365 लिङ्गानां लक्षणमित्युदाहरणभेदः स्वार्थापरित्यागाच्चोभयत्र लक्षणस्यापि ग्रहणमुपादीयमानत्वादिति ।

आह च—

यत्र लक्षणमुद्दिश्य लक्ष्ये कार्यं नियुज्यते ।
तन्मात्रग्रहणं तस्मिन्नुपादाने द्वयोरपि ॥ २३ ॥
इति तत्सिद्धिपेटिका ॥ १२ ॥

अक्ताधिकरणम्

विधिस्तुत्योः सदा वृत्तिः समानविषयेष्यते ।
तस्मादेकत्र संदिग्धमितरेणावधार्यते ॥

किं पुनरत्र संदेहकारणं, विधौ सामान्यग्रहणमिति केचित् । तदयुक्तम् । तत्र तावन्मात्रनिर्णयात् । स्यादेतत् । कथं निर्विशेषं सामान्यं संभवतीति, घृतवदिति वदामः । तत्रापि च नवपुराणगव्यमाहिषादिसंदेहस्तदवस्थः । तेन यथाऽत्र घृतमात्रनिर्णयादसंदेहो विशेषानभिधानेऽपि सर्वैः कार्यसिद्धिरेवमिहापि स्नेहनसमर्थद्रव्यमात्रग्रहणादसंदेहः । तस्मादर्थवादे घृतश्रवणात्संशय इत्यपरे । तथाऽपि न युक्तः, विशेषप्रतिपत्त्या निर्णीतत्वात् । न हि गौरानीयतां शुक्ल इत्यत्र कैश्चित्संदिह्यते । विषम उपन्यासः ।