313 शब्दार्थो भवति ततो वृक्षौ वृक्षाभ्यामिति प्रातिपदिकाभिहितासु व्यक्तिषु प्रत्ययाभिहितद्वित्वादिसंख्याकरणादिकारकं वोभयमुपपद्यते, इतरत्र तु जातेरसंख्येयत्वादकारकात्वाच्चोभयमप्यनुपपन्नम् । लाक्षणिकव्यक्त्याश्रयणं चाऽऽपद्येताम् । तथा च सर्ववैदिकवाक्यार्थानां लाक्षणिकत्वं स्यात् । व्यक्तिपक्षे च पुरुषो देवदत्त इति मुख्यशब्दसामानाधिकरण्योपपत्तिः । जातिपक्षे लाक्षणिकद्वारं सामानाधिकरण्यं कल्पयितव्यं भवेत्तेनापि व्यक्तेः पदार्थत्वमवसीयते । ‘पशुमालभेत’ इति च श्रुतेर्हृदयजिह्वादिभिर्व्यक्त्यवयवैरुपरिष्टाद् व्यवहारो दृश्यते न जांत्या कर्मभिश्च द्रव्यस्यापेक्षितत्वाद् । व्यक्तिपक्षेऽपेक्षिताभिधानं नेतरत्र, सिद्धस्वरूपायाश्च व्यक्तेरभिधेयत्वं युक्तं नाप्रसिद्धाया जातेरतो व्यक्तिः शब्दार्थः । किमित्युभयं वाच्यं नाऽऽश्रीयते प्रयोगप्रतीतिक्रियोपपत्तेरिति चेत् । न । अनेकशक्तिकल्पनाप्रसङ्गादेकाभिधानेनैव संबन्धादितरत्र प्रतीतेरुपपन्नत्वाद् व्यक्तेरेवाभिधेयत्वम् । सामान्यप्रत्ययः कथमिति चेद् व्यक्तिसंबन्धादुपपत्स्यते । यत्रैव क्रियानुपपत्तिस्तत्रैवार्थापत्त्या व्यक्तिवचनत्वं युक्तम्, अन्यत्र तु पूर्वप्रतीतेर्जातिवचनत्वमेव न्याय्यमिति चेत् । न । उक्तमार्गेणानेकशक्तिकल्पनादिदोषप्रसङ्गात् । अवनस्थितशब्दार्थसंबन्धापत्तेः संशयापत्तेश्च । व्यक्तिवादिनः कथं निर्निमित्तता व्यक्त्यन्तरे शब्दस्य प्रवृत्तिरिति चेदाकृतिचिह्ननिमित्तत्वाद् व्यक्त्यन्तरे प्रयोगस्याविरोधः । भाष्यकारस्तु कथं सामान्यावगतिः—इत्युपन्यस्य, आकृतिश्चिह्नभूता भविष्यतीत्युत्तरं ददाति, तदसंबद्धम् । कथं सामान्यप्रत्ययः कारणे पृष्टे व्यक्त्यन्तरप्रयोगनिमित्तं कथ्यते । तेनाध्याहारेणैतद् व्याख्येयम् । कथं सामान्यावगतिरिति चेत् । व्यक्तिसंबन्धात् । कथं व्यक्त्यन्तरे प्रयोगः, चिह्नत्वादाकृतेरित्येवम् । यद्वा कथं सामान्यावगतिरिति तेदित्युपन्यस्ते पूर्वपक्षवादी सामान्यावगतिमपह्नोतुमशक्नुवन्नाकृतिविशिष्टव्यक्त्यभिधानपक्षं परिगृह्णात्याकृतिश्चिह्नभूता विशेषणभूताऽभिधेया भविष्यति । अतश्च तत्प्रतीतिरचोद्या । तेन केवला विशिष्टा वा व्यक्तिः शब्दार्थः । तथा च ‘षङ् देया’ इत्येवमादिषु षडादिका संख्योपपत्स्यते । अन्यं तद्वर्णमिति च व्यक्त्यन्तरेऽन्यशब्दोपपत्तिस्तद्धर्मता च भविष्यति । अन्यथा व्यक्त्यन्तरानयनेऽपि जातेरनन्यत्वादगुणत्वाच्चोभयमनुपपन्नं, तस्माद् व्यक्तिः शब्दार्थ इति प्राप्तेऽभिधीयते । नैतद् व्यक्तिः शब्दवाच्येति किं त्वाकृतिः पदार्थ इति विज्ञायते । ‘श्येनचितं चिन्वीत’ इति श्रवणात् । अत्र हि श्येनव्यक्तिं चयनेन कुर्यादाकृतिं वेति वाक्यार्थौ स्याताम् । यावदिष्टकाभिः श्येनव्यक्तेः कर्तुमशक्यत्वात् स्नाय्वादिभिरप्यनिर्वृत्तेरिष्टकाबाधाच्छेनव्यक्तेः प्रयोजनकल्पनाच्चिनोतेरमुख्यार्थत्वात् ‘कर्मण्यग्न्याख्यायाम्’129 इति स्मृतिपरित्यागप्रसङ्गाच्च चयनेन श्येनव्यक्तिं कुर्यादित्येवं तावन्नोपपद्यते । तथाऽऽ

  1. पा॰ सू॰ ( ३—२—९२ ) ।