पूर्वोक्तैरेव हेतुभिर्ज्योतिष्टोमस्य गुणविधिरयं न कर्मान्तरम् । एकस्यैव हि तेन लिङ्गेन रथंतरसामत्वेन बृहत्सामत्वेन च ग्रहाग्रताविधिप्रयोजनार्थमुच्चारणं क्रियते । गुणवाक्यत्वाच्चाकर्मान्तरप्रत्यये सत्येकत्वं विज्ञायते । अथ वा 576 रथंतरादिविधानाज्ज्योतिष्टोमस्य गुणवाक्यैरेवमात्मकत्वं चोदितमिति नार्थान्तरत्वं प्रतीयते । ततश्च कर्मैकत्वम् । यत्तु विशेषणाभावात्सामान्तरसापेक्षविशेषणत्वाद्वा रथंतरसामेति समासो नावकल्पत इति । तत्र ब्रूमः ।

इष्यते पाक्षिकं वस्तु सत्तयैव विशेषणम् ।
विग्रहे यद्विशेष्यत्वं तस्य चेह निमित्तता ॥

यदि हि रथंतरं नित्यं ज्योतिष्टोमेऽन्यसहितं वा स्यात्ततो न व्यवच्छिन्द्यादपि, यतस्त्वरथंतरोऽपि ज्योतिष्टोमप्रयोगोऽस्त्येव ततस्तद्व्यवच्छेदमुखेनास्ति विशेषणफलम् । यदि चैवकारं विना विशेषणबुद्धिर्न भवति तत एवमसौ दर्शयितव्यो यदि रथंतरं सामास्यास्त्येवेति । बहुव्रीहेश्च मत्वर्थवर्तित्वान्मतुपश्चास्तित्वयोगविषयत्वान्नैवकारस्याश्रुतसत्तासंबन्धकल्पना । यद्वा यदि रथंतरं सामैवास्य भवतीति । तत्र कोऽर्थ एवशब्दस्य । तद्धि रथंतरं यद्यपि सर्वदा साम तथाऽपि यदा क्रतौ न भवति तदा तं प्रति सामकार्यासत्त्वादसामैवेति । सत्तापक्षे रथंतरं सामेति वक्ष्यते । अवश्यं च क्रत्वपेक्षमेवैतत्सामत्वं वक्तव्यम् । रथंतरस्वरूपे सामत्वस्य नित्यं पौनरुक्त्यात् । न च रथंतरस्य सापेक्षत्वं ज्योतिष्टोमे, येन समासो न स्यात् । द्वंद्वनिर्दिष्टेषु ह्येकस्तोत्रविषयेषु चैतद्भवति । केवलेषु तु भिन्नस्तोत्रविषयसाधनेषु प्रत्येकनिरपेक्षमेव साधनत्वमिति सामर्थ्यं न विहन्यते । यद्वा पौनरुक्त्यादेव सामशब्दस्तत्साध्यस्तोत्रलक्षणार्थः सन् रथंतरपर्युपस्थापितं पृष्ठं लक्षयति । अथवा बृहद्रथंतरयोरवान्तरप्रकरणादवान्तरकार्ययोगाच्च विरोधिनोः स्पर्धमानयोर्यथाऽवस्थितानुवादसारूप्यात्सामान्तराण्यनपेक्ष्य परस्परावच्छेदेनैव विशेषणत्वसिद्धिः । तेनोपपन्नं रथंतरविशिष्टस्य क्रतोर्निमित्तत्वम् । अथवाऽस्तु रथंतरं क्रतुविशिष्टं निमित्तमिति । ननु च तदेव न प्रतीयते । उच्यते । सत्यं न प्रतीयते किं तु यदा समस्तक्रतुसंयोगाभावाद्रथंतरविशिष्टः क्रुतुर्न गृहीतस्तदा विगृह्यमाणे समासे यो विपरीतो विशेषणविशेष्यभावः प्रतीयते रथंतरमस्य सामेति स ग्रहीष्यते ।

577 षष्ठ्यन्तत्वाच्च क्रतुर्विशेषणमेव समासाभिव्यङ्ग्यविशेष्यत्वभावात्तथा विवक्षिष्यते । यद्यपि च क्रत्वन्तरेष्वपि वस्तुस्वरूपेण रथंतरमस्ति तथाऽप्यत्र तावद्विद्यते तावन्मात्रेण च विशेषणत्वोपपत्तिः । स्ववाक्ये चासाधारणत्वं विशेषणकारणं न वस्तुलक्षणं मा भून्नीलमुत्पलं देवदत्तस्य गौरित्येवमादीनां विशेषणत्वोच्छेदः । तथा हि ।

न लोके देवदत्तस्य गोसंबन्धोऽस्ति केवलम् ।
उत्पलस्य च नीलत्वं तस्यैवोच्येत येन तत् ।

