तत्र पक्षान्तरमाह—अविभागात्तु कर्मणो द्विरुक्तेन विधीयत इति । युक्तं समिदादिषु प्रत्यक्षयागपुनःश्रुतेर्भेदकत्वमिह तु द्रव्यदेवतासंबन्धादसावनुमातव्यः । तच्च द्रव्यदेवतमभिन्नमुपलभ्यमानं पूर्वसंबन्धानुभववशादेकान्तेन तमेव यागं बोधयति । द्रव्यदेवतमप्यन्यदिति चेन्न । अविभागप्रत्ययोपलम्भात् । यदि तु व्यक्तिकृतो भेद आश्रीयते स प्रयोगान्तरे तस्याप्याग्नेयस्याविशिष्टः । तस्माद्वैकल्पिकेन वचनद्वयेनामावास्यायामाग्नेयविधानम् । अथवा युगपत्प्रवृत्तेः 483‘यथा स्यात्सत्त्वदर्शनम्’ इत्यनेन न्यायेन तदेव कर्म, एकेनेतरेण च प्रतिपाद्यते । न च गम्यते विशेषः कतरेण प्रतिपाद्यते कतरत्पौनरुक्त्यादनर्थकमिति । कामं भवत्वानर्थक्यं, तदेव हि युक्त्याऽन्विष्यमाणमिहोपपन्नतरं 622 भवेन्नार्थान्तरवचनत्वं, शब्दार्थानित्यत्वप्रसङ्गात् । तस्मात्सकृदेव प्रयोग इति । सर्वं त्विदमभ्यासाधिकरणे निराकृतमपि सदुत्तरसूत्रदर्पेण विश्रब्धमभिधीयते न तु परमार्थेनाऽऽनर्थक्याभ्युपगमं वेदः क्षमते ॥ २८ ॥

  1. ( अ॰ ६ पा॰ २ अ॰ १ सू॰ २ ) ।