तद्यथा । ‘यो विदग्धः स नैर्ऋतः’ इत्येवमादिदोषनिन्दापूर्वकम् ‘अविदहता श्रपयितव्यः’ इति नियम्यते । तथा ‘दुष्टः शब्दः स्वरतो वर्णतो वा’ इत्यादिना निन्दितत्वात्, ‘तस्माद्ब्राह्मणेन न म्लेच्छितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्दः’ इति प्रमादादिनिमित्तविनाशेन शब्दकार्यादर्थसाधनादपेतोऽयं म्लेच्छः, 96‘म्लेच्छ अव्यक्तायां वाचि’ इति स्मरणात्स न प्रयोक्तव्य इति प्रतिषेधः । ‘तस्मादेषा व्याकृता वागुद्यते’ इति च विधिरविनष्टप्रयोगनियमार्थः ।
उच्यते—
यत्तु दृष्टार्थप्रत्यायननिराकाङ्क्षत्वाददृष्टार्थप्रयोगोत्पत्त्यशास्त्रत्वमिति । तत्रोच्यते—
97‘एकस्य तूभयत्वे संयोगपृथत्क्वं' तच्चेह प्रकरणानारभ्यवादाभ्यामवगतं, तत्र—
क्रत्वर्थं ह्यतिर्ज्ञातोपायत्वात्सर्वादृष्टोपसंग्रहक्षममिति नियमापूर्वमात्मसात्कुर्वत्पुरुषार्थांशे फलश्रुतिमर्थवादी करोति । पुरुषार्थस्य नियमस्य त्ववश्यकल्पनीयप्रयोजनत्वादर्थप्रतिपत्तेश्चापभ्रंशेऽप्यक्षिनिकोचादिभ्यो वा सुतरां सिद्धत्वादनाकाङ्क्षितनियमापूर्वोपजी