आकृत्यधिकरणम्
इह नामाख्यातोपसर्गनिपातानां मध्यान्नामानि परिगृह्यन्ते, तेषामपि जातिगुणक्रियाद्रव्ययदृच्छासर्वनामशब्दानां मध्याज्जातिशब्दाश्चिन्त्यन्ते । तेषामप्येकं गोशब्दमुदाहृत्यविचार्यते किं पुनरयमाकृतेर्वाचकोऽथ व्यक्तेरिति, ततः ।
किं य एव लौकिकाः शब्दास्त एव वैदिकास्त एव चैषामर्था उतान्य इति । आह—
उच्यते—
यदि शब्दार्थानामनन्यत्वं लोकवेदयोर्भवेत्तत एतस्या व्यक्त्याकृत्यभिधानचिन्ताया वृद्धव्यवहारस्थानेकप्रयोगानुसरणद्वारेणाभिधेयानभिधेयत्वनिर्णयः शक्यते कर्तुम् ।
संमूर्छितानेकार्थसंनिधाने हि शब्दः प्रयुक्तः कियत्यप्यर्थजाते प्रत्यय करोति तेन चाविविक्ताभिधेयगम्यमानाशेनापि समस्तधर्मोपेतेन कार्यसिद्धौ क्रियमाणायां प्रयुक्तः ।
यद्युच्येतेहापि वेदवत्सामान्यविशेषलक्षणबाधसिद्धिरेव प्रयोजनामिति । तदुच्यते—
तेन लौकिकवैदिकशब्दार्थैकत्वे सत्याकृत्यधिकरणमुपपत्तिमत्त्वात्प्रवोजनवत्त्वाच्चाऽऽरब्धव्यम् । भेदपक्षे त्वानारभ्यमित्यवधृत्य भेदपक्षस्तावत्प्रतिपाद्यते । नियतानियतस्व291 रच्छान्दसप्रकृतिप्रत्ययलोपागमवर्णविकारसदसद्भावकृतरूपभेदादध्यायानध्यायोपनीतानुपनीतत्रैवर्णिकचातुवर्ण्यप्रयोज्याप्रयोज्यत्वगुरुशुश्रूषाराधितगुरुसंप्रदाययदृच्छाप्रयुक्तवाक्यंत- दर्थान्यत्ववद्यदि पदपदार्थान्यत्वं लोकवेदयोस्ततो लौकिकानामेव व्यवहारोपनिपातादर्थवत्ता, वेदे त्वानर्थक्यान्न चोदनालक्षणो धर्मः । स्वरेण रूपभेदं मन्यते ।
अध्यायानध्यायतया वृत्रहननाद्यर्थयोगेन चाविदग्धवाक्यवदुत्तानवहनवाक्यभङ्गः । सर्वेषां च वैदिकानामन्यत्वान्न ततोऽपि पौर्वापर्येणार्थावगतिः । ग्राह्यत्वादिधर्मभेदनियतानियतपदवाक्यरचनाद्वारा व्यपदेशरूपभेदाभ्यां सर्वशब्दानामर्थानां लौकिकानां वैदिकानां च भेद इति प्राप्तेऽभिधीयते—
भेदे सत्यपूर्वात्सर्ववैदिकपदानामनवगतसंबन्धत्वेनार्थशून्यत्वात्क्रियाकारकसंसर्गात्मकप्रयोगचोदनानामभाव एव स्यात् ।
शब्दार्थैकत्वमिति वक्तव्येऽर्थैकत्ववचनं फलादेव शब्दैकत्वोक्तिसिद्धिं मत्वैवमुक्तम् । अथ वा वस्तुमात्रपर्यायत्वादुभयसाधारण्याभिप्रायेणैवार्थैकत्वोक्तिः । प्रयोगचोदनाभावप्रसङ्गः परपक्षे स्वपक्षे वा तद्भावसिद्धिर्वेदवादिनैव सह विवादेऽवकल्पते नान्ये292 नेत्यत आह—प्रयोजनमिदं तत्प्रमाणमभिधीयतामिति । तदुच्यते । प्रत्यभिज्ञारूपप्रत्ययविभागाज्ज्ञायमानोभयप्रमेयरूपाविभागाद्वा वाक्यतत्समूहमात्रनिबन्धनापन्नपदवर्णविषयत्वव्यपदेशाविभागाद्वा तथोच्चारयितॄणां स्थानकरणप्रयत्नाविभागाद्वा लक्षणविदां वा बहुतरानुगमनाविभागादिति हेत्वर्थविकल्पाः ।
