280 न्धेऽत्यन्तादृष्टार्थत्वमेव केवलं शास्त्रप्रत्ययाधीनं, तदा सर्वकालव्याक्रियमाणविद्यमानशब्दनियमविधेर्न किंचिदनुपपन्नम् । यत्तु वाचकत्वावाचकत्वव्यतिरिक्तसाध्वसाधुताभावाद्वाचकावाचकत्वयोश्च लौकिकप्रयोगप्रतिपत्तितद्विपर्ययमात्रशरणत्वाद्गाव्यादिशब्दानामवाचकत्वप्रतिज्ञाने लोकविरोधान्न भेर्यादिशब्दमातृकाक्षरपाठप्रसिद्धन्यूनातिरिक्तविपर्यस्तवर्णपदव्यतिरिक्तप्रसिद्धमध्ये कश्चिदपशब्दो नामास्तीति । तत्राभिधीयते—
लोकव्याकरणाभ्यां हि मिश्राभ्यामविप्लुतवाचकसिद्धिरिति तावदेव लोकव्यवहाराद्वाचकत्वज्ञानं जायते यावद्वयाकरणानुगतत्वं नाभ्युपगम्यते ।
यदा तु तयोर्मार्गभेदेन प्रतिपत्तिस्तदा ‘तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात्’92 इत्युपन्यस्य ‘शास्त्रस्था वा तन्निमित्तत्वात्’ इत्यनेनैवोत्तरेण व्याकरणाख्यशास्त्रगतप्रतिपत्तिबलीयस्त्वं तदभियुक्तपुरुषबलीयस्त्वं वा पूर्वमेव स्थापितम् ।
यथैव तुल्यशिरःपाण्याद्याकारेष्वपि संकीर्णलोकदृष्टिग्राह्येषु ब्राह्मणादिषु मातापितृसंबन्धस्मरणादेव वर्णविवेकावधारणं भवति तथा साधुशब्दावधारणमपीति लोकविरोधाभावः ।
यो नाम स्मृतिप्रतिपादितोऽर्थः कर्मफलसंबन्धवदनियतकालत्वान्न ज्ञायते कदा भविष्यतीति सोऽत्यन्तं प्रत्यक्षाद्यविषयत्वात्केवलशास्त्रमूलत्वेन स्थाप्यते । यस्य त्वादौ स्मरणजनितविवेके कृते तदनन्तरमेव प्रत्यक्षमपि विचाराभ्यासजनितसंस्कारस्य रागाभ्यासजनितषङ्जादिविभागविषयमिव साध्वसाधुशब्दरूपगोचरमुपजायते ।
तेनापशब्दगतवाचकत्वापादनस्यैव समस्तप्रमाणविरोधः शक्यो वक्तुं न स्मर्यमाणशब्दसाधुत्वपक्षस्येति निरवद्यता । तेनादृष्टार्थप्रत्यायननियमप्रतिषेधद्वारं धर्माधर्मसाध
- जै० सू० ( १—३—४ )↩