314 कृतेरपीष्टकाभिः कर्तुमशक्यत्वाद्दैवनिर्मितत्वात्प्रयोजनकल्पनाच्चिनोतेरयथार्थत्वप्रसङ्गात्स्मृतिबाधाच्चाऽऽकृतिं कुर्यादित्यपि नोपपद्यते । परिशेषाच्छयेनमिव चितमग्निस्थलं चयनेन निर्वर्तयेदिति वाक्यार्थः, ततश्च यया कया चिच्छयेनव्यक्त्या सदृशस्याग्नेश्चेतुमशक्यत्वात्सर्वव्यक्तिसादृश्यासंभवादतीतानागतव्यक्तिसादृश्यानुपपत्तेश्च श्येनाकृतिसादृश्यसंपत्तिसंभवाच्चाऽऽकृतिः शब्दार्थं इति निश्चीयते ।

अथ कस्माच्छयेनव्यक्तिभिश्चयनचोदनेयं नाऽऽश्नीयते ‘श्येनचितं चिन्वीत’ इति । तत्र भाष्यकारेणोत्तरं दत्तम् । ईप्सिततमो ह्यसौ श्येनशब्देन निर्दिश्यत इति । तदयुक्तम् । न ह्यत्र श्येनशब्दः स्वार्थो, न च सकलश्येनचिच्छब्दोत्तरकालं श्रुतत्वाद् द्वितीयायास्तद130न्तो, येनेप्सिततमार्थप्रतिपादकः स्यात् । तेन कर्मण्यग्न्याख्यायामिति स्मृतेः श्येनशब्दार्थस्य करणत्वं निषेद्धव्यम् । कर्मणि हि कारके चिनोतेः क्विप्प्रत्ययः स्मर्यते यदि चिनोतिरग्न्याख्या भवति । न च चिनोतेः केवलस्याग्निवचनत्वं संभवति । तेन क्विबन्तचिनोतिश्रुतेः श्येनचिच्छब्दस्य सकलस्याग्निवचनत्वं निश्चीयते न श्येनशब्दस्य पृथगर्थता । तेन श्येनशब्दार्थः करणतया विज्ञायते । यदि वाऽसौ करणं स्यात्ततो लक्षणाभावात्तृतीयासमासवचनानुपपत्तिर्भवेत् । तृतीया चाश्रुता काल्पनीया । श्रुतकरणत्वे इष्टकापरित्यागश्च स्यात् । सत्यां च गतौ प्रतिषिद्धानेकश्येनव्यक्तिहिंसा जायते तेन करणत्वानुपपत्तेः श्येनमिव चितमग्निं चिन्वीतेति वाक्यार्थोऽतश्चोक्तेन न्यायेनास्य वाक्यस्याऽऽकृतिपक्षे संभवादाकृतिः पदार्थ इति । नैतदेवम् । न हि चयनक्रियासंभवमात्रेणाऽऽकृतेरभिधेयत्वं लभ्यते । व्यक्तिपक्षेऽभ्युपलम्भनादिक्रियासंभवात् । बहुत्वाच्चालम्भनादिवाक्यानां तदन्यथानुपपत्त्या व्यक्तेरेव पदार्थत्वमवसीयते । अथाऽऽकृतिपक्षेऽपि व्यक्तिलक्षणया तान्युपपत्स्यन्त इत्युच्यते तदैतदपि शक्यमेव वक्तुं श्येनवाक्ये व्यक्तिराकृतिलक्षणार्थेति । युक्ता चैकत्र लक्षणा नेतरेषु बहुषु । अगत्या वा तृतीयासमासाश्रयणं श्येनवाक्ये करीष्यते । संख्याकारकाद्युपपत्तिश्च व्यक्तिपक्षे तेन व्यक्तिः शब्दार्थ इति स्थितेऽभिधीयते जातिरभिधेयेति । कुतः—

पूर्वं सामान्यविज्ञानाच्चित्रबुद्धेरनुद्भवात् ।
गामानयेतिवाक्याच्च यथारुचिपरिग्रहात् ॥

गोशब्दोच्चारणे हि पूर्वमेवागृहीतासु व्यक्तिषु सामान्यं प्रतीयते तदाकारज्ञानोत्पत्तेपश्चाद्व्यक्तयः प्रतीयन्तेऽतश्चाऽऽकृतिप्रत्ययस्य निमित्तान्तराभावाद्व्यक्तिप्रत्यये च पूर्वप्रतीतसामान्यनिमित्तत्वादाकृतिः शब्दार्थ इति विज्ञायते । यदि च व्यक्तयोऽभिधेया भवेयुस्ततस्तासां चित्रखण्डभुण्डादिविशेषस्वरूपग्रहणाद्विचित्रा शब्दोच्चारणे बुद्धि स्यात् । एकाकारा तूत्पद्यते । तेनाप्याकृतिः शब्दार्थ इति निश्चीयते । गामानयेति चोदितेऽर्थ

  1. नच श्येनशब्दो द्वितीयान्त इत्यर्थः ।