629 दिभिश्च निन्दितमनुष्ठीयेत । तस्मादपि न कालविधानमिति । मुक्तकान्यार्थदर्शनद्वयं 491पूर्वसूत्रगोचरभूतं दर्शयति । तद्यथा । आहिताग्निर्वा एष सन्निति दीक्षितस्य दानादौ निषिद्धे विध्यन्तरशेषभूतः परिवेदनसरूपार्थवादो भवति । एतावन्तं हि कालमसावग्नि होत्रादिदेवताभ्यो भागमदत्त्वा ता अनुध्यायिनीः करोति नायमस्मभ्यं ददातीत्येवं चिन्तायुक्ताः करोतीत्येतन्नियमपक्षे युज्यते । कालविधिपक्षे तु काम्यत्वादग्निहोत्रस्य यथे ष्टप्रयोगे सति नियोगतो दातव्याभावादनुध्यायिनीवचनं नोपपद्यते । तस्मादपि नियमवचनम् । एतेन जरामर्यवचनविधानं व्याख्यातम् । काम्यत्वकल्पनायामप्रयोगादपि निर्मोके सति जरामरणनिर्मोकवचनवैयर्थ्यप्रसङ्गः ॥ ४ ॥

यदेतन्मुक्तकमभिहितमेतदेव सूत्रारूढं करोति । नियमपक्षे ह्येतदेवं स्यात् । अनित्यत्वात्तु भवत्पक्षे नैवं स्यात् । अथवा यावज्जीवशब्देन काले गृह्यमाणे लक्षणादोष उक्तस्तमभ्युपेत्याभिधीयते सत्यामपि लक्षणायामनित्यत्वान्नैवं स्यात् । तन्नाम कालोपलक्षणं युक्तं यन्नित्यं कियताऽपि कालेनाविनाभूतं, यदहश्चन्द्रमा न दृश्यते ताममावास्यां विद्यादित्यादिवत् । न च सर्वप्राणभृतामेव जीवनपरिसमाप्तिर्यतः

  1. पूर्वसूत्रगोचरभूतमिति—लिङ्गदहर्शन्नाच्चेति सूत्रगोचरनित्यर्थः ।