न च या एव देवानां गावस्ता एवावश्यं सर्वत्र वैदिकस्य गोशब्दस्य वाच्या भवन्ति । मनुष्यगवीषु दक्षिणादिसाधनेषु सुतरां प्रयुज्यमानत्वात् ।
293 अतोऽवश्यमेतेषामेव गवादीनां देवसंबद्धानामुत्तानवहनप्रतिपादनमिति वक्तव्यम् । अथ वा भूमिष्ठानामेव सतां केनापि गुणवादेन पृथिवीगोलकत्रैलोक्यभ्रमणादिना वा पुराणोक्तेन दृष्टिवशाद्यथैव वयमुपरि देवान्पश्याम एवमधो द्युपरिवर्तनादयमपि लोको देवैरुपरि दृश्यत इति उत्तानवहनदृष्टिः । तस्माल्लोकवेदयोरभिन्नाः शब्दार्था इति सिद्धे ।
विचार्यते किमाकृतिः शब्दार्थोऽथ व्यक्तिरिति ।
प्रथमं तावदष्टपक्ष्येवं दर्शयितव्या । गोशब्दस्यार्थः किमाकृतिरेव, व्यक्तिरेव, उताऽऽकृतिर्वा व्यक्तिर्वा, अथाऽऽकृतिश्च व्यक्तिश्च, किमुभयोः संबन्ध उत समुदायः, किमाकृतिविशिष्टा व्यक्तिरुत व्यक्तिविशिष्टाऽऽकृतिरिति । तथा किमाकृत्यैव विशिष्टः संबन्धः किं व्यक्त्यैव आकृत्या वा व्यक्त्या वा, अथ समुदायेनाप्याकृतिविशिष्टया व्यक्त्या, अथ व्यक्तिविशिष्ट्याऽऽकृत्या, अथ परस्परविशिष्टाभ्यां द्वाभ्यामिति । तथा किमाकृत्यैव विशिष्टः समुदाय इत्याद्यपि पूर्ववदेव संबन्धविशिष्टसमुदायपक्षमात्रातिरिक्तं योजनीयम् । एवं किमाकृत्यैव विशिष्टः संबन्ध एव, उत व्यक्त्यैव, अथवाऽकृत्या वा व्यक्त्या वा, अथ समुदायेन किमन्यतरविशिष्ट्याऽन्यतरया, अथोभाभ्यामित्येवं समुदायविशेषणत्वपक्षाः पूर्ववदेव योज्याः ।
एवं किं संबन्धेनैव विशिष्टाऽऽकृतिरथ समुदायेनैवाथ विकल्पमानाभ्यामुत समुच्चिताभ्याम् । तथैतद्विशिष्टा किमाकृतिरेवाथ व्यक्तिरेव, अथ विकल्पिते किं समुच्चिते किमिति । तथा किमाकृतिविशिष्टसंबन्धविशिष्टा व्यक्तिरेवाथ व्यक्तिविशिष्टसंबन्धविशिष्टाऽऽकृतिरेवाथ विकल्प उत समुच्चयः । एवं समुदायेनापि योज्यम् । तथा संबन्धविशिष्टव्यक्तिविशिष्टाकृतिरेवाथ संबन्धविशिष्टाकृतिविशिष्टा व्यक्तिरेवाथ विकल्पोऽथ समुच्चयः । एवं समुदायविशिष्टपक्षाः कल्पयितव्याः । तथा किं जात्यैव विशिष्टेन संबन्धेन विशिष्टा व्यक्तिः, अथ व्यक्त्यैव विशिष्टेन संबन्धेन विशिष्टा जातिरथ विकल्पोऽथ समुच्चयः । एवं समुदायेनापि विशिष्टता योज्या । तथा किं संबन्धेनैव विशिष्टया जात्यैव विशिष्टा व्यक्तिरुतैवंविधया व्यक्त्यैव विशिष्टा जातिरथ विकल्पोऽथ समुच्चयः ।
