सामर्थ्याधिकरणम्

अथ यत्रेति संदिग्धे वाक्यशेषो न विद्यते ।
तत्र सामर्थ्यसिद्धेन विध्यंशेनैव निर्णयः ॥

देवताप्रसादाभयप्रार्थनादौ संहतहस्तसंयोगमात्रमञ्जलिः, ‘नाञ्जलिना वारि पिबेत्’ इत्यादौ व्याकोशः । सक्तुहोमचोदनायां शब्दात्संदेहे सत्यसति चाऽऽकोशस्य वाक्यशेषेऽन्यथानुपपत्तेरेवाऽऽकोशाश्रयणम् । नन्वनेनैव न्यायेन यथा शक्नुयादिति वाक्यशेषादन्धादीनामाज्यावेक्षणादिरहितः कर्माधिकारः स्यात् । न । असंदेहात्, संदिग्धनिर्णयार्थात्त्वेवं कल्पना भवति । न चाधिकारे संदेहः समस्तधर्मोपेतं यथा शक्नुयात्तथा कुर्यादिति वाक्यशेषात् । सन्ति च तादृशस्य कर्तारश्चक्षुष्मदादय इति न प्रयोगचोदनान्यथानुपपत्तिः । यत्र तु यावज्जीवचोदनादावेवं भविष्यति तत्र शक्तिकृताङ्गत्यागेऽपि 369 सत्यवैगुण्यं प्रधानस्य चोदितमित्याश्रयिष्यामह एव । तस्माद्यावदेव लब्धात्मको विधिस्तावद्यत् कल्पते तद्वैदिकं, सिद्धे तु तत्कल्पनं पौरुषेयत्वादप्रमाणं सामर्थ्याधीनत्वाद्वाक्यशेषसिद्धेः । आह च—

यथैव पाठः प्रतिपत्त्युपायस्तथैव सामर्थ्यमपि श्रुतीनाम् ।
तेनैव चैता न समामनन्ति सहस्रभागास्तु समामनेयुः ॥
इति कृतबहुमार्गं मन्त्रविध्यर्थवादैः स्मृतिपरिखमुदारं वेदशालोपगूढम् ।
अनभिभवसमर्थं धर्मदुर्गं प्रविश्य प्रविभजति समस्तामर्थचिन्तामिदानीम् ॥ २५ ॥