579 उताप्राप्तमेव ब्राह्मणांदिसंबद्धं प्रयोगान्तरमुद्दिश्यत इति । तत्सिद्ध्यर्थं चैतद्विचारयितव्यं किं राजसूयेऽधिकारस्त्रयाणामपि वर्णानामुत क्षत्रियस्यैवेति । तत्सिद्ध्यर्थमधिकारिविशेषणभूतो राजशब्दस्तथैव421 विचारणीयः । ततोऽप्येतद्विचारयितव्यं किं क्षत्रियत्वनिमित्तो राजशब्द उत राज्यकरणनिमित्त इति । ननु च ‘एतयाऽन्नाद्यकामं याजयेत्’ इति वर्णविशेषेणासंबद्धं पृथग्राजसूयप्रयोगवचनादेवावेष्टेर्वचनमस्तीति वर्णत्रयस्यापि प्राप्तस्य निमितार्थमेव श्रवणं भवेत् । नैतदेवम् । तदा हि निर्ज्ञातक्षत्रियकर्तृकायाः कर्त्रन्तरे वचनान्तरेणाविधीयमानायाः पृथक् प्रयोगकारणाभावाच्च राजसूयमध्यस्थाया एव 422‘एकस्य तूभयत्वे संयोगपृथक्त्वम्’ इत्यनेन न्यायेन साधारणं च स्वाराज्यं फलं प्रात्यात्मिकं चान्नाद्यं विज्ञायते ।

पृथग्वा राजन्यैनैव फलार्थिना प्रयुज्यते न वर्णान्तरसंबन्धः । तद्यथाऽध्ययाधानयोर्निर्ज्ञातत्रैवर्णिककर्तृकत्वात्तदधीनसिद्धीनां कर्मणामर्थिमात्रसंबन्धावगमेऽपि सति अपशूद्रविषयत्वमेवावतिष्ठते । यथा चात्रैव स्वाराज्यकामाविशेषेऽपि राजकर्तृकत्ववशेन भोक्तृविशेषो भविष्यति । तस्माद्राजसूयाधिकारेणैवैभिर्वा वचनैः प्राप्तिरिति द्बावेव पक्षौ । किं तावत्प्राप्तम् । पूर्वाधिकरणेनैव निमित्तार्थानि श्रवणानीति । राजसूयाधिकारश्च सह राजशब्देन त्रयाणामपि वर्णानाम्, राज्यकरणं च शब्दप्रवृत्तिनिमित्तमिति । तथा हि ।

कर्ता राज्यस्य राजेति सर्वलोकेषु गीयते ।
महाविषयतैवं च शास्त्रस्यापि भविष्यति ॥

उभयसंभवे तावत्त्रैवर्णिकविषयता युक्ता कल्पयितुम् । एवं हि निमित्तप्रतीतिस्तत्प्रकरणादीनि च न बाध्यन्ते । राजसूयाधिकारश्रुतिश्चानल्पविषयत्वेन स्वरसात्प्रवर्तमाना न निवर्तिता भविष्यति । तस्माद्राज्यं कुर्वन्तः सर्वत्रैवर्णिका राजानः । तच्च राज्यं जनपदपरिपालनं नाम सर्वलोकप्रसिद्धम् । ततश्चोद्धरणं राज्येऽपि कण्टकोद्धारणमभि

  1. तथैवेति—त्रयाणां वर्णानां वाचक उत क्षत्रियस्यैवेत्यर्थः ।

  2. ( अ॰ ४ पा॰ ३ अ॰ ३ सू॰ ५ ) ।