इह नामाख्यातोपसर्गनिपातानां मध्यान्नामानि परिगृह्यन्ते, तेषामपि जातिगुणक्रियाद्रव्ययदृच्छासर्वनामशब्दानां मध्याज्जातिशब्दाश्चिन्त्यन्ते । तेषामप्येकं गोशब्दमुदाहृत्यविचार्यते किं पुनरयमाकृतेर्वाचकोऽथ व्यक्तेरिति, ततः ।

( लोकवेदयोः शब्दार्थानामनन्यत्वनिरूपणम् । )
एतत्सान्यासिकं कृत्वा वक्ष्यमाणं तु सांप्रतम् ।
290
उपायफलसिद्धयर्थमिदं तावद्विचार्यते ॥

किं य एव लौकिकाः शब्दास्त एव वैदिकास्त एव चैषामर्था उतान्य इति । आह—

किं लोकवेदशब्दानामेकत्वप्रतिपादने ।
प्रयोजनं यतः पूर्वं तावत्तत्प्रतिपाद्यते ॥

उच्यते—

फलमस्य विचारस्य वैदिकेषु भविष्यति ।
लोके च निर्णयोपायस्तेनैकत्वाय यत्यते ॥

यदि शब्दार्थानामनन्यत्वं लोकवेदयोर्भवेत्तत एतस्या व्यक्त्याकृत्यभिधानचिन्ताया वृद्धव्यवहारस्थानेकप्रयोगानुसरणद्वारेणाभिधेयानभिधेयत्वनिर्णयः शक्यते कर्तुम् ।

प्रयोजनं तु लोकस्य न किंचिदपि सिध्यति ।
आकृतिव्यक्तिवाच्यत्वपरमार्थनिरूपणात् ॥

संमूर्छितानेकार्थसंनिधाने हि शब्दः प्रयुक्तः कियत्यप्यर्थजाते प्रत्यय करोति तेन चाविविक्ताभिधेयगम्यमानाशेनापि समस्तधर्मोपेतेन कार्यसिद्धौ क्रियमाणायां प्रयुक्तः ।

यद्युच्यमानया कार्यं यदि वा जातिगम्यया ।
समस्तं क्रियते व्यक्त्या को विवेकधियो गुणः ॥

यद्युच्येतेहापि वेदवत्सामान्यविशेषलक्षणबाधसिद्धिरेव प्रयोजनामिति । तदुच्यते—

सर्वं हि दधिदानादि लोके111 कर्मार्थलक्षणम् ।
तद्वज्ञात्क्रियमाणे तु न चिन्त्ये श्रुतिलक्षणे ॥
तेन लोके विचारोऽयं जायते निष्प्रयोजनः ।
स्यात्प्रयोजनवान्वेदे ज्ञानोपायस्तु दुर्लभः ॥
तेन शब्दार्थभिन्नत्वे व्यक्त्याकृतिविचारणा ।
वाच्यावाच्यविवेकाय न कर्तव्या कथंचन ॥
अभेदे सति लोकस्थैः कृतः शब्दार्थनिर्णयः ।
तस्मिन्ननुपयुक्तोऽपि फलं वेदेषु दास्यति ॥

तेन लौकिकवैदिकशब्दार्थैकत्वे सत्याकृत्यधिकरणमुपपत्तिमत्त्वात्प्रवोजनवत्त्वाच्चाऽऽरब्धव्यम् । भेदपक्षे त्वानारभ्यमित्यवधृत्य भेदपक्षस्तावत्प्रतिपाद्यते । नियतानियतस्व291 रच्छान्दसप्रकृतिप्रत्ययलोपागमवर्णविकारसदसद्भावकृतरूपभेदादध्यायानध्यायोपनीतानुपनीतत्रैवर्णिकचातुवर्ण्यप्रयोज्याप्रयोज्यत्वगुरुशुश्रूषाराधितगुरुसंप्रदाययदृच्छाप्रयुक्तवाक्यंत- दर्थान्यत्ववद्यदि पदपदार्थान्यत्वं लोकवेदयोस्ततो लौकिकानामेव व्यवहारोपनिपातादर्थवत्ता, वेदे त्वानर्थक्यान्न चोदनालक्षणो धर्मः । स्वरेण रूपभेदं मन्यते ।

अध्यायानध्यायतया वृत्रहननाद्यर्थयोगेन चाविदग्धवाक्यवदुत्तानवहनवाक्यभङ्गः । सर्वेषां च वैदिकानामन्यत्वान्न ततोऽपि पौर्वापर्येणार्थावगतिः । ग्राह्यत्वादिधर्मभेदनियतानियतपदवाक्यरचनाद्वारा व्यपदेशरूपभेदाभ्यां सर्वशब्दानामर्थानां लौकिकानां वैदिकानां च भेद इति प्राप्तेऽभिधीयते—

प्रयोगचोदनाभावादेकत्वं तेषु गम्यते ।
तस्मात्सिद्धिः फलत्वाच्चेदविभागाद्भविष्यति ॥

