एकस्मिन्नेव पूषणि देवतायामेतत्पेषणं भवेन्न सद्वितीये ।

न ह्येष देवताधर्मो न तद्भागस्य गम्यते ।
पूषदेवत्ययागार्थं धर्मस्त्वेष प्रतीयते ॥

न तावद्देवताया भागोऽस्ति यस्यैष धर्मः कल्प्येत । न हि तदुद्देशत्यागमात्रेण भागो भवति । किं तर्हि । परिग्रहेण । कर्मसाधनो हि भागशब्दः । भज्यत इति भागः । सेव्यत इत्यर्थः । तेन यं यो भजते स तस्य भागः । न च हविरंशं देवता भजते । भोक्तृत्वस्य नवमे निषेधात् । अथापि भजेत्तथाऽपि तस्याः प्रयोजकत्वं तत्रैव निवारयिष्यते । तेन देवतावद्भागधर्मत्वानुपपत्तेर्यागद्वाराऽपूर्वधर्म एवायं नवमा931द्यन्यायेन देवता932धिकरणन्यायेन च विज्ञायते । भाष्यकारेण तु देवताधर्मत्वनिराकरणपरेण याग888 धर्मत्वमभिहितमिति द्रष्टव्यम् । कथं तर्हि प्रकरणान्तरे समाम्नातो यागधर्मो भविष्यतीति । वाक्यसंयोगस्य देवताविषयत्वात्प्रकरणेन च विनाऽपूर्वसाधनत्वलक्षणामुपपत्तेर्न कथंचिद्यागेनापूर्वेण वा संबन्ध इति मन्यमानस्य प्रश्नः । तत्र वाक्यसंयोगा- दित्युक्ते परेण स्वाभिप्राये विवृते भागशब्देनैव मुख्यार्थासंभवाद्यागोपादानमिति दर्शयति । परस्वस्वीकरणात्मकस्य भागरूपस्याविद्यमानत्वाद्यस्तदुद्देशेन त्यज्यमानत्वनामांऽशो विद्यते तेन यागो लक्ष्यते । स चैकदेवत्ये पूषविशिष्टो भवतीति तद्भागव्यपदेशो घटते । द्विदेवत्ये पुनर्व्यासङ्गी मिश्रः संकल्पोऽन्यतरेण व्यपदेष्टुमशक्य इति । यथैवैन्द्राग्नस्य पुरोडाशस्य ग्रहस्य चाऽऽग्नेयेन्द्रपीतशब्दाभ्यामग्रहणं तथैन्द्रापौष्णादेः पूषभागत्वेन । यद्यपि चैवंविधशब्दोच्चारणादिह समासोपालम्भो नास्ति तथाऽप्यर्थ एव भागशब्दग्राह्यो न विद्यत इत्यप्रवृत्तिः । यद्यपि च द्वयोरर्थयोर्देवतात्वं प्रतिपद्यमानयोः समुदायप्रसिद्ध्यर्थत्वेनावयवावुपयुज्येते तथाऽपि संकल्पस्यान्यतरेणाव्यपदेशादनुपलक्षणत्वं सिद्धम् ॥ ४४ ॥

  1. ( अ॰ ९ पा॰ १ अ॰ १ )
  2. ( अ॰ ९ पा॰ १ अ॰ ४)