यदि च वस्तुत एवासाधारणत्वं भवेन्नैव शब्देन विशेषणमुपादीयेत । न ह्यत्र विशेषणफलमस्ति अग्निरुष्ण इति । तस्मादवश्यं वाक्यगतमेवासाधारणत्वमाश्रयितव्यम् । अस्ति चात्रापि तत्, ज्योतिष्टोमगतस्यैव रथंतरस्य निमित्तत्वेनेष्टत्वात् । प्रथमतरप्रतीतं च रथंतरं निमित्तत्वेनोत्सृज्य न निमित्तान्तरकल्पनायां प्रमाणं विद्यते । तस्मादुभयथाप्यदोषान्निमित्तमिति न यदिशब्दपरित्यागादीनामाश्रयणं युक्तम् । न च कामप्रवेदनहेतुमत्प्रतीतिस्तावद्भवति यावन्निमित्तत्वमेव न प्रतीतम् । तत्संभवे च नाप्रतीतग्रहणं युक्तमू । भूतभविष्यद्वर्तमानानां चानियमेन लोके वेदे च निमित्तत्वं दृष्टमिति रथंतरभविष्यत्वमचोद्यम् । 418अपि च यदेकान्तेनावधारितं तन्निष्पन्नमेव । ज्योतिष्टोमप्रक्रमे चावधारितमेकान्तेन रथंतरं प्रयोज्येत इति सर्ववैकल्पिकानां क्रतुप्रक्रमएवावधारणादवश्यमृत्विग्यजमानैरेवमिदं कर्तव्यमित्यवधार्य प्रवर्तितव्यम् । तद्वशेन प्रयोगकौशलाभ्यासादिसिद्धेः । न च निमित्तं नैमित्तिकस्य रूपसंनिधानेनोपकरोति । कथं तर्हि । ज्ञायमानत्वेन । तस्मादप्रयुक्तमपि संकल्पितत्वाद्रथंतरं निमित्तम् । यदा त्वेकदेशस्थेनापि तेन विशेषितः क्रतुर्निमित्तं तदाऽसौ वर्तत एवेत्यविरोधः । न च लिङः कालविशेषसंबन्धेनोत्पत्तिर्येनान्यतरविषयमेव निमित्तं ब्रूयात् । सर्वथा हि शक्यं 578 दर्शयितुं यदि रथंतरसामा सोमो भूतो भवति भविष्यति चेति । तत्रेहार्थवशेनैवं विज्ञायते यदि रथंतरं भविष्यतीति ।

यत्तु जगत्साम सामान्यतो दृष्टमुक्तं, तदयुक्तम् । तस्यैवंजातीयकेष्वप्रमाणत्वात् । अथ वा प्रकरणे द्वित्वबहुत्वयुक्तप्रतिपद्विधानादिव419 जगत्सामत्वासंभवात्तदिति वैषम्यम्, अपि च तत्रापि नैवापूर्वकर्मोत्पत्तिः, किं तर्हि, अप्रकृतस्य विषुवतो420 निमित्तत्वेन ग्रहणम् । तस्मान्निमित्तार्थानि सर्वाणि श्रवणानीति ॥ २ ॥

  1. यदि तु निष्पन्नेन्नैव मिमित्तेन भाव्यमित्याग्रहस्ततः संकल्पितत्वेन, अननुष्ठितस्यापि भोजनस्य संमार्जनादाविव निमित्तत्वोपपत्तोरित्युपपादयति—अपि चेत्यादिना ।

  2. प्रतिपद्विधानादिवेति—'युवं हि स्थः स्वर्पती इति द्वयोर्यजमानयोः प्रतिपदं कुर्यात्’ ‘एते असृग्रमिन्दव इति बहुभ्यो यजमानेभ्यः’ इति वाक्याभ्यां द्विबहुयजमानकत्वे निमित्ते स्तोत्रीयाद्यर्ग्रूपप्रतिपत्कार्योद्देशेन विहितयोर्मन्त्रयोर्नियतैकयजमानके ज्योतिष्टोमे निवेशासंभवाद्यथा कुलायाहीनादावुत्कर्षस्तद्वदिहेति दृष्ठान्तार्थः ।

  3. विषुवत इति । एकषष्टयधिकशतत्रयसुत्यात्मके गवाभयने, अशीतिशतं पूर्वं पक्षः अशीतिशतमुत्तरं पक्षः, मध्यतनं विषुवत्संज्ञकमहः । तस्मिंश्च विषुवति पृष्ठस्तोत्रे, ‘विभ्राट् बृहत्पिबतु’, इति जगतीच्छन्दस्कायांमृचि महादिवाकीर्त्यं सामोत्पन्नम् । अतस्तस्यैव जगत्सामत्वेन शुक्राग्रत्वमिति ।