भेदे सत्यपूर्वात्सर्ववैदिकपदानामनवगतसंबन्धत्वेनार्थशून्यत्वात्क्रियाकारकसंसर्गात्मकप्रयोगचोदनानामभाव एव स्यात् ।

एकत्वे सति सद्भावादिति वा हेतुवर्णना ।
अर्थैकत्वं प्रधानत्वाद्वस्त्वभेदोऽथ वोच्यते ॥

शब्दार्थैकत्वमिति वक्तव्येऽर्थैकत्ववचनं फलादेव शब्दैकत्वोक्तिसिद्धिं मत्वैवमुक्तम् । अथ वा वस्तुमात्रपर्यायत्वादुभयसाधारण्याभिप्रायेणैवार्थैकत्वोक्तिः । प्रयोगचोदनाभावप्रसङ्गः परपक्षे स्वपक्षे वा तद्भावसिद्धिर्वेदवादिनैव सह विवादेऽवकल्पते नान्ये292 नेत्यत आह—प्रयोजनमिदं तत्प्रमाणमभिधीयतामिति । तदुच्यते । प्रत्यभिज्ञारूपप्रत्ययविभागाज्ज्ञायमानोभयप्रमेयरूपाविभागाद्वा वाक्यतत्समूहमात्रनिबन्धनापन्नपदवर्णविषयत्वव्यपदेशाविभागाद्वा तथोच्चारयितॄणां स्थानकरणप्रयत्नाविभागाद्वा लक्षणविदां वा बहुतरानुगमनाविभागादिति हेत्वर्थविकल्पाः ।

प्रत्यक्षप्रत्यभिज्ञानाच्छब्दैकत्वं प्रतिष्ठितम् ।
एकशब्दोत्थितज्ञानग्राह्यत्वाच्चैकवाक्यता ।
यथाश्रुतगवादीनां याऽपि वाच्यान्तरे श्रुतिः ।
अर्थैकत्वाविरोधेन गुणमात्रपरा तु सा ॥
यथा हि वामना गावो नराश्चिपिटनासिकाः ।
कर्णप्रावरणाश्चान्ये नरार्थत्वाच्च न च्युताः ॥
एवं सत्येव गोत्वादौ धर्मो यदि विलक्षणः ।
नैतावताऽर्थभेदोऽस्ति विशेषानभिधानतः ॥

न च या एव देवानां गावस्ता एवावश्यं सर्वत्र वैदिकस्य गोशब्दस्य वाच्या भवन्ति । मनुष्यगवीषु दक्षिणादिसाधनेषु सुतरां प्रयुज्यमानत्वात् ।

एवं हिरण्यपर्णत्वं मेरौ यदि वनस्पतेः ।
देवलोके ततः शब्दः किमर्थान्तरवाच्ययम् ॥
यच्चैतद्धृतमस्माकं देवानां मध्विदं यदि ।
रसवीर्यादिभिस्तत्र न शब्दार्थोऽन्यथा भवेत् ॥
न च सर्वाप्रसिद्धत्वे गम्येतैकोऽपि कश्चन ।
तेनासिद्धैरसिद्धानां नास्त्यन्यत्वनिरूपणम् ॥

293 अतोऽवश्यमेतेषामेव गवादीनां देवसंबद्धानामुत्तानवहनप्रतिपादनमिति वक्तव्यम् । अथ वा भूमिष्ठानामेव सतां केनापि गुणवादेन पृथिवीगोलकत्रैलोक्यभ्रमणादिना वा पुराणोक्तेन दृष्टिवशाद्यथैव वयमुपरि देवान्पश्याम एवमधो द्युपरिवर्तनादयमपि लोको देवैरुपरि दृश्यत इति उत्तानवहनदृष्टिः । तस्माल्लोकवेदयोरभिन्नाः शब्दार्था इति सिद्धे ।

विचार्यते किमाकृतिः शब्दार्थोऽथ व्यक्तिरिति ।

द्वौ च पक्षावुपन्यस्तौ भाष्यकारेण यद्यपि ।
व्याख्यातारस्तथाऽप्यत्र कुर्युः पक्षान्तराण्यपि ॥
नियोगेन विकल्पेन द्वे वा सह समुच्चिते ।
संबन्धः समुदायो वा विशिष्टा वैकयेतरा ॥
एते पक्षाः पुनर्योज्या व्यतिकीर्णाः परस्परम् ।
लिङ्गकारकसंख्याभिः संहतासंहतात्मभिः ॥
पुनर्जात्यादिपक्षाणां तादृश्येवात्र योजना ।

