388 नोपकर्तुम् । न हि नामार्थस्तमपेक्षते शब्दप्रयोगवेलायामेव निष्पन्नतया गम्यमानत्वादपेक्षणीयस्य वा सिद्धत्वेनायोग्यत्वत्प्रयुज्यतेऽस्मिन्निति चाभिधेय एव प्रयोगः । तदाधारैव हि निष्पन्नरूपोपलब्धिरनुत्पन्नत्वे क्रियारूपस्य वक्तव्ये विनाशित्वप्रदर्शनं निष्पन्नस्यापि क्षणिकत्वेन पुनः पुनर्निष्पत्त्यपेक्षोपपत्तेः । तेभ्यः पराकाङ्क्षा—अन्याकाङ्क्षा, निष्पाद्यत्वेन वा प्रधानाकाङ्क्षा182 न विद्यत इत्यध्याहारः । अथ वा तेभ्यः परा—दूरे, आकाङ्क्षेत्यर्थः । कुतः, भूतत्वादेवेति । स्वरूपकथनार्थमुपन्यस्तं निष्पन्नत्वादेवेति । पुनरन्ते तदेव हेतुत्वेनोद्दिष्टं सूत्रकारेण ॥ ३ ॥

आख्यातवर्ती धात्वर्थः साध्यरूपः प्रतीयते ।
तस्मिन्फलवतीष्टे तु नाम्नो दृष्टार्थतेष्यते ॥

धात्वर्थस्तावत्प्रकृत्यैव साध्यात्मको विशेषतस्त्वाख्यातगतेन धातुनोच्यमानः । स यदि फलसाधनत्वेन चोद्यते ततोऽसिद्धरूपत्वात्तस्य साधनाकाङ्क्षौ यां सत्यां नामपदं गुणविधित्वेन नामधेयत्वेन वोभयथाऽपि दृष्टेनैव तादर्थ्यं लभते । ननु नामधेयपक्षे नामपदमपि साध्यार्थं भविष्यतीति धातुतुल्यं स्यात् । न । तस्य फलसंबन्धे गुणविधित्वेन सिद्धार्थत्वात् । अपि च—

  1. निष्पाद्यत्वेन प्रधानस्य सतो या साधनाकाङ्क्षा सा न विद्यते निष्पाद्यत्वाभावादित्यर्थः ।