312 व्यक्त्यन्तराणामपि प्रसङ्गात् । तेन पूर्वोक्तमेव संशयकारणं मन्तव्यम् । प्रयोगप्रतीत्योः साधारणत्वाच्छास्त्रान्तरे व्यक्तिपक्षाभ्युपगमात्संशयः । यद्वा शब्द उच्चारिते सामान्यप्रत्ययाद् व्यक्त्याकृत्योः सामान्यात्तुल्यात्प्रत्ययाद् व्यक्तौ च शब्दादाकृतावालम्भनस्पर्शनश्येनसदृशचयनादिक्रियासंमवात्सामान्ये व्यक्तौ च प्रत्ययात्क्रियासंभवादिति चोक्तम् । का पुनराकृतिः का व्यक्तिरिति । कथं पुनरयं प्रश्नो यदा गौरित्येतस्य शब्दस्य कोऽर्थ इत्यत्र जातिर्निरूपिता । नैष दोषः । येनैतन्न ज्ञातमसौ पृच्छति का पुनराकृतिः का व्यक्तिरिति । संदेहाद्वाऽत्र पुनरुभयस्मिन्प्रतीयमाने का व्यक्तिः कियती वा जातिरिति । वैपरीत्येन वा कश्चित्पृच्छति यदा शाबलेयादिपिण्डान्न किंचिद् व्यक्तं वस्त्वन्तरं भिन्नमुपलभ्यते तदा कुतोऽयं विवेको व्यक्तिरियं जातिरियमिति । अथ वा व्यवहारार्थं सर्वैव चिन्ता क्रियते जातेश्च पदार्थत्वेऽपि व्यक्तौ क्रियासंभवान्निष्प्रयोजना चिन्ता यतस्त्वसौ प्रयत्नेनैतद्विचारयति । तेन नूनं काऽप्यस्य पिण्डादत्यन्तभिन्नव्यवहारयोग्या जातिरभिप्रेतेत्यभिप्रायः । तत्राऽऽह । द्रव्यगुणकर्मणां सामान्यमात्रमाकृतिरिति । यौ तावदज्ञानसंशयवादिनौ तयोः स्वरूपकथनमात्रेणैव निराकरणं वक्तव्यम् । यस्तु विपरीतवादी तस्यैव निराकरणमभिधीयते । यद्यपि जातिर्व्यक्तेरत्यन्तभिन्ना नोपलभ्यते तथाऽपि शबलाकारे तस्मिन्नुपलभ्यमाने सामान्यबुद्धेरालम्बनं प्रथमपादोक्तेन न्यायेनाऽऽकृतिरितरा व्यक्तिः । न चानेन ग्रन्थेन जातेः सद्भावः प्रमाणं वा प्रतिपाद्यते व्यक्तेर्विवेकः केवलः कथ्यते । तेनैवाभिप्रायेण मात्रशब्दप्रयोगोऽन्यथा तस्य गतार्थतैव भवेत् । यदप्युक्तं नूनं काऽप्यत्यन्तभिन्ना जातिरभिप्रेतेति । तस्याप्युत्तरं द्रव्यगुणकर्मणां सामान्यमात्रमाकृतिरभिप्रेता नात्यन्तव्यतिरिक्तेति । द्रव्यादीनां च सर्वेषां यत्सामान्यं सत्तारूपं तदनेन निर्दिश्यते, तन्निर्देशेनावान्तरसामान्यानामपि निर्देशसिद्धिः । यद्वा सामान्यशब्दस्य प्रत्येकं संबन्धाद्द्रव्यत्वादीनि त्रीणि सामान्यानि निर्दिश्यन्ते सत्तया व्यवहाराभावात् । अथ वा मात्रशब्दप्रयोगाद्द्रव्यादिषु यावन्त्यवान्तरसामान्यानि महासामान्यं च तत्सर्वमभिधीयते । असाधारणविशेषा व्यक्तिरिति बहुव्रीहिः । असाधारणा विशेषा यस्यां व्यक्तौ सेयमसाधारणविशेषा, न त्वसाधारणाश्च ते विशेषाश्चेति सामानाधिकरण्यं संभवति । उपरिष्टाद्विशेषाधारस्य व्यक्तित्वाभिधानात् । स्मृतेश्च128 । तेन सम्यगभिहितं किमाकृतिर्वा व्यक्तिरिति । किं प्राप्तम् । आलम्भनप्रोक्षणविशसनादिप्रयोगचोदनाया व्यक्तिपक्षे भावादाकृतिपक्षे चाभावात् ‘ब्राह्मणो न हन्तव्यः’ ‘सुरा न पातव्या’ इत्यादिप्रतिषेधचोदनायाश्च व्यक्तिपक्ष एव संभवाद्देवदत्त गामभ्याजेत्येबमादिलौकिकव्यवहारचोदनायाश्चोपपत्तेर्व्यक्तिः शब्दार्थ इति निश्चीयते । संख्याकारकोपपत्तेश्च । यदि हि व्यक्तिः
-
नित्यद्रव्यवृत्तयो विशेषा इति स्मृतिः ।
↩