प्रथमं तावदष्टपक्ष्येवं दर्शयितव्या । गोशब्दस्यार्थः किमाकृतिरेव, व्यक्तिरेव, उताऽऽकृतिर्वा व्यक्तिर्वा, अथाऽऽकृतिश्च व्यक्तिश्च, किमुभयोः संबन्ध उत समुदायः, किमाकृतिविशिष्टा व्यक्तिरुत व्यक्तिविशिष्टाऽऽकृतिरिति । तथा किमाकृत्यैव विशिष्टः संबन्धः किं व्यक्त्यैव आकृत्या वा व्यक्त्या वा, अथ समुदायेनाप्याकृतिविशिष्टया व्यक्त्या, अथ व्यक्तिविशिष्ट्याऽऽकृत्या, अथ परस्परविशिष्टाभ्यां द्वाभ्यामिति । तथा किमाकृत्यैव विशिष्टः समुदाय इत्याद्यपि पूर्ववदेव संबन्धविशिष्टसमुदायपक्षमात्रातिरिक्तं योजनीयम् । एवं किमाकृत्यैव विशिष्टः संबन्ध एव, उत व्यक्त्यैव, अथवाऽकृत्या वा व्यक्त्या वा, अथ समुदायेन किमन्यतरविशिष्ट्याऽन्यतरया, अथोभाभ्यामित्येवं समुदायविशेषणत्वपक्षाः पूर्ववदेव योज्याः ।

एवं किं संबन्धेनैव विशिष्टाऽऽकृतिरथ समुदायेनैवाथ विकल्पमानाभ्यामुत समुच्चिताभ्याम् । तथैतद्विशिष्टा किमाकृतिरेवाथ व्यक्तिरेव, अथ विकल्पिते किं समुच्चिते किमिति । तथा किमाकृतिविशिष्टसंबन्धविशिष्टा व्यक्तिरेवाथ व्यक्तिविशिष्टसंबन्धविशिष्टाऽऽकृतिरेवाथ विकल्प उत समुच्चयः । एवं समुदायेनापि योज्यम् । तथा संबन्धविशिष्टव्यक्तिविशिष्टाकृतिरेवाथ संबन्धविशिष्टाकृतिविशिष्टा व्यक्तिरेवाथ विकल्पोऽथ समुच्चयः । एवं समुदायविशिष्टपक्षाः कल्पयितव्याः । तथा किं जात्यैव विशिष्टेन संबन्धेन विशिष्टा व्यक्तिः, अथ व्यक्त्यैव विशिष्टेन संबन्धेन विशिष्टा जातिरथ विकल्पोऽथ समुच्चयः । एवं समुदायेनापि विशिष्टता योज्या । तथा किं संबन्धेनैव विशिष्टया जात्यैव विशिष्टा व्यक्तिरुतैवंविधया व्यक्त्यैव विशिष्टा जातिरथ विकल्पोऽथ समुच्चयः ।

294 एवं समुदायेनैव विशिष्टयेत्यपि योजयितव्यम् । एवं जातिलिङ्गयोर्जातिकारकयोर्जातिसंख्ययोश्च प्रत्येकं जातिव्यक्तिपक्षविकल्पितसमुच्चितपक्षोत्थानं दर्शयित्वा व्यक्तेर्लिङ्गादीनां च दर्शयितव्यम् । तथा लिङ्गसंख्या लिङ्गकारकसंख्या कारकयुगलान्यपि विकल्प्य प्रत्येकद्वित्रिलिङ्गादिसहितैकजातिव्यक्तिविकल्पास्त्रियोगपञ्चयोगाश्रया दर्शयितव्याः ।

एवं शब्दस्वरूपस्य पुनर्जात्यादिभिः सह ।
एकद्वित्रिचतुष्पञ्चषट्कैः सह विकल्पना ॥
एते चात्यन्तनिष्कृष्टाः पक्षा यद्यपि न स्थिताः ।
बुद्धया तथाऽपि भिद्यन्ते जातिद्रव्यगुणादिवत् ॥
सर्वत्रेन्द्रियलिङ्गाभ्यां भेदः स्तोकोऽवगम्यते ।
शब्देन तु सुसूक्ष्मोऽपि वस्तुभागो विभज्यते ॥
पदात्प्रभृति चैवं या प्रज्ञा ज्ञातुर्विजृम्भते ।
पुष्पिता सा पदार्थेषु वाक्यार्थेषु फलिष्यति ॥
अत्र चाऽऽकृतिरेवेति दृढः पक्षोऽयमेकतः ।
इतरे त्वन्यतः सर्वे व्यक्तिपक्षानुयायिनः ॥
व्यक्तौ निराकृतायां च समस्तानां निराक्रिया ।
सुलभेति न सर्वेऽमी भाष्यकारेण दर्शिताः ॥
न चैतस्मान्न सन्त्येव न चैते निष्प्रयोजनाः ।
विकल्पिता हि जिज्ञासोः प्रज्ञाविकसनक्षमाः ॥
दर्शितेष्वपि सर्वेषु विचारः क्रियते द्वयोः ।
का शब्देनाऽऽकृतिव्यक्त्योरुच्यते काऽनुगम्यते ॥

ततश्च—

विचारमुखसिद्धयर्थं स्वरूपं तावदेतयोः ।
प्रश्नपूर्वमुपन्यस्य याथात्म्येन निरूप्यते ॥

