631 नियमावधारणात्कालशास्त्रं निमित्तशास्त्रं प्रत्येतव्यम् । एतेनैव पशुचातुर्मास्यादिष्वपि नैयमिकत्वसिद्धिः ॥ ७ ॥
शाखान्तराधिकरणम्
उक्तभेदकारणषट्कव्यतिरि493क्तकारणनिराकरणार्थमिदमारभ्यते । तत्रैव494 कानिचित्केनचित्प्रकारान्तरेणाऽऽशङ्कय प्रतिषिध्यन्ते । तत्तु प्रत्युदाहरणं प्रविविञ्चन्तो योजयिष्यामः । कथं पुनरत्र वेदान्तराणि नोदाह्रियन्ते । केचिदाहुः । शाखान्तरशब्देन तान्यप्युदाहृतानीति । न त्वेतद्युक्तम् । कुतः ।
यत्र हि कर्म निराकाङ्क्षमाम्नायते तत्र तद्भेदप्रतिपत्तिक्षमं भवति । यथा सर्वास्वध्वर्युशाखासु दर्शपूर्णमासज्योतिष्टोमादीनि समस्तद्रव्यदेवतादियुक्तत्वादन्योन्यानिरपेक्षाणि विधीयन्त इति भेदाशङ्कां सहन्ते न त्वेवं वेदान्तरेऽपि । तत्र हि द्रव्यदेवतारहितं कर्ममात्रं प्रस्तुत्य स्तोत्रशस्त्रयाज्यानुवाक्यादिमात्रं विधीयते । न च तावताऽस्य नैराकाङ्क्ष्यं भवति । दृष्टार्थानामेव द्रव्यदेवतातत्संस्काराणामभावात् । यत्तु तत्र द्रव्यदेवतायुक्तमाम्नायते तस्याऽऽध्वर्यवे गुणमात्रविधानात्साङ्क्षत्वम् । तथा च वक्ष्यति495‘भूयस्त्वेनोभयश्रुति’ इति । तस्माच्छाखान्तराण्येवोदाहरणम् । तत्र च नामभेदस्ताव- त्कारणं दृश्यते । तद्यथा—काठकेऽग्निहोत्रे तैत्तिरीयेऽग्निहोत्र इदं पठ्यत इत्यादि । तथा