301 शब्दार्थेन प्रयोगचोदनानां भावो भवति स एवाभ्युपगन्तुं न्याय्यो न तत्त्वज्ञानमात्रादृष्टिसिद्धयर्थपदार्थकल्पना युक्तेति । स्यादेतत्, व्यक्तिसंभवत्प्रयोगचोदनासु व्यक्त्यर्थस्ततोऽन्यत्राऽऽकृत्यर्थ एव भविष्यतीति । तदसत् । न्यायेन हि स्थितमेकस्य शब्दस्यार्थैक्यमनवस्थितसंबन्धानेकादृष्टवाचकशक्तिकल्पनविकल्पदोषप्रसङ्गात् । संबद्धानां चार्थानामन्यतराभिधानेनैवेतरत्र प्रतिपत्तिसिद्धेः । कथं तर्ह्याकृतिप्रत्यय इति चेदत आह—अविभागात् इति । यतस्तु नित्यमेव व्यक्त्याकृत्योरविभागस्तस्माव्द्यक्तिरभिहिता सती शक्नोत्येवाऽकृतिं गमयितुम् । तदुक्तं 117तद्भूताधिकरणे । यस्य तु पदस्य योऽर्थोऽभिधेयत्वेनाऽऽश्रितस्तस्य तत्परिहारासंभवादवश्यं 118तत्रस्थस्यैवार्थान्तरं लाक्षणिकत्वेनाभ्युपगन्तव्यमिति । अपि चाऽऽकृतिपदार्थकस्य व्यक्तिषु साधारणानैकान्तिकत्वान्निर्णयो न स्याद्वयक्तिपदार्थकस्य पुनरत्यन्तान्तर्भूताकृतिनिश्चयसिद्धेर्न शब्दव्यापारकल्पनोपपत्तिः । तस्माद्वयक्तिरेव शब्दार्थो नाऽऽकृतिः । न च विकल्पसमुच्चयसंबन्धसमुदायान्यतरविशिष्टान्यतराभिधानपक्षाः संभवन्त्यविभागादेव सर्वेषामपि ज्ञानसिद्धेः ॥ ३० ॥
गोशब्दादीनामाकृतिवचनत्वे गौः शुक्लः, ‘अरुणया पिङ्गाक्ष्यैकहायन्या गवा क्रीणाति’ इति ‘षड्गावो देयाः’ ‘एकां गां दक्षिणां दद्यात्’ इत्येवमादिषु प्रयोगेषु सर्वेषां जातिगुणमात्रवचनत्वात्सामानाधिकरण्यं न प्राप्नोति ।