287
स श्रुतिस्मृतिसिद्धत्वान्नोपालम्भत्वमर्हति ।
ग्रन्थान्ते च स्वसंवेद्यं सुज्ञानं तत्प्रयोजनम् ॥

सत्यवचनं च सर्वश्रुतिस्मृतिषु स्वर्गसाधनत्वेन यागसाधनत्वेन च नियतम् । सत्यं च द्विविधं शब्दसत्यमर्थसत्यं च । तत्र यथैव यथावस्थिताविप्लुतार्थवचनं श्रेयःसाधनमेवं यथावस्थितशब्दसत्यवचनमपि, यथा चार्थसत्यविपर्ययः प्रत्यवायायैवं विनियोगकालप्रयुक्तशब्दानृतवचनमपि । शब्दसाधुत्वज्ञानं च व्याकरणाभियोगविशेषादित्युक्तम् ।

तस्माद्विज्ञायमानत्वान्नोक्तं मूलकृता स्वयम् ।
शास्त्रेण सर्वशब्दानामन्वाख्यानप्रयोजनम् ॥

न च व्याकरणप्रयोजनाभिप्रायं प्रति केचिद्विवदन्ते । स एव त्वभिप्रायः किं न्याय्यो नेत्यर्थान्तरमेतत् ।

103धर्माय नियमं चाऽऽह वाक्यकारः प्रयोजनम् ।
वेदमूलस्तु तत्रैक एको व्याकरणाश्रयः ॥

नियमद्वयप्रयुक्तं व्याकरणम् । साधुशब्दज्ञानात्तत्पूर्वप्रयोगाद्वा स्वर्गयज्ञोपकारसिद्धिरित्येतत्तावद्वेदमूलमनन्यप्रमाणकत्वात् । अतश्चायं तावद्वेदाख्येन शास्त्रेण धर्मनियमः ।

तथा व्याकरणाख्येन साधुरूपं नियम्यते ।
अविशेषेण सिद्धिः स्याद्विना व्याकरणस्मृतेः ॥

तेन वेदावगतसम्यग्ज्ञातसाधुशब्दप्रयोगात्मकधर्माङ्गत्वेन व्याकरणप्रक्रियेतिकर्तव्यतया नित्यवाचकशब्दरूपज्ञाननियमः क्रियते । यच्च कात्यायनेन ज्ञाने धर्म104 इति चेत्तथाऽधर्म इति तन्त्रेण प्रसङ्गेन वाऽपशब्दज्ञानादधर्मत्वापत्तिदोषमभिधाय 105शास्त्रपूर्वप्रयोगेऽभ्युदय इति निःश्रेयससिद्धयुपायेऽवधारिते यत्पुनः परावृत्त्य भाष्यकारेणोक्तम्, 106‘अथ वा पुनरस्तु ज्ञाने धर्म इत्यभ्युपेत्यवादमात्रं तत्पूर्वोक्तदोषपरिहारसामर्थ्यप्रदर्शनार्थं कृत्वाचिन्तान्यायेनोक्तम् । परमार्थतस्त्वन्यानर्थक्यप्रसङ्गविज्ञातपारार्थ्यापादितार्थवादत्वात्फलश्रुतिर्न फलप्रतिपत्तिक्षमा विज्ञायते । यथा ‘योऽश्वमेधेन यजते य उ चैनमेवं वेद’ इति ज्ञानमात्रादेव ब्रह्महत्यातरणं यदि सिध्येत्को जातुचिद्बहुद्रव्यव्ययायाससाध्यमश्वमेधं कुर्यात् । तद्विधानं तानर्थकमेव स्यात् । एवं शब्दज्ञानाच्चेद्धर्मः सिध्येत्को नामानेकताल्वादिव्यापारायासखेदमनुभवेत् । तस्भात्क्रतुवदेव ज्ञान

  1. लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः ।

  2. म॰ भा॰ पस्पशाहिनके ।
  3. शास्त्रपूर्वके प्रयोगेऽभ्युदयस्तत्तुल्यं वेदशब्देन ।

  4. म॰ भा॰ पस्प॰ ।