यदेतन्मुक्तकमभिहितमेतदेव सूत्रारूढं करोति । नियमपक्षे ह्येतदेवं स्यात् । अनित्यत्वात्तु भवत्पक्षे नैवं स्यात् । अथवा यावज्जीवशब्देन काले गृह्यमाणे लक्षणादोष उक्तस्तमभ्युपेत्याभिधीयते सत्यामपि लक्षणायामनित्यत्वान्नैवं स्यात् । तन्नाम कालोपलक्षणं युक्तं यन्नित्यं कियताऽपि कालेनाविनाभूतं, यदहश्चन्द्रमा न दृश्यते ताममावास्यां विद्यादित्यादिवत् । न च सर्वप्राणभृतामेव जीवनपरिसमाप्तिर्यतः 630 कुतश्चिद्व्यस्थितस्वरूपा, यया कालो लक्ष्येत । तदेतदेवमापद्यते यदैवेदं भवति ततश्चानित्यत्वान्निमित्तमेवैतदिति सिद्धम् । कथं तर्हि नियतनिमित्तत्वान्नित्यमित्युच्यते, यावच्छरीरभावित्वाभिप्रायमेतदित्यदोषः ॥ ५ ॥