307
कथं लक्षणसंबन्धश्रिन्तायाः प्रकृतेन वा ।
स्मृतिमूलविचारेण वक्तव्यं त्विदमादितः ।
इयं प्रासङिगकी चिन्ता साधुशब्दे निरूपिते ।
उदाहृतस्य तस्यैव क्रियतेऽर्थविनिश्चयः ॥
वक्तव्यः पूर्वमर्थश्चेच्छब्दरूपनिरूपणात् ।
न हि वाच्यमविज्ञाय साधुत्वमवधार्यते ॥
अनिश्चितेऽपि वाच्यत्वे व्यक्त्याकृत्योर्विवेकतः ।
साधुत्वं शक्यते ज्ञातुं तेन वाच्यमिहोच्यते ॥
वाच्यमात्रे हि साधुत्वमविज्ञाते न लभ्यते ।
न चाऽऽकृत्या न च व्यक्त्या विना तन्नोपपद्यते ॥
अथ वोक्तेन मार्गेण सर्वा व्याकरणस्मृतिः ।
प्रमाणमिति सिद्धस्य किंचिदत्र विचार्यते ॥
व्यक्तिर्वाच्येति विज्ञानं न सन्मूलमसंभवात् ।
तेन व्याकरणेऽपीदृग् न प्रमाणं स्मृतिर्मता ॥
स्मृतेस्तेनापवादोऽयं प्रामाण्यस्य क्वचित्कृतः ।
युक्तो लक्षणपादाभ्यां पूर्वया चापि चिन्तया ॥
ननु चाऽऽकृतिपक्षेऽपि व्यक्तावेव क्रियाक्रिये ।
शब्दार्थे संभवात्तेन किमर्थैषा विचारणा ॥
यद्यप्येवं न भेदोऽस्ति वेदार्थकरणे नृणाम् ।
दधि विप्रेभ्य इत्यादौ फलं लोके भविष्यति ॥
व्यक्तिपक्षे विकल्पः स्यात्कौण्डिन्ये दधितक्रयोः ।
सामान्यवाक्यदौर्बल्यात्तक्रमेवेतरत्र तु ॥
वेदेऽपि च विशेषोऽस्ति व्रीहिप्रोक्षणचोदके ।
दध्नेत्यादिषुं भेदश्च जायते होमचोदके ॥
प्रोक्षणं पूर्वपक्षेऽपि कर्तव्यं लौकिकेष्वपि ।
व्रीहिषु श्रुतिसामर्थ्याद्बाधित्वा संनिधिक्रमम् ॥
प्रकृतेष्वेव सिद्धान्ते श्रुतिसंनिध्यनुग्रहात् ।
तत्रापि कृत्स्नमस्त्येव व्रीहित्वं हि श्रुतीरितम् ॥
एवं होमेऽपि दध्यादौ प्रकृतेऽप्रकृतेऽथ वा ।
प्रकृते श्रुतिवाच्यस्य होमत्वस्यापि संभवात् ॥