पौरुषेयव्याकरणागमपरम्परायामपि च तदनुगतसाधुत्वानन्तरदर्शनात्पूर्वदृष्टविवेकज्ञानमात्रपरत्वाद्वा नान्धपरम्परावचनन्यायप्रसङ्गः । यावानिह दृष्टार्थांशः स वैदिकविधिप्रतिषेधद्वयादेवोपपन्नः । तत्सिद्धयर्थाविनष्टशब्दरूपज्ञानं वेदशिष्टप्रयोगसंवादिव्याकरणान्वाख्यानपारम्पर्येण सद्यः फलत्वात्सुलभमिति न पुरुषकृतत्वनिमित्तदोषप्रसङ्गः । यत्तु दृष्टार्थत्वात्स्वसामर्थ्यप्राप्तत्वादेव 93‘अप्राप्ते शास्त्रमर्थवत्’ इति वाचकभाषणविधानमनुपपन्नमिति तत्राधिकरणेनैवोत्तरं दास्यते 94‘नियमार्था वा श्रुतिरुच्यते’ इति । यत्त्ववाचकत्वेनापशब्दानामप्रसङ्गाद्वयावर्त्याभावे नियमानुपपत्तिरिति । तत्रोच्यते—
सति भाषितव्ये कदाचिदविनष्टेन भाषेत कदाचित्प्रमादाशक्तिजापभ्रंशेनाप्यक्षिनिकोचनादिना वा शब्दरहितेनैव प्रत्यापयेत् ।
यद्यपि च नियमेऽन्यनिवृत्तिरवश्यं कल्पनीया तथाऽपि साधुशब्दस्मृतिव्यवहितानां 95कालरूढरूपभ्रान्तिवाचकत्वगृहीतानां चापशब्दानां संभवति प्रयोगप्रसङ्गे साधुनियमेन व्यावृत्तिः ।
अथ वा नैवापशब्दानामपृथक्त्वे केचिदेकक्रियाविषयानेकद्रव्यगुणादिवदभिधायां प्राप्नुवन्ति ये साधुनियमेन व्यावर्त्येरन् । किं तु ।