ननु प्रथमपाद एवाऽऽकृतेर्निरूपणादिदानीं प्रश्नोत्तरे मन्दप्रयोजने । उच्यते—

सत्यमेवाऽऽकृतिः पूर्वं प्रत्यक्षेण निरूपिता ।
संस्थानाशङ्कया त्वत्र सामान्यात्मा निरूप्यते ॥

295 द्रव्यगुणकर्माणां सामान्यमात्रमाकृतिरिति ।

द्रव्यादीनां च सामान्यं परापरविभागवत् ।
वस्तुत्वं प्रथमं तत्र द्रव्यत्वाद्यपरं तथा ॥
पुनर्वायुत्वतेजस्त्वजलत्वात्मत्वभिन्नता ।
पृथिवीत्वाद्घटत्वं च तद्व्यक्तिषु समाप्यते ॥
वृक्षत्वात्परतश्चेष्टं शिंशपात्वादि केवलम् ।
शरीरत्वाच्च गोवाजिहस्तिपुंस्त्वादि गम्यते ॥
वाजिकत्वादि चाश्वत्वात्कर्कादिस्तु गुणो मतः ।
हस्तित्वाद्भद्रमद्रादिदिङ्नागकुलजातयः ॥
पुंस्त्वाद्ब्राह्यणकौण्डिन्यकठत्वादि समाप्यते ।
तथा गुणत्वकर्मत्वरूपता जन्मतादि यत् ॥
ततः शुक्लादि तद्वयक्तिगुणेषु प्रतितिष्ठति ।
कर्मणामपि यागत्वहोमत्वादिविभागतः ॥
अपर्यायस्मृतैरुक्तं धातुभिः प्रविंभज्यते ।
पुनर्विधानसंख्याख्या गुणप्रकरणान्तरैः ॥
अन्ये तु भेदमाचार्याः कर्मणामेव मन्वते ।
अपि वाऽव्यतिरेकात्स्याद्देशादेरेकरूपता ॥
रूपशब्दाविभागाच्च 112वक्ष्यत्येतद्धि जैमिनिः ।
एवं प्रपञ्चितं सर्वमर्थसामान्यमाकृतिः ॥
न संस्थानं कुतो ह्येतदात्मादिगुणकर्मसु ।

सर्वेषु हि पार्थिवेषु गवादिघटादिषु संस्थानं भवेत् । अग्नितोयवाय्वाकाशादीनां तु पार्थिवद्रव्यपरिग्रहवशादाकारानुवृत्तिः कल्प्येत न स्वातन्त्र्येण, दिक्कालात्ममनसां तु गुणकर्मणां च न कथंचिदपि संस्थानं संभवति । सामान्यमात्रं तु सर्वस्वविशेषानुवृत्तिरूपं संभाव्यते । तस्मादेतदेवाभिधेयाकृतिलक्षणं नावयवरचनासंस्थानाकृतित्वमवकल्पते ।

संस्थानस्य च नाशित्वात्प्रतिव्यक्ति च भेदतः ।
सामान्यव्यवहारित्वं नाऽऽकृतित्वेऽवकल्पते ॥
अथ संस्थानसामान्यमाकृतित्वेन गृह्यते ।
अश्वादिष्वपि तुल्यत्वाद्भवेदाकृतिसंकरः ॥
न चावान्तरसंस्थानं सर्वगोपिण्डवृत्ति यत् ।
अश्वादिभ्यो निवृत्तं च गोशब्दालम्बनं भवेत् ॥

296 तस्य ह्युपलक्षणमालोच्यमानं न जातेरन्यल्लभ्यते ततश्च जातिरेव सामान्यमिति न्यायेंनाऽऽपद्यते । तेन प्रथमपादे रुचकस्वस्तिकवर्धमानकोदाहरणात्संस्थानाकृत्यभिधानाशङ्काक्षयादर्शनवदासीदित्येताभ्यां प्रश्नोत्तराभ्यां व्यावर्त्यते । अतश्च द्रव्यगुणकर्मणां यावत्किंचित्प्राग्व्यक्तिभ्यः सामान्यं तत्सर्वमाकृतिरेवेत्यभिप्रेत्य मात्रशब्दः प्रयुक्तः । असाधारणविशेषा व्यक्तिरिति । के चिदाहुः । असाधारणा विशेषा एव व्यक्तिः । विशेषव्यतिरिक्तव्यक्त्यभावादिति ।

तत्तु नैवं विशेषेभ्यो व्यक्तिरन्यैव हीष्यते ।
खण्डमुण्डादयः सर्वे विशेषत्वेन संमताः ॥
ते चान्यत्रापि दृश्यन्ते तथा जात्यन्तरेष्वपि ।
शाबलेयादिभेदोऽस्ति तदपत्यान्तरेष्वपि ॥

