अक्ताधिकरणम्

विधिस्तुत्योः सदा वृत्तिः समानविषयेष्यते ।
तस्मादेकत्र संदिग्धमितरेणावधार्यते ॥

किं पुनरत्र संदेहकारणं, विधौ सामान्यग्रहणमिति केचित् । तदयुक्तम् । तत्र तावन्मात्रनिर्णयात् । स्यादेतत् । कथं निर्विशेषं सामान्यं संभवतीति, घृतवदिति वदामः । तत्रापि च नवपुराणगव्यमाहिषादिसंदेहस्तदवस्थः । तेन यथाऽत्र घृतमात्रनिर्णयादसंदेहो विशेषानभिधानेऽपि सर्वैः कार्यसिद्धिरेवमिहापि स्नेहनसमर्थद्रव्यमात्रग्रहणादसंदेहः । तस्मादर्थवादे घृतश्रवणात्संशय इत्यपरे । तथाऽपि न युक्तः, विशेषप्रतिपत्त्या निर्णीतत्वात् । न हि गौरानीयतां शुक्ल इत्यत्र कैश्चित्संदिह्यते । विषम उपन्यासः ।

366 कथम्—

विधौ यदि विशेषः स्यात्संदेहः कस्य वा भवेत् ।
स्तुतिस्थे त्वितरस्यांपि तुल्यैवैषा विचारणा ॥

यदि ह्येवं भवेत् ‘अक्ताः शर्करा उपदधाति’ घृतेनेति । ततो नैव किंचिद्विचार्येत । अथ त्वञ्जनवाक्यवदिहाप्येवं श्रूयेत गामानय शुक्लः प्रशस्त इति ततोऽस्त्येव संदेहकारणमित्येतदप्युदाहरणमेव स्यात् । अतोऽन्यत्र सामान्यमन्यत्र च विशेष इत्येतस्मात्संदेहः । केचिच्च संशयदर्शनादेव विधिस्तुत्योर्वाक्यान्तरत्वमाचक्षते ।

यदि ह्येकं भवेद्वाक्यं विशेषे तत्समाप्यते ।
विशेषावगमात्तत्र न संदेहः प्रसज्यते ॥

वाक्यभेदे पुनरेकं सामान्ये परिसमाप्तमन्यद्विशेषपरमिति युक्तः संदेहः । यत्तु ‘विधिना त्वेकवाक्यत्वात्’166 इति तदङ्गप्रधानवाक्यानामिव पश्चात्संबन्धसद्भावाभिप्रायेण । तथा हि—

स्वार्थबोधे समाप्तानामङ्गाङिगत्वाद्यपेक्षया ।
वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते ॥

न त्वेतद्युक्तमिव, ये हि पदसंघाताः कर्मौपयिकेष्वर्थेषु पर्यवस्यन्ति तेषां नानावाक्यत्वं युक्तम् । न त्वर्थवादानामेकवाक्यत्वात्प्राक्प्रयोजनलाभ इति प्रथममेवैकवाक्यता । दुर्लभतरश्च संदेहः स्यादन्योन्यनिरपेक्षयोः सामान्यविशेषयोरितरत्रेतरत्र च पर्यवसानात् । यदेव हि यत्रोपात्तं तदेव तत्रासंदिग्धं गृह्यते सामान्यसमाप्तश्चात्र विधिः पश्चाद्विशेषः स्यात् । मन्त्रवर्णवदिति चेत्, एवमपि 167तदधिकरणविषयत्वात्पौनरुक्त्यप्रसङ्गः । तस्मादेकवाक्यतायामेवोपक्रमोपसंहारयोः सामान्यविशेषविषयत्वेन विप्रतिपत्तेरवश्यंभाव्येकगोचरत्वाच्च किमधीना कस्य प्रवृत्तिरिति जायते संदेहः । कस्य सामञ्जस्यमिति—यच्छ्रुतिवृत्तं तत्समञ्जसं न लक्षणावृत्तम् । तत्र च—

स्तुतीनां विध्यधीनत्वादनुवादाच्च लक्षणा ।
मुख्यत्वात्तु विधेर्नासावविरोधाच्च कल्प्यते ॥