294 एवं समुदायेनैव विशिष्टयेत्यपि योजयितव्यम् । एवं जातिलिङ्गयोर्जातिकारकयोर्जातिसंख्ययोश्च प्रत्येकं जातिव्यक्तिपक्षविकल्पितसमुच्चितपक्षोत्थानं दर्शयित्वा व्यक्तेर्लिङ्गादीनां च दर्शयितव्यम् । तथा लिङ्गसंख्या लिङ्गकारकसंख्या कारकयुगलान्यपि विकल्प्य प्रत्येकद्वित्रिलिङ्गादिसहितैकजातिव्यक्तिविकल्पास्त्रियोगपञ्चयोगाश्रया दर्शयितव्याः ।
ततश्च—
ननु प्रथमपाद एवाऽऽकृतेर्निरूपणादिदानीं प्रश्नोत्तरे मन्दप्रयोजने । उच्यते—
295 द्रव्यगुणकर्माणां सामान्यमात्रमाकृतिरिति ।
सर्वेषु हि पार्थिवेषु गवादिघटादिषु संस्थानं भवेत् । अग्नितोयवाय्वाकाशादीनां तु पार्थिवद्रव्यपरिग्रहवशादाकारानुवृत्तिः कल्प्येत न स्वातन्त्र्येण, दिक्कालात्ममनसां तु गुणकर्मणां च न कथंचिदपि संस्थानं संभवति । सामान्यमात्रं तु सर्वस्वविशेषानुवृत्तिरूपं संभाव्यते । तस्मादेतदेवाभिधेयाकृतिलक्षणं नावयवरचनासंस्थानाकृतित्वमवकल्पते ।
296 तस्य ह्युपलक्षणमालोच्यमानं न जातेरन्यल्लभ्यते ततश्च जातिरेव सामान्यमिति न्यायेंनाऽऽपद्यते । तेन प्रथमपादे रुचकस्वस्तिकवर्धमानकोदाहरणात्संस्थानाकृत्यभिधानाशङ्काक्षयादर्शनवदासीदित्येताभ्यां प्रश्नोत्तराभ्यां व्यावर्त्यते । अतश्च द्रव्यगुणकर्मणां यावत्किंचित्प्राग्व्यक्तिभ्यः सामान्यं तत्सर्वमाकृतिरेवेत्यभिप्रेत्य मात्रशब्दः प्रयुक्तः । असाधारणविशेषा व्यक्तिरिति । के चिदाहुः । असाधारणा विशेषा एव व्यक्तिः । विशेषव्यतिरिक्तव्यक्त्यभावादिति ।
खण्डमुण्डादयस्तावदन्या अपि व्यक्तयो भवन्त्येव गवयमहिषादिव्यक्तयश्च । शाबलेयोऽपि यथैकस्तथाऽन्योऽपि यः शबलापत्यत्वेन गम्यते स सर्वः शाबलेयः । एतच्चोभयवर्णनिमित्तं वा यादृच्छिकं वा नामान्यत्रापि विनियोगवशाद्वर्तत एव । तदपत्ये च शाबलेय इत्यसाधारणव्यपदेशानुपपत्तिः । विशेषव्यक्तिशब्दयोर्बहुवचनैकवचनान्तयोः सामानाधिकरण्यप्रयोगवचनभेददोषः । तस्मादसाधारणा विशेषा यस्यां सा व्यक्तिरित्येवं व्याख्येयम् । ननु पूर्वोक्तेन न्यायेन खण्डादीनामपि बहुव्यक्तिसाधारण्याद्वयक्तिव्यतिरिक्तानां चान्येषां केवलैकैकव्यक्तिगतानां विशेषाणामसंभवाद्बहुव्रीहिरप्यनुपपन्नः । उच्यते । नैव विशेषाणां प्रत्येकमसाधारणत्वमाश्रित्य व्यक्तिविशेषणत्वेनोपादानम् । कथं तर्हि साधारणरूपाणामप्येकद्वित्रादिभेदेन क्वचिदुपलब्धानां यदेकत्र पिण्डीकृतानां ग्रहणं तदपेक्षमसाधारणविशेषत्वाभिधानम् ।
