298 स्तीति सद्भावः सत्तेति न तु वैशेषिकपरिभाषया यतो द्रव्यगुणकर्मसु सदिति प्रतीतिः सा सत्तेति । एवंलक्षणा जातिः प्रतिपत्तव्या ॥

सेयमव्ययशब्देन वस्तुपर्यायवाचिना ।
भवत्साधारणार्थेन प्रसिद्धिरुपपादिता ॥
अस्तित्वमस्तितेत्येवं दृश्येते प्रत्ययौ यतः ।
स वस्तुवचनः शब्द आख्यातप्रतिरूपकः ॥
अप्रातिपदिकत्वाद्धि नाऽऽख्यातात्त्वतलौ स्मृतौ ।
अस्तिक्षीरा समासश्च तेन सद्वाचिनेष्यते ॥

अस्तिक्षीरा गौरिति तिङन्तसमासत्वेनानुपसंख्यानादवश्यंभाविप्रत्ययलक्षणद्वारसुबन्तत्वयोग्याव्ययपदेन सह क्षीराशब्दस्यान्यपदार्थे बहुव्रीहिरभ्युपगन्तव्यः । तत्र चायं सदर्थवचनः सक्षीरा गौरिति प्रत्ययोत्पादात् । ततश्च वस्तुनि सति च प्रयुज्यमानमस्तिशब्दमुपलभ्य तदर्थानुसरणप्रत्यासन्नं सच्छब्दं च देवात्तलिति च स्वार्थिकं देवतेतिबत्तलमिहाप्यस्तिधातुवाच्यार्थविशिष्टकर्तृप्रतीतिमनङ्गीकृत्य शुद्धधात्वर्थमात्रवचनावेव सच्छब्दसत्ताशब्दौ गृहीत्वैवं तार्किकैः कल्पितं सच्छब्दवाच्या सत्ता महासामान्यमिति । 115तदुक्तान्तगमनेऽनादराच्च पदवाक्यविद्भिरप्युपेक्षितं प्रसिद्धमिवेमामवस्थां प्राप्तं गवादिशब्दवाच्यत्वेनापि संभाव्यते ।

न त्वर्थाद्गम्यमानस्य वस्तुत्वस्यापि वाच्यता ।
धर्मान्तरत्ववृत्तेस्तु116 सत्तायाः कुत एव सा ।
वस्तुशब्दो हि रूढित्वाद्वयक्तिजात्यन्तराश्रितम् ।
सामान्यं यद्ब्रवीत्येतद्गम्यतेऽर्थैर्गवादिभिः ॥
शुद्धाभिधानपक्षस्य दुष्टत्वात्तैर्विशेषितम् ।
महासामान्यमिष्टं चेद्वाच्यं तदपि दुर्लभम् ॥

यदेवाऽऽकृतिविशिष्टव्यक्त्यभिधानपक्षे व्यक्तिविशिष्टाकृतिपक्षे वा निराकरणकारणं तदत्रापि सुलभम् । विशेषणस्य पूर्वतराभिधानप्रसङ्गात् ।

गोसत्तां चापि गोशब्दो यदि नाम ब्रवीत्ययम् ।
गोजात्या वा विशिष्टां तां वदेद्वयक्तिभिरेव वा ॥

  1. तदुक्तेति—यावद्यावद्विवादाय मुक्तकं दीयते मनः । अनवस्थादिदोषेण तावत्तावद्विहन्यते । इत्यनेन न्यायेन चिरनिखाततडागादिगतशैवालवच्छुष्कतर्कस्याप्रतिष्ठितत्वेन निराकृतस्यापि पुनः पुनरुद्रवेन समापयितुमशक्यत्वात्तार्किकोक्तस्यान्तगमने—समापने, अनादरादभियुक्तैरुपेक्षितत्वात्प्रसिद्धं सदिमां—युक्तायुक्तविचारावस्थां प्राप्तमित्यर्थः ।

  2. धर्मान्तरेति—जात्याख्याद्धर्माद्धर्मान्तरत्वेन—द्वितीयभावविकारत्वेन वर्तमानत्वादित्यर्थः ।