367 विधीयमानं हि स्तोतव्यं न तु स्तुत्यं विधेयमप्राप्तार्थश्च विधिरिति न श्रौतार्थात् प्रच्यवते । यद्यपि तावदर्थवादोपक्रमत्वं भवेत्ततः प्रथमज्ञानानुरोधेन कदाचिद्विधिर्वशीक्रियेत विध्युपक्रमं त्विदं ‘अक्ताः शर्कराः’ इति । तस्मान्निर्दिष्टसामान्ये यद्यर्थवादो न तादर्थ्यं प्रतिपद्यते ततोऽनर्थको भवतीत्यशक्तः स्वतन्त्रीभवितुं, विनाऽपि चार्थवादेन विध्युद्देशः समर्थत्वान्न युक्तस्तद्वश्यः कर्तुम्, अर्थवादस्त्वगतित्वाद्विधिवशेन वर्तते विशेषश्च सामान्यमव्यभिचाराच्छक्नोति लक्षयितुं, न सामान्यं व्यभिचाराद्विशेषं तस्माद्घृतशब्दः स्नेहमात्रलक्षणार्थः ।

कामं वा सोऽर्थवादोऽस्तु सामान्यस्थो घृते विधिः ।
विना स्तुत्या विधानं तु स्नेहद्रव्यान्तरे भवेत् ॥

यथा ऐन्द्रेणापि मन्त्रेण सोमो गृह्यमाणो न केवलं तदर्थो भविष्यत्यन्यदेवत्यस्यामन्त्रग्रहणोपपत्तेरेवमनर्थवादकं तैलवसयोर्विधानं, यत्रैव चांशे स्तुतिर्दृश्यते तत्र विध्युद्देशस्य प्ररोचनाशक्तिरपगच्छति, अन्यत्र त्वविहतशक्तिना विधानमिति सर्वस्नेहग्रहणम् । उच्यते—

समाप्यते विधिः कश्चित्कदाचिन्नाप्ररोचितः ।
घृते प्ररोचनां दृष्टवा विधिस्तत्रानुमीयते ॥

यद्यपि तावद्विधिप्रक्रमे तैलवसयोरप्युपादानं, तथाऽपि प्ररोचनातो विधिर्घृते दृश्यते नेतरयोरित्यनुपादातव्ये कल्पयितव्या च तद्विषया विधेः प्ररोचनाशक्तिः कॢप्ता च घृते । तस्यां च सत्यां काल्पनिकी वाक्यं भिनत्ति घृते च कॢप्तां गृह्णन्नितरत्र च कल्पयन् वैरूप्येणापि विधिर्भिद्येत । तस्माद्विध्युद्देशोऽपि तैलादिभ्योऽपनीयते । यद्यपि च सामान्यशब्दः स्यात्तथाऽपि न कश्चिद्विशेषः । तत्र सामान्यान्यथानुपपत्त्या यत्र क्वचनानुश्रुते विशेषेऽपेक्षिते वाक्यशेषाद् घृत एव प्रत्ययो भवति, घृते च शब्दार्थे यदि श्रुत्यनुरोधेनात्यन्ताश्रुततैलादित्यागः क्रियते किं विरुध्यते संदेहमात्रं हि तत्र बाधितं न तु प्रमाणं किंचित् । क्रियामात्रमेव चेह चोदितं द्रव्यं तत्र न यावत्किंचित् द्रव्यमा368 क्षिप्येत यदि कश्चिदपि श्रुतिलेशो न स्यात् । घृतार्थवाददर्शनात्त्ववश्यकर्तव्यायामश्रुतद्रव्यविधिकल्पनायां नान्यत्र प्रमाणमस्तीत्यङ्गीकृत्य घृताञ्जनविधिर्गम्यते । तत्र भ्रान्त्युत्पन्नतैलाद्याकाङ्क्षा निर्मूलत्वाद्बाध्यमाना न दुष्येतेत्यविरोधः, तैलादिग्रहणे च लक्षणात्रयं स्यात् । क्रियया द्रवद्रव्येण च विशेषो घृतशब्देन च सामान्यं लक्षयितव्यम् । तस्माद्घृतग्रहणं प्रमाणमिति सिद्धम् । 168वृत्त्यन्तरे त्वत्रैव मन्त्रवर्णोऽप्युदात्दृतः । तत्र तु घृतेन किं करिष्यत इति वक्तव्यम् ॥ २४ ॥

  1. जै॰ सू॰ ( १-२-१ )
  2. ( अ॰ ६ पा॰ ८ अ॰ १० सू॰ ३० )
  3. अस्मिन्नधिकरणे वृत्त्यन्तरोदाहृतमन्त्रवर्णोपेक्षणे भाष्यकृतोऽभिप्रायमाह—वृत्यन्तरे त्विति । भिन्नवाक्यतयाऽवगतप्रमाणभावानां मन्त्राणामप्यत्रैव संदिग्धार्थनिर्णायकत्वे व्यवस्थापिते षष्ठान्त्ये पशुच्छागाधिकरणे निर्णेयार्थाभावेन तदधिकरणमनर्थकमापद्येतेति भावः ।