299 तत्र—

गोत्वजातिविशिष्टा चेत्सत्ताऽनेनाभिधीयते ।
उक्ताद्विशेषणादेव तत्सिद्धेः सा किमुच्यते ॥

विशेषणमनभिधाय तद्विशिष्टविशेष्याभिधानासंभवाद्विशेषणस्य च विशेष्येणात्यन्तसंबन्धात्पूर्वतराभिहितविशेषणभूतगोत्वसंबन्धादेव सत्तावगमसिद्धेर्न तत्राभिधानशक्तिकल्पनायामर्थापत्तिरप्यन्यथाऽप्युपपद्यमानफलत्वप्रतिहता सती न प्रवर्तते । तथा व्यक्तिविशिष्टसत्ताभिधानेऽप्येष एव निराकरणहेतुः । अनित्यसंबन्धज्ञानानन्तशब्दशक्तिव्यक्त्यभिधानपूर्वकैकसत्ताभिधानकल्पनायाश्च केवलव्यक्त्यभिधानपक्षवदनुपपत्तिः । यत्तु अपूर्वदेवतास्वर्गैः सममाहुरिति ।

तत्राभिधीयते—

नैवापूर्वादिशब्दानां सत्ता वाच्येत्यवस्थितम् ।
विशेषानेव तेऽप्याहुरर्थापत्त्यादिकल्पितान् ॥

केचिच्छ्रुतार्थापत्त्या केचिद्वाक्यशेषवाक्यान्तरपर्युपस्थापितार्थविशेषवचना एव सन्तोऽत्यन्ताव्यभिचारिस्वार्थद्वारेण सत्तां गमयन्तोऽनभिधायकत्वेनावधार्यन्ते न सत्तापदार्थो व्यभिचरतीति लक्षणयैव तेभ्यः सत्ताप्रतीतिः ।

कार्यसामर्थ्यमिन्द्रादिनिर्मिश्रसुखसंगतिः ।
सामान्येनाप्यपूर्वादि सत्तातोऽन्यत्तु लभ्यते ॥

सर्वपदार्थानामिव कार्यार्थापत्तिगम्यानि सामर्थ्यानि सन्ति यागादिजनितं च पुंसां फलप्राप्तिसामर्थ्यमपूर्वशब्दवाच्यं यागानुष्ठानात्पूर्वमभूतमनुष्ठानोत्तरकालं चापूर्वं जायत इति यौगिकत्वादेवापूर्वशब्दाभिधानं सर्वत्र लभ्यते । तथा दीव्यन्ति द्योतन्ते वा चन्द्रादित्याग्निग्रहनक्षत्रातारकादिरूपेण वायवश्च सततगत्या स्तूयन्ते सर्वैर्मन्त्रैरिति देवाः सुज्ञानशब्दसंबन्धा विशेषरूपैरेवेति न सत्तागोचरत्वं प्रतिपद्यन्ते । तथा स्वर्गशब्देनापि नक्षत्रदेशो वा वैदिकप्रवादपौराणिकयाज्ञिकदर्शनेनोच्यते यथा हि वेदे ‘ये हि जनाः पुण्यकृतः स्वर्गं लोकं यन्ति तेषामेतानि ज्योतींषि नक्षत्राणि तथा चैष ज्योतिष्मन्तं पुण्यलोकं जयति’ इति । यदि वेतिहासपुराणोपपन्नं मेरुपृष्ठम् । अथ वाऽन्वयव्यतिरेकाभ्यां विभक्तं केवलमेव सुखं यत्संवत्सरादिष्वनुभूयमानं दुःखसाधनशीतोष्णक्षुत्पिपासादिसमस्तद्वंद्वरहितार्थापत्तिसिद्धदेशान्तरानुभवनीयं, तच्च यद्यपि तादृशमदृष्टपूर्वं तथाऽपि मिश्रानुभवादेव विवेकेनोद्धृत्य स्वर्गशब्दार्थत्वेन ज्ञायमानं सत्तां गमयतीति न तदभिधानमपेक्ष्यते ।