284 वनसामर्थ्यं नास्तीत्यवश्यमर्थवादोपात्तमेव स्वर्गलोके कामधुगाद्येव फलत्वेनाऽऽश्रयणीयम् । यत्तु न ज्ञायते क्वेदं नियमापूर्वमाश्रितमिति, तत्राभिधीयते—
99‘प्रकरणविशेषाद्वा तद्युक्तस्य तत्संस्कारो द्रव्यवत्’ इति हि ज्योतिष्टोमप्रकरणगतब्राह्मणशब्दलक्षिततदपूर्वसाधनयजमानसंस्कारत्वात्साधुभाषणनियमापूर्वस्य 100‘याजमानास्तु तत्प्रधानत्वात्कर्मवत्’ इत्यनेन न्यायेन फलप्रतिग्रहणयोग्यत्वाधानार्थं तदाश्रितमेव विज्ञायते । पुरुषार्थवाक्येऽपि सम्यग्ज्ञातसुप्रयुक्तत्वाक्षिप्तज्ञातृप्रयोक्तृपर्युपस्थापनात्क्रियाफलयोश्च तद्गामित्वात्प्रधानयागाद्यपूर्ववदेव ज्ञातृप्रयोक्त्राश्रितं निष्पद्यते ।
यथैव ‘प्रयाजशेषेण हवींष्यभिघारयति’ इति सत्यपि शेषस्य तृतीयानिर्देशे कार्योपयोगित्वात्संस्कार्यत्वावधारणमेवं ब्राह्मणस्यापीत्यदोषः ।
तच्चोपयोगित्वं प्रकरणतृतीयाविभक्तिश्रवणाभ्यामवगतं शेषस्वीकरणसमर्थं भवति । बाह्यपुरुषार्थत्वेऽपि कामधुक्छब्दस्य पुरुषोपभोग्यकाम्यमानार्थसाधनवचनत्वात्पुरुषप्राधान्यप्रतिपत्तिः । यद्यपि च साधुशब्दोच्चारणमुच्चारयित्रर्थं क्रत्वर्थं च न भवति तथाऽपि तद्गतनियमप्रतिषेधयोरेव क्रत्वर्थपुरुषार्थत्वे भविष्यतः । न हि यदर्थे कर्मणि यौ नियमप्रतिषेधौ तावेव केवलौ तदर्थौ भवतः । तथा हि—
अतश्च परार्थोच्चारणाश्रितावपि नियमप्रतिषेधौ स्वप्रयोजनाकाङ्क्षावेलायां संनिहितपुरुषप्रधानौ विज्ञायेते ।