न चैकस्यां व्यक्तौ ये समुदिता दृष्टास्त एव व्यक्त्यन्तरेऽप्यन्यूनानतिरिक्ता दृश्यन्ते । य एवादृष्टपूर्वस्तस्मिन्समुदाये संप्रति दृश्यते स एवासाधारणतामापादयति । अनन्तभेदास्वपि व्यक्तिषु नात्यन्तापूर्वविशेषणोपलक्षणोपादानं किंचिदुत्कर्षापकर्षमात्रेण च सर्वत्रासाधारणोपलक्षणलाभात्परसामान्यापेक्षया च सर्वाण्येवावान्तरसामान्यानि विशेषव्यपदेशं प्राप्नुवन्ति । संघातावस्थायां च व्यक्तिविशेषणत्वात्तेषु विशेषशब्दः । एतच्च व्यक्तेर्विशेषाणामन्यत्वमुपरिष्टाद्भाप्यकारोऽपि वक्ष्यत्येव, योऽर्थः सामान्यस्य 297 विशेषाणां चाऽऽश्रयः सा व्यक्तिरिति । तत्र केचिद्गोत्वादिषु विशेषत्वमङ्गीकृत्य सामान्यवाचिना शब्देनानभिधेयत्वाद्यदेव महासामान्यं सत्तावस्तुभावशब्दाभिधेयं तदेव शब्दस्वरूपव्यवच्छिन्नं गोत्वादिविशेषव्यवच्छिन्नं वा गोसत्ताख्यमाकृत्यभिधानपक्षे वाच्यमिति मन्यन्ते । यथाऽऽहुः—
प्रतिनियतार्थविषया हि शब्दानां वाचकशक्तिरर्थापत्त्या गम्यते । तत्रानन्तरावान्तरसामान्यवचनानां द्रव्यगुणकर्मशब्दानामेव तावदसंकीर्णार्थत्वात्सत्तार्थत्वमनुपपन्नं किमुत दुरान्तरितार्थगवादिशब्दानाम् ।
शुद्धवचनत्वे तावत्सर्वेषामेकार्थप्रत्यायनात्पर्यायत्वप्रसङ्गः । पुनरुक्तत्वाच्चास्तिशब्दप्रयोगानुपपत्तिः ।
देशकालाद्यपेक्षायामपि नैव सत्तायां नास्तित्वमभिधातुं युक्तम् । विभुत्वनित्यत्वाभ्यां सर्वदेशकालव्यापित्वात् ।
य एव ह्यस्तिशब्देन द्वितीयो भावविकार उच्यते114 । जायमानविपरिणामाद्यवस्थसर्ववस्तुषु विनश्यत्तापर्यन्तेषु वस्त्वाकृतिप्रतिपत्तिर्दृश्यते । तेन यदि नाम महासामान्यमभिधेयं प्रतिज्ञायते ततो वस्त्वर्थः सर्वशब्दानामिति प्रत्याय्यलक्षणमिति कामं वक्तव्यं नास्त्यर्थ इति । न चावयवार्थपरित्यागेन सच्छब्दसत्ताशब्दौ वर्तेते इति भवच्छब्दवदेवा298 स्तीति सद्भावः सत्तेति न तु वैशेषिकपरिभाषया यतो द्रव्यगुणकर्मसु सदिति प्रतीतिः सा सत्तेति । एवंलक्षणा जातिः प्रतिपत्तव्या ॥
अस्तिक्षीरा गौरिति तिङन्तसमासत्वेनानुपसंख्यानादवश्यंभाविप्रत्ययलक्षणद्वारसुबन्तत्वयोग्याव्ययपदेन सह क्षीराशब्दस्यान्यपदार्थे बहुव्रीहिरभ्युपगन्तव्यः । तत्र चायं सदर्थवचनः सक्षीरा गौरिति प्रत्ययोत्पादात् । ततश्च वस्तुनि सति च प्रयुज्यमानमस्तिशब्दमुपलभ्य तदर्थानुसरणप्रत्यासन्नं सच्छब्दं च देवात्तलिति च स्वार्थिकं देवतेतिबत्तलमिहाप्यस्तिधातुवाच्यार्थविशिष्टकर्तृप्रतीतिमनङ्गीकृत्य शुद्धधात्वर्थमात्रवचनावेव सच्छब्दसत्ताशब्दौ गृहीत्वैवं तार्किकैः कल्पितं सच्छब्दवाच्या सत्ता महासामान्यमिति । 115तदुक्तान्तगमनेऽनादराच्च पदवाक्यविद्भिरप्युपेक्षितं प्रसिद्धमिवेमामवस्थां प्राप्तं गवादिशब्दवाच्यत्वेनापि संभाव्यते ।
