दर्शपूर्णमासाविष्ट्वेति पूर्वेणैव न्यायेनाशेषाभ्यासनिर्वृत्त्युत्तरकालं सोमयागः स्यात् । न च मृतेनासौ कर्तुं शक्यः । अथ त्वस्ति सोमानुष्ठानकालस्तत एकान्तेनैव दर्शपूर्णमासाभ्यां जीवितकालो नावरोद्धव्यः । स च कर्तृधर्मपक्षे कर्मप्रयोगभेदान्नावरुध्यते नान्यथा । सूत्रमप्येवमस्ति चेद्दर्शपूर्णमासविनिर्मुक्तः सोमकालस्ततो यथोक्त एव कर्मप्रयोगभेदः स्यात् । कालश्चेत्कर्मभेदः स्यादित्यस्यापरा व्याख्या । यदि यावज्जीविकः कर्मधर्मकालश्चोद्येत ततो दर्शपूर्णमासमध्य एव सोमोन्यानि च कर्माणि कर्तव्यानि स्युः । ततश्च विततस्य कर्मणः कर्मान्तरेणाविच्छेदे सति दर्शपूर्णमासाविष्ट्वेति बाध्येत । अथवा ‘एष स्वर्गाल्लोकाच्छिद्यते एतद्यज्ञश्छिद्यते’ इत्येवमा629 दिभिश्च निन्दितमनुष्ठीयेत । तस्मादपि न कालविधानमिति । मुक्तकान्यार्थदर्शनद्वयं 491पूर्वसूत्रगोचरभूतं दर्शयति । तद्यथा । आहिताग्निर्वा एष सन्निति दीक्षितस्य दानादौ निषिद्धे विध्यन्तरशेषभूतः परिवेदनसरूपार्थवादो भवति । एतावन्तं हि कालमसावग्नि होत्रादिदेवताभ्यो भागमदत्त्वा ता अनुध्यायिनीः करोति नायमस्मभ्यं ददातीत्येवं चिन्तायुक्ताः करोतीत्येतन्नियमपक्षे युज्यते । कालविधिपक्षे तु काम्यत्वादग्निहोत्रस्य यथे ष्टप्रयोगे सति नियोगतो दातव्याभावादनुध्यायिनीवचनं नोपपद्यते । तस्मादपि नियमवचनम् । एतेन जरामर्यवचनविधानं व्याख्यातम् । काम्यत्वकल्पनायामप्रयोगादपि निर्मोके सति जरामरणनिर्मोकवचनवैयर्थ्यप्रसङ्गः ॥ ४ ॥
-
पूर्वसूत्रगोचरभूतमिति—लिङ्गदहर्शन्नाच्चेति सूत्रगोचरनित्यर्थः ।
↩