खण्डमुण्डादयस्तावदन्या अपि व्यक्तयो भवन्त्येव गवयमहिषादिव्यक्तयश्च । शाबलेयोऽपि यथैकस्तथाऽन्योऽपि यः शबलापत्यत्वेन गम्यते स सर्वः शाबलेयः । एतच्चोभयवर्णनिमित्तं वा यादृच्छिकं वा नामान्यत्रापि विनियोगवशाद्वर्तत एव । तदपत्ये च शाबलेय इत्यसाधारणव्यपदेशानुपपत्तिः । विशेषव्यक्तिशब्दयोर्बहुवचनैकवचनान्तयोः सामानाधिकरण्यप्रयोगवचनभेददोषः । तस्मादसाधारणा विशेषा यस्यां सा व्यक्तिरित्येवं व्याख्येयम् । ननु पूर्वोक्तेन न्यायेन खण्डादीनामपि बहुव्यक्तिसाधारण्याद्वयक्तिव्यतिरिक्तानां चान्येषां केवलैकैकव्यक्तिगतानां विशेषाणामसंभवाद्बहुव्रीहिरप्यनुपपन्नः । उच्यते । नैव विशेषाणां प्रत्येकमसाधारणत्वमाश्रित्य व्यक्तिविशेषणत्वेनोपादानम् । कथं तर्हि साधारणरूपाणामप्येकद्वित्रादिभेदेन क्वचिदुपलब्धानां यदेकत्र पिण्डीकृतानां ग्रहणं तदपेक्षमसाधारणविशेषत्वाभिधानम् ।

प्रविभक्ता हि ये दृष्टा दृश्यन्ते संहताः पुनः ।
पिण्डासाधारणत्वेन तैर्व्यक्तिरुपलक्ष्यते ॥

न चैकस्यां व्यक्तौ ये समुदिता दृष्टास्त एव व्यक्त्यन्तरेऽप्यन्यूनानतिरिक्ता दृश्यन्ते । य एवादृष्टपूर्वस्तस्मिन्समुदाये संप्रति दृश्यते स एवासाधारणतामापादयति । अनन्तभेदास्वपि व्यक्तिषु नात्यन्तापूर्वविशेषणोपलक्षणोपादानं किंचिदुत्कर्षापकर्षमात्रेण च सर्वत्रासाधारणोपलक्षणलाभात्परसामान्यापेक्षया च सर्वाण्येवावान्तरसामान्यानि विशेषव्यपदेशं प्राप्नुवन्ति । संघातावस्थायां च व्यक्तिविशेषणत्वात्तेषु विशेषशब्दः । एतच्च व्यक्तेर्विशेषाणामन्यत्वमुपरिष्टाद्भाप्यकारोऽपि वक्ष्यत्येव, योऽर्थः सामान्यस्य 297 विशेषाणां चाऽऽश्रयः सा व्यक्तिरिति । तत्र केचिद्गोत्वादिषु विशेषत्वमङ्गीकृत्य सामान्यवाचिना शब्देनानभिधेयत्वाद्यदेव महासामान्यं सत्तावस्तुभावशब्दाभिधेयं तदेव शब्दस्वरूपव्यवच्छिन्नं गोत्वादिविशेषव्यवच्छिन्नं वा गोसत्ताख्यमाकृत्यभिधानपक्षे वाच्यमिति मन्यन्ते । यथाऽऽहुः—

अस्त्यर्थः सर्वशब्दानामिति प्रत्याय्यलक्षणम् ।
अपूर्वदेवतास्वर्गैः सममाहुर्गवादिषु ॥ इति ।
तत्तु 113कक्ष्याविभागेन सामान्यानां निरूपणात् ।
अयुक्तं न गवादीनां तत्र वाचकशक्तता ॥

प्रतिनियतार्थविषया हि शब्दानां वाचकशक्तिरर्थापत्त्या गम्यते । तत्रानन्तरावान्तरसामान्यवचनानां द्रव्यगुणकर्मशब्दानामेव तावदसंकीर्णार्थत्वात्सत्तार्थत्वमनुपपन्नं किमुत दुरान्तरितार्थगवादिशब्दानाम् ।

सत्तामेते वदन्तश्च न शुद्धां सविशेषणाम् ।
वदन्तीत्यभिधातुं हि शक्यं द्वेधाऽप्यसंभवात् ॥

शुद्धवचनत्वे तावत्सर्वेषामेकार्थप्रत्यायनात्पर्यायत्वप्रसङ्गः । पुनरुक्तत्वाच्चास्तिशब्दप्रयोगानुपपत्तिः ।

गौर्नास्तीति प्रयोगश्च विरोधान्नावकल्पते ।
न हि सत्तैव नास्तीति कथंचित्संप्रतीयते ॥

देशकालाद्यपेक्षायामपि नैव सत्तायां नास्तित्वमभिधातुं युक्तम् । विभुत्वनित्यत्वाभ्यां सर्वदेशकालव्यापित्वात् ।

रुढिशब्दश्च नैवायं लोकदृष्टया प्रतीयते ।
तेन द्रव्यादिसामान्यं सत्तेत्येतन्न युज्यते ॥