यदेवाऽऽकृतिविशिष्टव्यक्त्यभिधानपक्षे व्यक्तिविशिष्टाकृतिपक्षे वा निराकरणकारणं तदत्रापि सुलभम् । विशेषणस्य पूर्वतराभिधानप्रसङ्गात् ।
299 तत्र—
विशेषणमनभिधाय तद्विशिष्टविशेष्याभिधानासंभवाद्विशेषणस्य च विशेष्येणात्यन्तसंबन्धात्पूर्वतराभिहितविशेषणभूतगोत्वसंबन्धादेव सत्तावगमसिद्धेर्न तत्राभिधानशक्तिकल्पनायामर्थापत्तिरप्यन्यथाऽप्युपपद्यमानफलत्वप्रतिहता सती न प्रवर्तते । तथा व्यक्तिविशिष्टसत्ताभिधानेऽप्येष एव निराकरणहेतुः । अनित्यसंबन्धज्ञानानन्तशब्दशक्तिव्यक्त्यभिधानपूर्वकैकसत्ताभिधानकल्पनायाश्च केवलव्यक्त्यभिधानपक्षवदनुपपत्तिः । यत्तु अपूर्वदेवतास्वर्गैः सममाहुरिति ।
तत्राभिधीयते—
केचिच्छ्रुतार्थापत्त्या केचिद्वाक्यशेषवाक्यान्तरपर्युपस्थापितार्थविशेषवचना एव सन्तोऽत्यन्ताव्यभिचारिस्वार्थद्वारेण सत्तां गमयन्तोऽनभिधायकत्वेनावधार्यन्ते न सत्तापदार्थो व्यभिचरतीति लक्षणयैव तेभ्यः सत्ताप्रतीतिः ।
सर्वपदार्थानामिव कार्यार्थापत्तिगम्यानि सामर्थ्यानि सन्ति यागादिजनितं च पुंसां फलप्राप्तिसामर्थ्यमपूर्वशब्दवाच्यं यागानुष्ठानात्पूर्वमभूतमनुष्ठानोत्तरकालं चापूर्वं जायत इति यौगिकत्वादेवापूर्वशब्दाभिधानं सर्वत्र लभ्यते । तथा दीव्यन्ति द्योतन्ते वा चन्द्रादित्याग्निग्रहनक्षत्रातारकादिरूपेण वायवश्च सततगत्या स्तूयन्ते सर्वैर्मन्त्रैरिति देवाः सुज्ञानशब्दसंबन्धा विशेषरूपैरेवेति न सत्तागोचरत्वं प्रतिपद्यन्ते । तथा स्वर्गशब्देनापि नक्षत्रदेशो वा वैदिकप्रवादपौराणिकयाज्ञिकदर्शनेनोच्यते यथा हि वेदे ‘ये हि जनाः पुण्यकृतः स्वर्गं लोकं यन्ति तेषामेतानि ज्योतींषि नक्षत्राणि तथा चैष ज्योतिष्मन्तं पुण्यलोकं जयति’ इति । यदि वेतिहासपुराणोपपन्नं मेरुपृष्ठम् । अथ वाऽन्वयव्यतिरेकाभ्यां विभक्तं केवलमेव सुखं यत्संवत्सरादिष्वनुभूयमानं दुःखसाधनशीतोष्णक्षुत्पिपासादिसमस्तद्वंद्वरहितार्थापत्तिसिद्धदेशान्तरानुभवनीयं, तच्च यद्यपि तादृशमदृष्टपूर्वं तथाऽपि मिश्रानुभवादेव विवेकेनोद्धृत्य स्वर्गशब्दार्थत्वेन ज्ञायमानं सत्तां गमयतीति न तदभिधानमपेक्ष्यते ।
किं तावत्प्राप्तम्—
‘व्रीहीनवहन्ति’ ‘पशुं संज्ञपयति’ ‘सोममभिषुणोति’ ‘पावयति’ सोमेन पशुना व्रीहिमिश्च यजत इति यावन्त एवमादयो विनाशिमूर्तिमद्विषयाः संस्काराः प्रयोजनसिद्धयर्था वा तेषां प्रयोगचोदनाया आकृतावभावाद्व्यक्तौ तु भावात्कार्यप्रधानत्वाच्च पदार्थप्रतीतेर्विध्यधीनत्वाच्च सर्वपुरुषचेष्टानामवश्यं विधिविषयत्वयोग्यवाक्यार्थपूरणसमर्थपदार्थकल्पनमङ्गीकर्तव्यम् । तथा यदपि ‘ब्राह्मणो न हन्तव्यः’ ‘न कलञ्जं भक्षयितव्यम्’ इत्यादिप्रतिषेधविधानं तदपि प्राप्तिपूर्वकत्वेन सापेक्षत्वाद्व्यक्तौ च प्राप्तिसंभवादाकृतेश्चानधिकारादसत्यां प्राप्तावनर्थकमेव स्यात् । तस्माद्येन
