290
उपायफलसिद्धयर्थमिदं तावद्विचार्यते ॥

किं य एव लौकिकाः शब्दास्त एव वैदिकास्त एव चैषामर्था उतान्य इति । आह—

किं लोकवेदशब्दानामेकत्वप्रतिपादने ।
प्रयोजनं यतः पूर्वं तावत्तत्प्रतिपाद्यते ॥

उच्यते—

फलमस्य विचारस्य वैदिकेषु भविष्यति ।
लोके च निर्णयोपायस्तेनैकत्वाय यत्यते ॥

यदि शब्दार्थानामनन्यत्वं लोकवेदयोर्भवेत्तत एतस्या व्यक्त्याकृत्यभिधानचिन्ताया वृद्धव्यवहारस्थानेकप्रयोगानुसरणद्वारेणाभिधेयानभिधेयत्वनिर्णयः शक्यते कर्तुम् ।

प्रयोजनं तु लोकस्य न किंचिदपि सिध्यति ।
आकृतिव्यक्तिवाच्यत्वपरमार्थनिरूपणात् ॥

संमूर्छितानेकार्थसंनिधाने हि शब्दः प्रयुक्तः कियत्यप्यर्थजाते प्रत्यय करोति तेन चाविविक्ताभिधेयगम्यमानाशेनापि समस्तधर्मोपेतेन कार्यसिद्धौ क्रियमाणायां प्रयुक्तः ।

यद्युच्यमानया कार्यं यदि वा जातिगम्यया ।
समस्तं क्रियते व्यक्त्या को विवेकधियो गुणः ॥

यद्युच्येतेहापि वेदवत्सामान्यविशेषलक्षणबाधसिद्धिरेव प्रयोजनामिति । तदुच्यते—

सर्वं हि दधिदानादि लोके111 कर्मार्थलक्षणम् ।
तद्वज्ञात्क्रियमाणे तु न चिन्त्ये श्रुतिलक्षणे ॥
तेन लोके विचारोऽयं जायते निष्प्रयोजनः ।
स्यात्प्रयोजनवान्वेदे ज्ञानोपायस्तु दुर्लभः ॥
तेन शब्दार्थभिन्नत्वे व्यक्त्याकृतिविचारणा ।
वाच्यावाच्यविवेकाय न कर्तव्या कथंचन ॥
अभेदे सति लोकस्थैः कृतः शब्दार्थनिर्णयः ।
तस्मिन्ननुपयुक्तोऽपि फलं वेदेषु दास्यति ॥

तेन लौकिकवैदिकशब्दार्थैकत्वे सत्याकृत्यधिकरणमुपपत्तिमत्त्वात्प्रवोजनवत्त्वाच्चाऽऽरब्धव्यम् । भेदपक्षे त्वानारभ्यमित्यवधृत्य भेदपक्षस्तावत्प्रतिपाद्यते । नियतानियतस्व

  1. जै॰ सू॰ ( ११—१—४ ) ।