279 तेनोभयज्ञानस्यापि व्याकरणमेवोपाय इति तद्गताभियोगविशेषाश्रयणम् । यत्तु प्रयोगोत्पत्तिशास्त्रत्वादिति लक्षणे तन्मूलासंभवादितरेतराश्रयत्वमुक्तं तल्लोकव्यवहारप्रसिद्धप्रतिपादकत्वमात्रेणानिर्णीतपारमार्थिकवाचकत्वैरपि व्याकरणावयवभूतैः पदैः केषांचित्साधुत्वमन्वाख्याय पुनस्तैरप्यन्वाख्यापकशब्दसाधुत्वनिर्णयात्परिहरिष्यते ।
तेन संकीर्णासंकीर्णवाचकज्ञानोपायत्वाल्लोकव्याकरणयोर्भिन्नविषयत्वेनापुनरुक्तता, वेदे साधुशब्दमात्रदर्शनादनर्थकं व्याकरणमिति चेत् । न । अकृत्स्नविषयत्वात् ।
यथैव लौकिकप्रतिपदपाठस्याशक्यत्वमेवं वेदेऽपि सर्वशाखागतान्सकृदपि श्रोतुमशक्तिः किमुताध्येतुम् ।
एतेन पुरुषार्थक्रत्वर्थादृष्टसाधुशब्दप्रयोगज्ञानसाध्यसाधनभावविधिवाक्यगतपदव्याक्रिया तस्याश्च पूर्वप्रसिद्धतन्मूलत्वकल्पनागतेतरेतराश्रयत्वप्रसङ्गः प्रत्युक्तः । यदि ह्येकान्तेन “तस्मान्न ब्राह्मणेन म्लेच्छितवै” “एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग्भवति” 91“तस्मादेषा व्याकृता वागुद्यते” इति चैवमादिक्रतुपुरुषगतनियमविधिदर्शनोत्तरकालमेव व्याकरणेन प्रवर्तितव्यमिति पौर्वापर्यव्यवस्था भवेत्तत एवं पर्यनुयोगः प्रसज्येतापि व्याकृतत्वाश्रयो वेदविधिर्वेदविध्याश्रयं च व्याकरणं कथमवकल्पिष्यत इति । यदा तु किंचिद्ग्रन्थोपनिबद्धप्रकृतिप्रत्ययादिविभागद्वारप्रक्रियात्मकव्याकरणस्मृतिवर्जितकालाभावादन्वाख्यानान्वाख्येयान्वाख्यातविधिप्रयोगानन्वाख्यातप्रतिषेधवर्जनषट्कस्याप्यवगम्यमानवेदविधिमूलत्वादनादित्वे सति सर्वेषां वेदवेदियूपाहवनीयाध्वर्युगोदोहनादिस्वरूपतत्कार्यतत्साधनविधीनामिव सर्वदाऽनवगतपूर्वापरविभागसंब
- तै॰ सं॰ ( ६—४—७ )↩