289 यदपि च मनुना पङ्क्तिपावनमध्ये केदादेवोपलभ्योक्तम् । ‘यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम्’109 इति तेनापि पूर्वपश्चादुक्ताधीतवेदत्वयज्ञमीमांसनव्यतिरिक्तविषयेण सताऽवश्यमेतदेव व्याकरणज्ञानमाश्रयितव्यमिति तन्नित्यत्वसिद्धिः 110 ॥ २७ ॥ २८ ॥ २९ ॥

इति व्याकरणाधिकरणम् ॥ ८ ॥

आकृत्यधिकरणम्

इह नामाख्यातोपसर्गनिपातानां मध्यान्नामानि परिगृह्यन्ते, तेषामपि जातिगुणक्रियाद्रव्ययदृच्छासर्वनामशब्दानां मध्याज्जातिशब्दाश्चिन्त्यन्ते । तेषामप्येकं गोशब्दमुदाहृत्यविचार्यते किं पुनरयमाकृतेर्वाचकोऽथ व्यक्तेरिति, ततः ।

( लोकवेदयोः शब्दार्थानामनन्यत्वनिरूपणम् । )
एतत्सान्यासिकं कृत्वा वक्ष्यमाणं तु सांप्रतम् ।
  1. यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम् । तावुभौ पुण्यकर्माणौ पङ्क्तिपावनपावनौ ।

  2. अत्रच वार्तिककारैः ‘तदशक्तिश्चानुरूपत्वात्’ इति सूत्रं प्रसङ्गात्पूर्वमेव ‘अन्यायश्चानेकशब्द्बत्वम्’ इति सूत्रव्याख्यानान्ते ‘यथा प्रकृति सारूप्यद्वारेणापभ्रंशा’ इत्यादिग्रन्थेन व्याख्यातत्वान्न व्याख्यातम् । एवं ‘एकदेशत्वाच्च विभक्तिव्यत्यये स्यात्’ इति सूत्रं च भाष्यकारैः सुस्पष्टं व्याख्यातत्वादुपेक्षितमिति वेदितव्यम् ।