य एव ह्यस्तिशब्देन द्वितीयो भावविकार उच्यते114 । जायमानविपरिणामाद्यवस्थसर्ववस्तुषु विनश्यत्तापर्यन्तेषु वस्त्वाकृतिप्रतिपत्तिर्दृश्यते । तेन यदि नाम महासामान्यमभिधेयं प्रतिज्ञायते ततो वस्त्वर्थः सर्वशब्दानामिति प्रत्याय्यलक्षणमिति कामं वक्तव्यं नास्त्यर्थ इति । न चावयवार्थपरित्यागेन सच्छब्दसत्ताशब्दौ वर्तेते इति भवच्छब्दवदेवा298 स्तीति सद्भावः सत्तेति न तु वैशेषिकपरिभाषया यतो द्रव्यगुणकर्मसु सदिति प्रतीतिः सा सत्तेति । एवंलक्षणा जातिः प्रतिपत्तव्या ॥

सेयमव्ययशब्देन वस्तुपर्यायवाचिना ।
भवत्साधारणार्थेन प्रसिद्धिरुपपादिता ॥
अस्तित्वमस्तितेत्येवं दृश्येते प्रत्ययौ यतः ।
स वस्तुवचनः शब्द आख्यातप्रतिरूपकः ॥
अप्रातिपदिकत्वाद्धि नाऽऽख्यातात्त्वतलौ स्मृतौ ।
अस्तिक्षीरा समासश्च तेन सद्वाचिनेष्यते ॥

अस्तिक्षीरा गौरिति तिङन्तसमासत्वेनानुपसंख्यानादवश्यंभाविप्रत्ययलक्षणद्वारसुबन्तत्वयोग्याव्ययपदेन सह क्षीराशब्दस्यान्यपदार्थे बहुव्रीहिरभ्युपगन्तव्यः । तत्र चायं सदर्थवचनः सक्षीरा गौरिति प्रत्ययोत्पादात् । ततश्च वस्तुनि सति च प्रयुज्यमानमस्तिशब्दमुपलभ्य तदर्थानुसरणप्रत्यासन्नं सच्छब्दं च देवात्तलिति च स्वार्थिकं देवतेतिबत्तलमिहाप्यस्तिधातुवाच्यार्थविशिष्टकर्तृप्रतीतिमनङ्गीकृत्य शुद्धधात्वर्थमात्रवचनावेव सच्छब्दसत्ताशब्दौ गृहीत्वैवं तार्किकैः कल्पितं सच्छब्दवाच्या सत्ता महासामान्यमिति । 115तदुक्तान्तगमनेऽनादराच्च पदवाक्यविद्भिरप्युपेक्षितं प्रसिद्धमिवेमामवस्थां प्राप्तं गवादिशब्दवाच्यत्वेनापि संभाव्यते ।

न त्वर्थाद्गम्यमानस्य वस्तुत्वस्यापि वाच्यता ।
धर्मान्तरत्ववृत्तेस्तु116 सत्तायाः कुत एव सा ।
वस्तुशब्दो हि रूढित्वाद्वयक्तिजात्यन्तराश्रितम् ।
सामान्यं यद्ब्रवीत्येतद्गम्यतेऽर्थैर्गवादिभिः ॥
शुद्धाभिधानपक्षस्य दुष्टत्वात्तैर्विशेषितम् ।
महासामान्यमिष्टं चेद्वाच्यं तदपि दुर्लभम् ॥

यदेवाऽऽकृतिविशिष्टव्यक्त्यभिधानपक्षे व्यक्तिविशिष्टाकृतिपक्षे वा निराकरणकारणं तदत्रापि सुलभम् । विशेषणस्य पूर्वतराभिधानप्रसङ्गात् ।

गोसत्तां चापि गोशब्दो यदि नाम ब्रवीत्ययम् ।
गोजात्या वा विशिष्टां तां वदेद्वयक्तिभिरेव वा ॥

299 तत्र—

गोत्वजातिविशिष्टा चेत्सत्ताऽनेनाभिधीयते ।
उक्ताद्विशेषणादेव तत्सिद्धेः सा किमुच्यते ॥

विशेषणमनभिधाय तद्विशिष्टविशेष्याभिधानासंभवाद्विशेषणस्य च विशेष्येणात्यन्तसंबन्धात्पूर्वतराभिहितविशेषणभूतगोत्वसंबन्धादेव सत्तावगमसिद्धेर्न तत्राभिधानशक्तिकल्पनायामर्थापत्तिरप्यन्यथाऽप्युपपद्यमानफलत्वप्रतिहता सती न प्रवर्तते । तथा व्यक्तिविशिष्टसत्ताभिधानेऽप्येष एव निराकरणहेतुः । अनित्यसंबन्धज्ञानानन्तशब्दशक्तिव्यक्त्यभिधानपूर्वकैकसत्ताभिधानकल्पनायाश्च केवलव्यक्त्यभिधानपक्षवदनुपपत्तिः । यत्तु अपूर्वदेवतास्वर्गैः सममाहुरिति ।

