव संगतिः स्यान्न धर्मसूत्रैः । स्मृतित्वं त्वङ्गानां धर्मसूत्राणां चाविशिष्टम् ।
इति हि तुल्यवत्प्रामाण्यस्मरणम्—
इह तु समूलत्वादेकान्तरितप्रामाण्यसिद्धिः । यत्तु सूत्रवार्तिकभाष्यकाराणामन्योन्यविगीतवचनत्वादप्रमाणत्वमिति । तत्राभिधीयते—
मूलानुरूप्येण हि स्मृतीनां प्रमाणत्वं तदविगानेन—
पुनरुक्तत्वादिना हि यत्सूत्रप्रत्याख्यानं तस्य च पुनः समाधानम् ।
तद्यथा । वाजसनेयिशाखायामाध्वर्यवं चरकशाखासु च बह्वित्येतावता नाल्पविषयमप्रमाणीकुर्वन्ति । तस्मादयमपि न दोषः । यस्तु सूत्रकारस्य प्रयोजनानभिधानोपालम्भः ।
सत्यवचनं च सर्वश्रुतिस्मृतिषु स्वर्गसाधनत्वेन यागसाधनत्वेन च नियतम् । सत्यं च द्विविधं शब्दसत्यमर्थसत्यं च । तत्र यथैव यथावस्थिताविप्लुतार्थवचनं श्रेयःसाधनमेवं यथावस्थितशब्दसत्यवचनमपि, यथा चार्थसत्यविपर्ययः प्रत्यवायायैवं विनियोगकालप्रयुक्तशब्दानृतवचनमपि । शब्दसाधुत्वज्ञानं च व्याकरणाभियोगविशेषादित्युक्तम् ।
न च व्याकरणप्रयोजनाभिप्रायं प्रति केचिद्विवदन्ते । स एव त्वभिप्रायः किं न्याय्यो नेत्यर्थान्तरमेतत् ।
नियमद्वयप्रयुक्तं व्याकरणम् । साधुशब्दज्ञानात्तत्पूर्वप्रयोगाद्वा स्वर्गयज्ञोपकारसिद्धिरित्येतत्तावद्वेदमूलमनन्यप्रमाणकत्वात् । अतश्चायं तावद्वेदाख्येन शास्त्रेण धर्मनियमः ।
तेन वेदावगतसम्यग्ज्ञातसाधुशब्दप्रयोगात्मकधर्माङ्गत्वेन व्याकरणप्रक्रियेतिकर्तव्यतया नित्यवाचकशब्दरूपज्ञाननियमः क्रियते । यच्च कात्यायनेन ज्ञाने धर्म104 इति चेत्तथाऽधर्म इति तन्त्रेण प्रसङ्गेन वाऽपशब्दज्ञानादधर्मत्वापत्तिदोषमभिधाय 105शास्त्रपूर्वप्रयोगेऽभ्युदय इति निःश्रेयससिद्धयुपायेऽवधारिते यत्पुनः परावृत्त्य भाष्यकारेणोक्तम्, 106‘अथ वा पुनरस्तु ज्ञाने धर्म इत्यभ्युपेत्यवादमात्रं तत्पूर्वोक्तदोषपरिहारसामर्थ्यप्रदर्शनार्थं कृत्वाचिन्तान्यायेनोक्तम् । परमार्थतस्त्वन्यानर्थक्यप्रसङ्गविज्ञातपारार्थ्यापादितार्थवादत्वात्फलश्रुतिर्न फलप्रतिपत्तिक्षमा विज्ञायते । यथा ‘योऽश्वमेधेन यजते य उ चैनमेवं वेद’ इति ज्ञानमात्रादेव ब्रह्महत्यातरणं यदि सिध्येत्को जातुचिद्बहुद्रव्यव्ययायाससाध्यमश्वमेधं कुर्यात् । तद्विधानं तानर्थकमेव स्यात् । एवं शब्दज्ञानाच्चेद्धर्मः सिध्येत्को नामानेकताल्वादिव्यापारायासखेदमनुभवेत् । तस्भात्क्रतुवदेव ज्ञान288 पूर्वप्रयोगस्यैव फलं कारणे कार्यवदुपचारात्तण्डुले 107देववर्षणवज्ज्ञाने धर्मवचनमापादिताधर्मपरिहाराभिधानशक्तिमात्रप्रदर्शनार्थमेवोपन्यस्तं न फलवत्त्वप्रतिपादनाय । ‘द्रव्यसंस्कारकर्मसु परार्थत्वात्’108 इत्यनेन न्यायेन ज्ञानस्य पुरुषशब्दसंस्कारत्वेन निराकाङ्क्षस्य फलसंबन्धासंभवात् ।
