386 योग्येति विधीयते । तद्विधानाच्चार्थापत्त्या यागादिविधानमित्युपपन्नं भावार्थसूत्रम् । भवन्ति केचित्कर्मशब्दा यागो यजनमिज्येत्युदाहर्तव्ये तत्सामानाधिकरण्यसिद्धश्येनैकत्रिकाद्युदाहरणं यागादिकरणत्वचोदनोत्तरकालभाविकर्मशब्दत्वेन पारतन्त्र्यात्सुज्ञानम् । स्वतन्त्राणां कथंचिदपि भावार्थत्वाशङ्कासंभवात् । यागादयो हि स्वातन्त्र्येणापि कदा चिदनुमानाद्भावार्थाशङ्काविषयाः स्युरिति । के चिद्भावार्था न कर्मशब्दा यथा भावयेत्कुर्यादिति चोदाहरणं भूत्यादयस्तु प्रयोज्यव्यापारवचनत्वान्नैव यथावर्णितभावार्था इत्यनुदाहरणम् । तत्र यथाकथंचिण्णिजन्तव्युत्पत्त्या भावशब्द एको नीयेत नेतरौ । तावपि तु प्रयोज्यव्यापारांशेन कथंचिदौभावार्थावित्युदाहृतौ । अथ वा द्वितीयसूत्रार्थव्याख्यानेन भावनाप्रयोजनत्वमंशवाचित्वेनास्तीति विनाऽपि सकलार्थाभिधानाद्भवन्ति भावार्थाः । कथं पुनरमी न कर्मशब्दा यदा धातुमात्रं कर्मशब्दत्वेनोक्तं, निर्विशेषस्य सामान्यस्यानुष्ठातुमशक्यत्वादकर्मशब्दत्वम् । अतो विशेषवाचिनामेव धातूनां कर्मशब्दत्वग्रहणादचोद्यमेतत् । यदि हि श्येनचित्रादर्शपौर्णमासशब्दाः फलैः संबध्येरंस्ततो यागकरणत्वाभावात्तत्सामानाधिकरण्यनिमित्तनामधेयत्वानुपपत्तेः प्रसिद्ध्यादिभिर्गुणविधित्वमेव स्यादतः स्थित एतस्मिन्नधिकरणे इत्याह । कस्मात्पुनरिदं तत्रैव न नीतं प्रमाणलक्षणेनासंबन्धात् । अथ नामधेयत्वं कस्मादत्र नाऽऽनीयते भेदलक्षणेनासंबन्धात् । तस्माद्यथान्यासमेव स्थितयोरर्थात्पौर्वापर्यसिद्धिः । न चैषामर्थिनेतिफलपदाभिप्रायम् । विविभक्तित्वादिति । संबन्धनिमित्ताख्यातविभक्तिविगमादथ वा निष्पन्नार्थाभिधायिसुब्विभक्तिविशेषयोगो विविभक्तित्वम् । तस्मान्न द्रव्यादिशब्दानां फलसंबन्ध इति । आह च—