तत्राभिधीयते—

नैवापूर्वादिशब्दानां सत्ता वाच्येत्यवस्थितम् ।
विशेषानेव तेऽप्याहुरर्थापत्त्यादिकल्पितान् ॥

केचिच्छ्रुतार्थापत्त्या केचिद्वाक्यशेषवाक्यान्तरपर्युपस्थापितार्थविशेषवचना एव सन्तोऽत्यन्ताव्यभिचारिस्वार्थद्वारेण सत्तां गमयन्तोऽनभिधायकत्वेनावधार्यन्ते न सत्तापदार्थो व्यभिचरतीति लक्षणयैव तेभ्यः सत्ताप्रतीतिः ।

कार्यसामर्थ्यमिन्द्रादिनिर्मिश्रसुखसंगतिः ।
सामान्येनाप्यपूर्वादि सत्तातोऽन्यत्तु लभ्यते ॥

सर्वपदार्थानामिव कार्यार्थापत्तिगम्यानि सामर्थ्यानि सन्ति यागादिजनितं च पुंसां फलप्राप्तिसामर्थ्यमपूर्वशब्दवाच्यं यागानुष्ठानात्पूर्वमभूतमनुष्ठानोत्तरकालं चापूर्वं जायत इति यौगिकत्वादेवापूर्वशब्दाभिधानं सर्वत्र लभ्यते । तथा दीव्यन्ति द्योतन्ते वा चन्द्रादित्याग्निग्रहनक्षत्रातारकादिरूपेण वायवश्च सततगत्या स्तूयन्ते सर्वैर्मन्त्रैरिति देवाः सुज्ञानशब्दसंबन्धा विशेषरूपैरेवेति न सत्तागोचरत्वं प्रतिपद्यन्ते । तथा स्वर्गशब्देनापि नक्षत्रदेशो वा वैदिकप्रवादपौराणिकयाज्ञिकदर्शनेनोच्यते यथा हि वेदे ‘ये हि जनाः पुण्यकृतः स्वर्गं लोकं यन्ति तेषामेतानि ज्योतींषि नक्षत्राणि तथा चैष ज्योतिष्मन्तं पुण्यलोकं जयति’ इति । यदि वेतिहासपुराणोपपन्नं मेरुपृष्ठम् । अथ वाऽन्वयव्यतिरेकाभ्यां विभक्तं केवलमेव सुखं यत्संवत्सरादिष्वनुभूयमानं दुःखसाधनशीतोष्णक्षुत्पिपासादिसमस्तद्वंद्वरहितार्थापत्तिसिद्धदेशान्तरानुभवनीयं, तच्च यद्यपि तादृशमदृष्टपूर्वं तथाऽपि मिश्रानुभवादेव विवेकेनोद्धृत्य स्वर्गशब्दार्थत्वेन ज्ञायमानं सत्तां गमयतीति न तदभिधानमपेक्ष्यते ।

300
तेनापूर्वादिशब्दार्थाः समाः सत्यं गवादिभिः ।
स्वशब्दाभिहिताः सन्तः सत्तां लक्षयितुं क्षमाः ॥
अतश्च नैव गोशब्दो गोसत्तामभिधास्यति ।
गोत्वाख्याकृतिवाच्यत्वसंदेहात्तु विचार्यते ।
कुतः संशय इत्येतत्कार्ययोग्यार्थनिर्णयात् ।
व्यक्तिमात्रपदार्थत्वं मन्यमानेन चोद्यते ॥
उच्यते कार्ययोगित्वाद्गम्यते व्यक्तिवाच्यता ।
शब्दशक्त्यनुरोधात्तु नाऽकृतेर्व्यतिरिच्यते ॥
शक्तिकार्यविसंवादादेव शब्दार्थगोचरात् ।
किं समञ्जसमित्येवं नाविचार्यावधार्यते ॥

किं तावत्प्राप्तम्—

प्रयोगचोदनाभावाद्व्याक्तिर्वाच्या न तूभयम् ।
अर्थैकत्वं यतो युक्तमविभागाद् द्वयोर्गतिः ॥
नित्यं यथैव शब्दानामाम्नातानां प्रयोजने ।
अर्थप्रत्यायनार्थत्वात्तद्वशेनावधारणा ॥
एवं सर्वपदार्थानां वाक्यार्थप्रत्ययाङ्गता ।
यथा सिध्येत्तथा कार्यं तेषां रूपनिरूपणात् ॥
आकृतिर्यदि शब्दार्थः कस्य स्युः प्रोक्षणादयः ।
केन चेज्येत न त्याग आकृतेरुपपद्यते ॥
अमूर्ता ह्याकृतिर्नित्या नावघातादिभाजनी ।
तद्विधिः प्रतिषेधो वा तेनास्या नावकल्पते ॥