301 शब्दार्थेन प्रयोगचोदनानां भावो भवति स एवाभ्युपगन्तुं न्याय्यो न तत्त्वज्ञानमात्रादृष्टिसिद्धयर्थपदार्थकल्पना युक्तेति । स्यादेतत्, व्यक्तिसंभवत्प्रयोगचोदनासु व्यक्त्यर्थस्ततोऽन्यत्राऽऽकृत्यर्थ एव भविष्यतीति । तदसत् । न्यायेन हि स्थितमेकस्य शब्दस्यार्थैक्यमनवस्थितसंबन्धानेकादृष्टवाचकशक्तिकल्पनविकल्पदोषप्रसङ्गात् । संबद्धानां चार्थानामन्यतराभिधानेनैवेतरत्र प्रतिपत्तिसिद्धेः । कथं तर्ह्याकृतिप्रत्यय इति चेदत आह—अविभागात् इति । यतस्तु नित्यमेव व्यक्त्याकृत्योरविभागस्तस्माव्द्यक्तिरभिहिता सती शक्नोत्येवाऽकृतिं गमयितुम् । तदुक्तं 117तद्भूताधिकरणे । यस्य तु पदस्य योऽर्थोऽभिधेयत्वेनाऽऽश्रितस्तस्य तत्परिहारासंभवादवश्यं 118तत्रस्थस्यैवार्थान्तरं लाक्षणिकत्वेनाभ्युपगन्तव्यमिति । अपि चाऽऽकृतिपदार्थकस्य व्यक्तिषु साधारणानैकान्तिकत्वान्निर्णयो न स्याद्वयक्तिपदार्थकस्य पुनरत्यन्तान्तर्भूताकृतिनिश्चयसिद्धेर्न शब्दव्यापारकल्पनोपपत्तिः । तस्माद्वयक्तिरेव शब्दार्थो नाऽऽकृतिः । न च विकल्पसमुच्चयसंबन्धसमुदायान्यतरविशिष्टान्यतराभिधानपक्षाः संभवन्त्यविभागादेव सर्वेषामपि ज्ञानसिद्धेः ॥ ३० ॥
- जै॰ सू॰ ( ११—१—४ ) ।↩
- जै. सू. ( ६—३—४ ) इत्येत्रेति शेषः ।↩
-
कक्ष्याशब्दः कोष्ठवाची, द्रव्यत्वगुणत्वकर्मत्वान्येकस्यां सत्तावांन्तरसामान्यकक्ष्यायां, पृथिवीत्वादीनि द्रव्यत्वावान्तरसामान्यकक्ष्यायां, रूपत्वादीनि गुणत्वावान्तरसामान्यकक्ष्यायां च वर्तन्त इति कक्ष्याविभागो ज्ञेयः ।
↩ - जै. सू. ( ६—३—४ ) इत्येत्रेति शेषः ।↩
-
तदुक्तेति—यावद्यावद्विवादाय मुक्तकं दीयते मनः । अनवस्थादिदोषेण तावत्तावद्विहन्यते । इत्यनेन न्यायेन चिरनिखाततडागादिगतशैवालवच्छुष्कतर्कस्याप्रतिष्ठितत्वेन निराकृतस्यापि पुनः पुनरुद्रवेन समापयितुमशक्यत्वात्तार्किकोक्तस्यान्तगमने—समापने, अनादरादभियुक्तैरुपेक्षितत्वात्प्रसिद्धं सदिमां—युक्तायुक्तविचारावस्थां प्राप्तमित्यर्थः ।
↩ -
धर्मान्तरेति—जात्याख्याद्धर्माद्धर्मान्तरत्वेन—द्वितीयभावविकारत्वेन वर्तमानत्वादित्यर्थः ।
↩ - जै॰ ( १-१-७ ) ।↩
-
तत्रस्थस्येति तस्मिन्नेवार्थे वर्तमानस्य शब्दस्येत्यर्थः ।
↩