305 सनाद्यपि तु व्यक्त्यव्यतिरेकापेक्षया संभवत्येव । तथा हि—पश्वादिष्वपनीताङ्गेषु विशेषबुद्धयभावात्सामान्यरूपैव विशसनादिविशिष्टा बुद्धिर्दृष्टा । नन्वेवमनित्याऽऽकृतिः स्यात् । तेनांशेनेष्टैव । आश्रयान्तराविनाशात्तु सर्वैरप्यविनाशोऽवश्यमेवैष्टव्यः । तेन यत्तावन्मात्रमेव तस्य विनाशोऽनेकदेशस्य तु न कथंचिद्विनाशः स्यादित्युभयथा व्यवहारः । अत्यन्तव्यतिरेके तु नैव धर्मविधिविषयो व्यवतिष्ठेत । न च पशुत्वममूर्तत्वात् । तदुपलक्षितं तु यद्द्रव्यं तद्द्रव्यत्वादृते न ताद्रूप्येण गम्यत इत्येकार्थसमवायाद्व्यापकत्वाच्च द्रव्यं गमयितव्यं, तत्राप्यमूर्तत्वं दोषः । आश्रयोपलक्षणाच्च द्रव्यमात्रप्रसङ्गः । विशेषस्तु पशुत्वस्य वा द्रव्यत्वस्य वाऽव्यापकत्वादगम्यः । न वाऽप्रतीतं विधिना संबध्यते । न च यत्र संशयस्तत्प्रतीतम् । न चान्यत्रोक्तो धर्मस्तत्रासंभवादन्यत्र कार्यः । तस्मान्न सामान्ये कृतो विशेषेषु युक्तः, विशेषा अपि व्यपदेशात्सामान्यमेवेत्यमूर्तता । असाधारणेन तु नैव व्यवहारस्तस्मादनिरूप्यो धर्मविधिविषयः । सामानाधिकरण्यादि च प्रसिद्धिविपरीतं लक्षणया कल्प्यम् । भाष्यकारेण तु व्यतिरेकाभ्युपगमेनाऽऽश्रयमात्रगतिरुक्ता विशेषरूपा न कदाचिद् व्यक्तिः प्रतीयते । योऽप्याश्रयाश्रयिभावः सोऽप्यौपचारिकः । सामान्याच्च विशेषलक्षणं तत्र नाऽऽश्रयितव्यम् । आक्षेपमात्रभावादथ वैतद्विषय एवायं प्रपञ्चः किं शब्देनाऽऽकृत्या वेति । अन्वयव्यतिरेकाभ्यां चाऽऽकृत्येति निर्णयः । यो हि धूमादग्निमत्त्वं प्रतिपद्यते तस्य तैक्ष्ण्येऽप्याकाङ्क्षा सिद्धा । मानसादपचारादिति । यो हि जाड्यात्सामान्यवाचितां हित्वा कंचिदेव विशेषं यत्र संबन्धानुपवस्तं वाच्यं मन्यते तस्य सामान्याप्रतीतेर्न विशेषान्तरापेक्षा भवति । अथ वा यथा शब्दात्स्वतन्त्रामाकृतिं बुध्यते नैवं कदाचिदाकृतिमबुद्ध्वा व्यक्तिमिति । केन तर्हि गोत्वागोशब्दयोर्विशेषः । व्यतिरेकांशस्यैकत्र विवक्षा । गोत्ववानिति तु स्फुटं प्रत्ययेन जातिमदभिधानं विभागोपपत्तेः । सामान्यस्य वोपलक्षणत्वान्न भेदपक्षदोषः । भेदानामेव चायं प्रत्येकं सर्वेषां वाचकः । यस्तूपादीयमानत्वे संशयः स संख्याधारविषयः । उद्दिश्यमानेषु निर्ण्य एव । गवादिशब्दग्रहणं सर्वनामाख्याशब्दानामन्तर्भावार्थम् । प्रयोजनं सामान्यविशेषशब्दयोरेकविषयत्वात्सामान्यशिष्टस्य विशेषशिष्टेनाबाधः पूर्वपक्षे । एवं वा—