291 रच्छान्दसप्रकृतिप्रत्ययलोपागमवर्णविकारसदसद्भावकृतरूपभेदादध्यायानध्यायोपनीतानुपनीतत्रैवर्णिकचातुवर्ण्यप्रयोज्याप्रयोज्यत्वगुरुशुश्रूषाराधितगुरुसंप्रदाययदृच्छाप्रयुक्तवाक्यंत- दर्थान्यत्ववद्यदि पदपदार्थान्यत्वं लोकवेदयोस्ततो लौकिकानामेव व्यवहारोपनिपातादर्थवत्ता, वेदे त्वानर्थक्यान्न चोदनालक्षणो धर्मः । स्वरेण रूपभेदं मन्यते ।
अध्यायानध्यायतया वृत्रहननाद्यर्थयोगेन चाविदग्धवाक्यवदुत्तानवहनवाक्यभङ्गः । सर्वेषां च वैदिकानामन्यत्वान्न ततोऽपि पौर्वापर्येणार्थावगतिः । ग्राह्यत्वादिधर्मभेदनियतानियतपदवाक्यरचनाद्वारा व्यपदेशरूपभेदाभ्यां सर्वशब्दानामर्थानां लौकिकानां वैदिकानां च भेद इति प्राप्तेऽभिधीयते—
भेदे सत्यपूर्वात्सर्ववैदिकपदानामनवगतसंबन्धत्वेनार्थशून्यत्वात्क्रियाकारकसंसर्गात्मकप्रयोगचोदनानामभाव एव स्यात् ।
शब्दार्थैकत्वमिति वक्तव्येऽर्थैकत्ववचनं फलादेव शब्दैकत्वोक्तिसिद्धिं मत्वैवमुक्तम् । अथ वा वस्तुमात्रपर्यायत्वादुभयसाधारण्याभिप्रायेणैवार्थैकत्वोक्तिः । प्रयोगचोदनाभावप्रसङ्गः परपक्षे स्वपक्षे वा तद्भावसिद्धिर्वेदवादिनैव सह विवादेऽवकल्पते नान्ये