विधित्वान्नेमपिष्टत्वमलिङ्गं विपर्ययसाधनं चेत्यत आह—यद्येतद्वचनं भवेत्ततोऽनेकार्थविध्यसंभवान्नेमपिष्टत्वं विधीयमानं चरुं वोद्दिश्य विधीयेत, सोमापौष्णं वा । तत्र य एवोद्दिष्टस्तस्यैवेतरेण विशेष्टुमशक्यत्वात्सार्वत्रिकत्वप्रतीतेः सर्वपेषणं प्राप्नोति । ततश्चान्यतरपदानर्थक्यप्रसङ्गः । तद्यदि तावद्यश्चरुः स नेमपिष्ट इति विधीयते ततः सर्वचरुविषयावधारणे सति सोमापौष्णशब्द एकदेशानुवादोऽनर्थकः स्यात् । अथ सोमापौष्णमात्रमुद्दिश्यते ततोऽपि सर्वपेषणमेव तद्देवत्यंहविर्मात्रप्रतीत्या पशुपुरोडाशयोरपि ग्रहणात् । ततश्च पूर्ववच्चरुशब्दानर्थक्यप्रसङ्गः । तं प्रति—हि सोमापौष्णमविशेषितं प्रति षेपणस्य शास्त्रवत्त्वं विशेषणार्थाभावात् । एतस्मिन्पक्षे चरावपेषणं भवति । नन्वर्थप्राप्तत्वात्पुरोडाशस्यावक्तव्यं पशोश्चार्थविप्रतिषेधादि930त्युक्तमितिचेन्न । अत्र तयोरुभयोरप्यप्रसङ्गात् । सर्वपेषणे हि प्राप्ते पुरोडाशस्यार्धपेषणं विधीयते । तावताऽपि च कथंचि887 त्पुरोडाशो निष्पद्यते । हृदयादीनामप्युत्साददेशैकदेशवर्जं पिष्यमाणानां नार्थविप्रतिषेधो भवति । न चात्यन्ताकृतिर्नश्येत् । न चोत्साददेशमोहः स्यात् । इतरोत्साददेशस्य स्पष्टत्वेन च पिष्टोऽपि सन् पूषभाग उपलक्ष्यते न सर्वपेषणवन्मुह्येत । अथवाऽस्मिन्पक्षे वाचनिकत्वाददृष्टार्थे पेषणे सत्यपिष्टादेवावदीयेत । न हि तदैतद्देवतानिमित्तं पेषणं स्यात् । तस्मात्सार्वत्रिकत्वप्रसङ्गान्न परिशेषसिद्धं चरोः पेषणमिति तच्छ्रुतिरनर्थिका प्राप्नोत्येवेति चरुदेवतासंबन्धविधिपरे वाक्ये नेमपिष्टत्वमनूद्यत इत्यवश्यमभ्युपगन्तव्यम् । अतश्च लिङ्गत्वसिद्धिः ॥ ४३ ॥

  1. ( अ॰ ३ पा॰ ३ अ॰ १४ सू॰ ३६ ) इत्यत्रेति शेषः