आत्मज्ञानं हि संयोगपृथक्त्वात्क्रत्वर्थपुरुषार्थत्वेन ज्ञायते तेन विना परलोकफलेषु कर्मसु प्रवृत्तिनिवृत्त्यसंभवात् । तथा ‘य आत्माऽपहृतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः' तथा ‘मन्तव्यो बोद्धव्यः’ तथा ‘आत्मानमुपासीत’ इति कामवादलोकवादवचनविशेषैर्जिज्ञासामननसहितात्मज्ञानकेवलावबोधपर्यन्तस्पष्टात्मतत्त्वज्ञानविधानापेक्षितवाक्यान्तरोपात्तद्विविधाभ्युदयनिःश्रेयसरूपफलसंबन्धः । ‘स सर्वांश्च लोकानाप्नोति सर्वांश्च कामानाप्नोति तरति शोकमात्मवित्तथा स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन संपन्नो महीयते’ इत्यादिना योगजन्याणिमाद्यष्टगुणैश्वर्यफलानि वर्णितानि । तथा ‘स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसंपद्यते न स पुनरावर्तते’ इत्यनिरावृत्त्यात्मकपरमात्मप्राप्त्यवस्थाफलवचनम् । अप्रकरणगतत्वेनानैकान्तिकक्रतुसंबन्धाच्च नाञ्जनखादिरस्रुववाक्यादिफलश्रुतिवदर्थवादत्वम् ।
प्रत्याश्रमवर्णनियतानि नित्यनैमित्तिककर्माण्यपि पूर्वकृतदुरितक्षयार्थमकरणनिमित्तानागतप्रत्यवायपरिहारार्थं च कर्तव्यानि । न च तेषां भिन्नप्रयोजनत्वाद्भिन्नमार्गत्वाच्च बाधविकल्पपरस्पराङ्गाङ्गिभावाः संभवन्ति । शब्दज्ञानस्य त्वेकान्तेन प्रयोगाङ्गत्वात्पूर्वतरभावित्वाच्च न पृथक् फलसंबन्धसंभव इति ज्ञानपूर्वप्रयोगफलवत्त्वमेव निश्चीयते । यत्त्वादिमद्वयाकरणज्ञानतत्पूर्वकप्रयोगफलसंबन्धोऽनादिविधिमूलो नावकल्पत इति । तत्र यूपादिकरणवद्वयाकरणपरम्परानादित्वादनुपालम्भः । ‘तस्मादेषा व्याकृता’ इति च व्याकरणव्यवहारनित्यत्वमुक्तम् ।
289 यदपि च मनुना पङ्क्तिपावनमध्ये केदादेवोपलभ्योक्तम् । ‘यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम्’109 इति तेनापि पूर्वपश्चादुक्ताधीतवेदत्वयज्ञमीमांसनव्यतिरिक्तविषयेण सताऽवश्यमेतदेव व्याकरणज्ञानमाश्रयितव्यमिति तन्नित्यत्वसिद्धिः 110 ॥ २७ ॥ २८ ॥ २९ ॥
- तै॰ सं॰ ( ६—४—७ )↩
- जै० सू० ( १—३—४ )↩
- जै॰ सू॰ ( ६—२—४ ) ।↩
- जै॰ सू॰ ( ४—२—९ ) ।↩
-
विप्रकर्षाभिधायिकालशब्दोक्तानामपशब्दानां, रूढपदपरामृष्टो योऽस्मर्यमाणावधिदीर्घकालप्रयोगो यश्च रूपशब्दोक्तम्लेच्छभाषणविलक्षणसाधुशब्दसादृश्यात्मकोऽर्थः, तदुभयात्मककारणजन्यया भ्रान्त्याऽऽधुनिकैर्वाचकत्वेन गृहीतानामित्यर्थः ।
↩ - मा॰ धा॰ ( २०५ ) ।↩
- जै॰ सू॰ ( ४—३—३ ) ।↩
- जै॰ सू॰ ( ४—३—६ ) ।↩
- जै॰ सू॰ ( ३—४—९ ) ।↩
- जै. सू. ( ३—८—२ ) ।↩
-
शुक्लवचनमिति—निष्ठुरवचनमित्यर्थः ।
↩ - जै॰ सू॰ (१-३-१)↩
-
लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः ।
↩ - म॰ भा॰ पस्पशाहिनके ।↩
-
शास्त्रपूर्वके प्रयोगेऽभ्युदयस्तत्तुल्यं वेदशब्देन ।
↩ - म॰ भा॰ पस्प॰ ।↩
-
देवो वर्षति तण्डुलान् इत्यत्र यथा तण्डुलशब्दो वृष्टावुपचर्यते इति दृष्टान्तार्थः ।
↩ - जै॰ सू॰ ( ४—३—१ ) ।↩
-
यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम् । तावुभौ पुण्यकर्माणौ पङ्क्तिपावनपावनौ ।
↩ -
अत्रच वार्तिककारैः ‘तदशक्तिश्चानुरूपत्वात्’ इति सूत्रं प्रसङ्गात्पूर्वमेव ‘अन्यायश्चानेकशब्द्बत्वम्’ इति सूत्रव्याख्यानान्ते ‘यथा प्रकृति सारूप्यद्वारेणापभ्रंशा’ इत्यादिग्रन्थेन व्याख्यातत्वान्न व्याख्यातम् । एवं ‘एकदेशत्वाच्च विभक्तिव्यत्यये स्यात्’ इति सूत्रं च भाष्यकारैः सुस्पष्टं व्याख्यातत्वादुपेक्षितमिति वेदितव्यम् ।
↩