‘व्रीहीनवहन्ति’ ‘पशुं संज्ञपयति’ ‘सोममभिषुणोति’ ‘पावयति’ सोमेन पशुना व्रीहिमिश्च यजत इति यावन्त एवमादयो विनाशिमूर्तिमद्विषयाः संस्काराः प्रयोजनसिद्धयर्था वा तेषां प्रयोगचोदनाया आकृतावभावाद्व्यक्तौ तु भावात्कार्यप्रधानत्वाच्च पदार्थप्रतीतेर्विध्यधीनत्वाच्च सर्वपुरुषचेष्टानामवश्यं विधिविषयत्वयोग्यवाक्यार्थपूरणसमर्थपदार्थकल्पनमङ्गीकर्तव्यम् । तथा यदपि ‘ब्राह्मणो न हन्तव्यः’ ‘न कलञ्जं भक्षयितव्यम्’ इत्यादिप्रतिषेधविधानं तदपि प्राप्तिपूर्वकत्वेन सापेक्षत्वाद्व्यक्तौ च प्राप्तिसंभवादाकृतेश्चानधिकारादसत्यां प्राप्तावनर्थकमेव स्यात् । तस्माद्येन

301 शब्दार्थेन प्रयोगचोदनानां भावो भवति स एवाभ्युपगन्तुं न्याय्यो न तत्त्वज्ञानमात्रादृष्टिसिद्धयर्थपदार्थकल्पना युक्तेति । स्यादेतत्, व्यक्तिसंभवत्प्रयोगचोदनासु व्यक्त्यर्थस्ततोऽन्यत्राऽऽकृत्यर्थ एव भविष्यतीति । तदसत् । न्यायेन हि स्थितमेकस्य शब्दस्यार्थैक्यमनवस्थितसंबन्धानेकादृष्टवाचकशक्तिकल्पनविकल्पदोषप्रसङ्गात् । संबद्धानां चार्थानामन्यतराभिधानेनैवेतरत्र प्रतिपत्तिसिद्धेः । कथं तर्ह्याकृतिप्रत्यय इति चेदत आह—अविभागात् इति । यतस्तु नित्यमेव व्यक्त्याकृत्योरविभागस्तस्माव्द्यक्तिरभिहिता सती शक्नोत्येवाऽकृतिं गमयितुम् । तदुक्तं 117तद्भूताधिकरणे । यस्य तु पदस्य योऽर्थोऽभिधेयत्वेनाऽऽश्रितस्तस्य तत्परिहारासंभवादवश्यं 118तत्रस्थस्यैवार्थान्तरं लाक्षणिकत्वेनाभ्युपगन्तव्यमिति । अपि चाऽऽकृतिपदार्थकस्य व्यक्तिषु साधारणानैकान्तिकत्वान्निर्णयो न स्याद्वयक्तिपदार्थकस्य पुनरत्यन्तान्तर्भूताकृतिनिश्चयसिद्धेर्न शब्दव्यापारकल्पनोपपत्तिः । तस्माद्वयक्तिरेव शब्दार्थो नाऽऽकृतिः । न च विकल्पसमुच्चयसंबन्धसमुदायान्यतरविशिष्टान्यतराभिधानपक्षाः संभवन्त्यविभागादेव सर्वेषामपि ज्ञानसिद्धेः ॥ ३० ॥

  1. जै॰ सू॰ ( ११—१—४ ) ।
  2. जै. सू. ( ६—३—४ ) इत्येत्रेति शेषः ।
  3. कक्ष्याशब्दः कोष्ठवाची, द्रव्यत्वगुणत्वकर्मत्वान्येकस्यां सत्तावांन्तरसामान्यकक्ष्यायां, पृथिवीत्वादीनि द्रव्यत्वावान्तरसामान्यकक्ष्यायां, रूपत्वादीनि गुणत्वावान्तरसामान्यकक्ष्यायां च वर्तन्त इति कक्ष्याविभागो ज्ञेयः ।

  4. जै. सू. ( ६—३—४ ) इत्येत्रेति शेषः ।
  5. तदुक्तेति—यावद्यावद्विवादाय मुक्तकं दीयते मनः । अनवस्थादिदोषेण तावत्तावद्विहन्यते । इत्यनेन न्यायेन चिरनिखाततडागादिगतशैवालवच्छुष्कतर्कस्याप्रतिष्ठितत्वेन निराकृतस्यापि पुनः पुनरुद्रवेन समापयितुमशक्यत्वात्तार्किकोक्तस्यान्तगमने—समापने, अनादरादभियुक्तैरुपेक्षितत्वात्प्रसिद्धं सदिमां—युक्तायुक्तविचारावस्थां प्राप्तमित्यर्थः ।

  6. धर्मान्तरेति—जात्याख्याद्धर्माद्धर्मान्तरत्वेन—द्वितीयभावविकारत्वेन वर्तमानत्वादित्यर्थः ।

  7. जै॰ ( १-१-७ ) ।
  8. तत्रस्थस्येति तस्मिन्नेवार्थे वर्तमानस्य शब्दस्येत्यर्थः ।