300
तेनापूर्वादिशब्दार्थाः समाः सत्यं गवादिभिः ।
स्वशब्दाभिहिताः सन्तः सत्तां लक्षयितुं क्षमाः ॥
अतश्च नैव गोशब्दो गोसत्तामभिधास्यति ।
गोत्वाख्याकृतिवाच्यत्वसंदेहात्तु विचार्यते ।
कुतः संशय इत्येतत्कार्ययोग्यार्थनिर्णयात् ।
व्यक्तिमात्रपदार्थत्वं मन्यमानेन चोद्यते ॥
उच्यते कार्ययोगित्वाद्गम्यते व्यक्तिवाच्यता ।
शब्दशक्त्यनुरोधात्तु नाऽकृतेर्व्यतिरिच्यते ॥
शक्तिकार्यविसंवादादेव शब्दार्थगोचरात् ।
किं समञ्जसमित्येवं नाविचार्यावधार्यते ॥

किं तावत्प्राप्तम्—

प्रयोगचोदनाभावाद्व्याक्तिर्वाच्या न तूभयम् ।
अर्थैकत्वं यतो युक्तमविभागाद् द्वयोर्गतिः ॥
नित्यं यथैव शब्दानामाम्नातानां प्रयोजने ।
अर्थप्रत्यायनार्थत्वात्तद्वशेनावधारणा ॥
एवं सर्वपदार्थानां वाक्यार्थप्रत्ययाङ्गता ।
यथा सिध्येत्तथा कार्यं तेषां रूपनिरूपणात् ॥
आकृतिर्यदि शब्दार्थः कस्य स्युः प्रोक्षणादयः ।
केन चेज्येत न त्याग आकृतेरुपपद्यते ॥
अमूर्ता ह्याकृतिर्नित्या नावघातादिभाजनी ।
तद्विधिः प्रतिषेधो वा तेनास्या नावकल्पते ॥

‘व्रीहीनवहन्ति’ ‘पशुं संज्ञपयति’ ‘सोममभिषुणोति’ ‘पावयति’ सोमेन पशुना व्रीहिमिश्च यजत इति यावन्त एवमादयो विनाशिमूर्तिमद्विषयाः संस्काराः प्रयोजनसिद्धयर्था वा तेषां प्रयोगचोदनाया आकृतावभावाद्व्यक्तौ तु भावात्कार्यप्रधानत्वाच्च पदार्थप्रतीतेर्विध्यधीनत्वाच्च सर्वपुरुषचेष्टानामवश्यं विधिविषयत्वयोग्यवाक्यार्थपूरणसमर्थपदार्थकल्पनमङ्गीकर्तव्यम् । तथा यदपि ‘ब्राह्मणो न हन्तव्यः’ ‘न कलञ्जं भक्षयितव्यम्’ इत्यादिप्रतिषेधविधानं तदपि प्राप्तिपूर्वकत्वेन सापेक्षत्वाद्व्यक्तौ च प्राप्तिसंभवादाकृतेश्चानधिकारादसत्यां प्राप्तावनर्थकमेव स्यात् । तस्माद्येन