315 प्रकरणाभावे यां कां चित्सामान्ययुक्तां व्यक्तिमानयति न सर्वां न विशिष्टाम् । यदि च व्यक्तेरभिधेयत्वं ततः सर्वासां युगपदभिहितत्वादशेषानयनं स्यात् । या वाऽभिधेया सैवैकाऽऽनीयेत यतस्त्वविशेषेण जातिमात्रयुक्ताऽऽनीयते तेनापि सामान्यस्य पदार्थत्वं विज्ञायते । व्यक्तिपक्षे च सर्वा वा स्वतन्त्रा व्यक्तयोऽभिधीयेरन् व्यक्तिविशिष्टो वा समुदायः का चिद्वैका व्यक्तिरिति । तत्र सर्वव्यक्त्यभिधानं तावदयुक्तम् । अनेकवाचकशक्तिकल्पनाप्रसङ्गादनित्यशब्दार्थसंबन्धापत्तेरशेषव्यक्तिग्रहणाशक्तेश्च संबन्धाग्रहणे सति व्यवहारानुपपत्तेः । नित्यवद् गोशब्दस्याष्टशब्दवद्बहुविषयत्वादेकवचनद्विवचनश्रुत्यसंभवाद्गोशब्दाभिहितासु च सर्वव्यक्तिषु शुक्लगुणाभावे गौः शुक्ल इति सामानाधिकरण्यासंभवात् । ‘पशुना यजेत’ इति च पशुशब्दोपात्ताभिः सर्वव्यक्तिभिर्यागस्य कर्तुमशक्यत्वात्ततश्च वेदाप्रामाण्यप्रसक्तिः । एवं समुदायपक्षोऽपि न संभवति । तत्रापि हि विशेषणत्वेन व्यक्तयोऽभिधातव्यास्ततश्चोक्तदोषप्रसङ्गः । व्यक्तिव्यतिरिक्तसमुदायकल्पना, तेन च व्यवहाराभावादभिधानानर्थक्यं समुदायिविनाशे च तस्याप्यनित्यत्वादनित्यशब्दार्थसंबन्धप्रसङ्गः । समुदायस्य चैकत्वादद्विवचनबहुवचनानुपपत्तिः सामानाधिकरण्यासंभवश्च । तेन चामूर्तेन यागाद्यसंभवाद्वेदस्याप्रामाण्यम् । अथैका व्यक्तिरभिधीयत इत्युच्यते तत्रापि संबन्धानित्यत्वं, काऽसावभिधीयत इत्यज्ञानाद्वयवहाराणामसंभवः सामान्यप्रत्ययानुपपत्तिर्द्विवचनबहुवचनाभावप्रसङ्गः । प्राक् चाभिधेयव्यक्त्युत्पत्तेरुत्तरकालं च प्रयोगासंभवः । समाने च गोत्वे प्रतीतौ चेयमभिधीयते नेयमिति विशेषकारणं नास्ति । अतः परं भाष्यार्थः । यदि चैका व्यक्तिरभिधेया भवेद्वयक्त्यन्तरे प्रयोगो न स्यादभिधेयव्यक्ते स्तत्राभावादत्यन्तविलक्षणत्वाच्च, सामान्यविशेषविनिर्मुक्ता हि व्यक्तिरित्युच्यते । न च सामान्यविशेषौ मुक्त्वा व्यक्त्यन्तरेऽन्यदस्ति येन शब्दप्रयोगः स्यात् । ननु च यथैवैका सामान्यविशेषविनिर्मुक्ता तथा द्वितीया यतश्च यथैवैकस्यां सामान्यविशेषविनिर्मुक्तायां शब्दस्य प्रवृत्तिरेवमविशेषादितरत्रापि भविष्यति । यदि सामान्यरूपं विशेषरूपं वा व्यक्त्यन्तरं स्यात्ततो विलक्षणत्वाच्छब्दो न प्रवर्तते, यदा तु तदप्युभयविनिर्मुक्तं रूपं तदा तुल्यरूपत्वादयुक्ता शब्दस्य प्रवृत्तिरिति । यद्येवं सामान्यविशेषविनिर्मुक्तत्वादेकत्रेतरत्र च शब्दो वर्तते हन्त तर्हि सामान्यविशेषविनिर्मुक्तत्वमेव सामान्यं शब्दस्याभिधेयं स्यादिति सिद्धो नः पक्षः । तस्याऽऽकृतिशब्दवाच्यत्वे केवलं भवतः प्रद्वेष इति । पूर्वपक्षवाद्याह नैवं मयोच्यते सामान्यविशेषविनिर्मुक्तत्वाद्वयक्तौ शब्दो वर्तते व्यक्त्यन्तरे वेति, किं तु सामान्यविशेषव्यतिरेकेणान्यापोहवद्वयक्तिः कथ्यते । तत्र कथं सामान्यमेव तर्हि वाच्यमित्युच्यते यो ह्यर्थः सामान्यस्य विशेषाणां चाऽऽश्रयः सा व्यक्तिर्न सामान्यविशेषौ । ततश्च यथैवैकस्यां सामान्यविशेषव्यतिरिक्तायां व्यक्तौ