371 मित्येवं समस्तमध्यायं प्रमाणलक्षणमाचक्षते । तन्न प्रस्मर्तव्यमिति । अविस्मृतप्रामाण्यो हि भेदादिप्रतिपादनम् 169अविशेषादनर्थकं हि स्यात् इति क्रियमाणं सहते । अन्यथा ह्यनर्थकं नामेत्येव प्रत्यवतिष्ठेत । ननु प्रधानाप्रधानचिन्ता तृतीयचतुर्थयोर्विषयः कथमत्रोपन्यस्यते । के चिदाहुः । इह द्रव्यकर्मणोरुत्तरत्र तु कर्मणामेव गुणप्रधानत्वविचारादपौनरुक्त्यमिति । तदयुक्तम् । 170‘द्रव्यगुणसंस्कारेषु’ इत्यत्र सर्वाभिधानात् । तेनैवं वाच्यम्—

लक्षणार्थोऽत्र तत्त्वेन भेदः शब्देतरादिभिः ।
तमन्वपूर्वभेदोऽपि प्राधान्यं तत्प्रसिद्धये ॥

कर्मभेदस्तावदौत्सर्गिको लक्षणार्थस्तदपवादत्वेनाभेदः । तदनुनिष्पादिनौ त्वपूर्वभेदाभेदौ । तत्र प्रतिकर्मभेदमपूर्वभेदप्रसक्तौ तृतीयसिद्धः प्रधानाप्रधानविचारः पुनरपवादत्वेनाऽऽरप्स्यते । सत्यप्यवहन्त्यादीनां शब्दान्तरादिभिर्भेदे कर्माकाङ्क्षितदृष्टप्रयोजनपर्यवसानान्न क्रियाजन्यापूर्वान्तरोत्पत्तिः । यत्तु नियमापूर्वं तत्क्रियाकृतं न भवतीति न तया व्यपदिश्यते । तेन यत्रैव द्रव्यादीनि प्रति क्रियाणां प्रधानत्वं तत्रैव तद्भेदनिमित्तापूर्वभेदसिद्धिः । अस्य च विवेकार्थं यद्गुणप्रधानलक्षणं वक्ष्यते तदपवादार्थं धर्ममात्रे तु ‘स्तुतशस्त्रयोः’ इति चाधिकरणद्वयं171 प्रस्तोष्यते । ततश्चाऽऽख्यातद्वैविध्ये विचारिते प्रसङ्गात्तृतीयं प्रकारमभिधायकत्वं प्रतिपादयितुं मन्त्रप्रस्तावः, तल्लक्षणादीनि तु प्रसक्तानुप्रसक्तेन यावत्पादसमाप्ति । ततः शब्दान्तराभ्यासाभ्यां भेदमुक्त्वा पौर्णमास्यधिकरणेनाभ्यासापवादः करिष्यते समुदायानुवादत्वात् । ततस्तदपवादार्थमुपांशुयाजाघाराग्निहोत्रपशुसोमाधिकरणानि । ततः संख्यासंज्ञागुणैर्भेदः । तावच्च गुणगतो विचारो यावत्प्रकरणान्तराधिकरणम् । ततस्तन्न्यायानुवृत्तिराशाखान्तराधिकरणात् । तत्र च षट्कातिरिक्तभेदकारणव्युदासः संज्ञाभ्यासगुणप्रक्रियाणां चाऽऽशङ्कानिवृत्तिरित्येतावान् भेदलक्षणार्थः । एष एव चार्थोऽवश्यं वक्तव्योङ्गाङ्गित्वाद्यवधारणार्थम् । न चान्यस्येदानीमवसरोऽस्तीत्यमेवाध्यायसंबन्धः । कुतः—

शेषशेष्यादयः सर्वे कर्मभेदनिबन्धनाः ।
कार्ये ज्ञातेऽधिकारः स्यादुपदेशेऽतिदेशधीः ॥

  1. ( अ॰ २ पा॰ २ अ॰ २ सू॰ २ ) ।
  2. ( अ॰ ३ पा॰ १ अ॰ ३ सू॰ ३ ) ।
  3. द्व्यन्तरितं त्र्यन्तरितं चाधिकरणद्वयमित्यर्थः ।