160 तद्ग्रन्थसमर्पितानि प्रमाणाप्रमाणविचारविषयत्वेनोदाह्रियन्ते । संदेहहेतुश्चाभिधीयते ।

पारतन्त्र्यात्स्वतो नैषां प्रमाणत्वावधारणा ।
अप्रामाण्यविकल्पस्तु द्रढिम्नैव विहन्यते ॥

मन्वादिवचनं स्मृत्यपेक्षं स्मृतिश्च मूलप्रमाणापेक्षिणीति नैकस्यापि वेदवन्निरपेक्षप्रामाण्यनिश्चयः । यतस्तु वेदवादिनामेवाविभागेनाविच्छिन्नपारम्पर्यपरिग्रहादार्ढ्यमतो नाप्रामाण्याध्यवसानमिति युक्तः संदेहः । तत्र पूर्वपक्षवादी वदति नैषां प्रामाण्यमेवापेक्षितव्यमिति । कुतः ।

पूर्वविज्ञानविषयं विज्ञानं स्मृतिरुच्यते ।
पूर्वज्ञानाद्विना तस्याः प्रामाण्यं नावधार्यते ।

सर्वस्मरणानि हि प्रत्यक्षाद्यवगतेऽर्थे तदानुरूप्येणोपजायमानान्यर्थं समर्थयन्ति । तदिहाष्टकादीनां स्वर्गादिसाध्यसाधनभावं प्रत्यक्षादीनि तावन्न गृह्णन्तीति साधितम् । शब्दोऽपि यथाऽग्निहोत्रादिषु प्रत्यक्षेणोपलभ्यते नैवं मन्त्राः ।

प्रत्यक्षानुपलब्धे न शब्दे सद्भावकल्पना ।
धर्मास्तित्वप्रमाणाद्धि विप्रकृष्टतरा भवेत् ॥

शब्दस्य तावदेकमेव प्रत्यक्षं प्रमाणम् । स चेत्तेनानवगम्यमानोऽप्यम्तीत्युच्यते ततो वरं धर्मास्तित्वमेव निष्प्रमाणकमभ्युपगतमिति ।

न वाऽऽनुमानमप्यस्मिन्नष्टकाश्रुतिकल्पने ।
न हि स्मृतिस्तया व्याप्ता दृष्टाऽन्यद्वाऽनुमापकम् ॥

यथैव धर्मे संबन्धादर्शनान्न किंचिल्लिङ्गं क्रमते तथाऽष्टकादिश्रुतावपि ।

न वाऽऽगमेन तद्बोधो नित्येन कृतकेन वा ।
विस्रम्भः कृतके नास्ति नित्यो नैवोपपद्यते ॥

यद्यप्यैन्द्रियकत्वादष्टकादिस्मृतीनां पौरुषेयागमगम्यत्वं संभवति । तथाऽपि विप्रलम्भभूयिष्ठत्वादश्रद्धेयवचनेषु पुरुषेष्वनध्यवसानम् । दृश्यन्ते ह्यनागमिकानप्यर्थानागमिकत्वाध्यारोपेण केचिदद्यत्वेऽप्यभिदधानाः । तेन मन्वादिभिरपि किमष्टकाश्रुतीरुपलभ्य वेदमूलत्वं स्वनिबन्धनानां प्रतिज्ञातमुतानुपलभ्यैव श्रद्धेयवाक्यत्वार्थमिति दुष्टपुरुषाकुलितचेतसां भवति संदेहः । तावता च प्रामाण्यविघातः । नित्यस्य वचनस्याऽऽदिमत्स्मरणमूलप्रतिपादने व्यापार एव नास्ति । न च मन्त्रलिङ्गानि स्वयं मूलत्वं प्रतिपद्यन्ते ।