शब्दान्तराधिकरणम्

461
उपोद्घातप्रसक्तानुप्रसक्तादौ गतेऽधुना ।
शब्दान्तरादिभिर्भेदो लक्षणार्थोऽभिधीयते ॥

तत्र शब्दान्तरं तावत्स्पष्टत्वात्प्रथममुदाह्रियते । एकानेकाख्यातप्रत्ययसंबद्धाः सर्वे धातवो यजति ददाति जुहोति निर्वपति गृह्णाति स्तृणाति शंसति स्तौति इत्येवमादय उदाहरणम् । भाष्यकारेण तु स्वत्वपरित्यागांशेन यजत्यादित्रयं प्रत्यासन्नार्थत्वात्सुतरामभिन्नमाभासत इत्युदाहृतम् । तत्र पूर्वपक्षत्रैविध्यदर्शनात्सशंयोपन्यासोऽपि तदनुगुणः प्रतिभाति । तद्यथा तिस्त्रो भावनाः किमेकमपूर्वं कुर्वन्त्युत त्रीणीति, तथा त्रयो धात्वर्थाः किमेकां भावनां विशिंषन्त्युत तिस्त्रः, तथा त्रयो धातवः किमेकं धात्वर्थं वदन्त्युत त्रीनिति । कार्यशब्दश्चापूर्वभावनाधात्वर्थेषु उपकार्यत्वाविशेषेण प्रयुज्यते । भावनाधात्वर्थधातवो ह्येषामुत्पादनेन विशेषणेन प्रतिपादनेनोपकारकत्वात्साधनत्वेनामिधीयन्ते । कुतः संशयः ॥

साधकत्वं द्विधा दृष्टं प्रत्येकसमुदाययोः ।
वस्तुलक्षण एवातस्तद्दृष्टेः संशयोद्भवः ॥

अथवा पारमार्थिकोऽत्रायमेकः संशयः, किं धात्वर्थत्रयानुरक्तैका भावना, अथवा प्रतिधात्वर्थं भावनाभेद इति । भावनैव धात्वर्थानुरक्ता कर्मशब्देनोच्यते । तस्या एव शब्दान्तरादि भेदकं भविष्यति, अपूर्वस्यानभिधेयत्वात्कर्मभेदानुनिष्पाद्येव तदिति न 462 पृथग्विचारमर्हति । प्रासङ्गिकस्तु धात्वर्थैकत्वोपन्यासः कथमण्यसार्वत्रिकः सन्यज्यादिषु भविष्यतीति नातीव तन्त्रीकर्तव्यः । ततश्चैतदपि संशयकारणं पूर्वपक्षवादिनः प्रतिमाति किं धात्वर्थान्प्रत्युपादीयमाना भावना प्रत्येकं समाप्यते, अथ वा ते तां प्रत्युपादीयमानाः संहत्य विशिंषन्तीति235 । किं तावत्प्राप्तं संहत्येति । तत्र समुदायश्चिकीर्षितः समुदायादेकमपूर्वं न वाऽशाब्दः समुदाय इत्यादिषु पुनः पुनः समुदायशब्दोच्चारणादपूवैंकत्वाभिधानाच्च तिसृभ्यो मावनाभ्य एकमपूर्वमिति पूर्वः पक्षः । इयं चोपपत्तिः ॥

अदृष्टं प्रथमं तावन्नास्तीत्येवं प्रतीयते ।
तथैव निश्चयश्चात्र दृष्टं चेन्न विरुध्यते ॥
दृष्टश्रुतविरोधे तु सत्यदृष्टं प्रकल्प्यते ।
एकेन चाविरोधित्वे सिद्धे नानेककल्पना ॥

तदेवाऽऽह ॥

विरुध्यमाने कल्प्यः स्याज्जायते तेन सोऽर्थवान् ।

दृष्टः श्रुतो वा भवतीति । तत्राप्येकानेकार्थकल्पनयोर्विशेषश्चेद्धुरुलाघवं प्रति न गम्येत ततोऽनेकोपि कल्प्येत, गम्यते चासौ । तस्मात्समुदायादेकमपूर्वम् । तत्रैतत्स्यात्, केन भावनासमुदायश्चोदितो यस्मादेकमपूर्वं स्यादित्यत आह—न चाशाब्दः समुदायोऽवयवशब्दैरेव चोदितत्वात् । अथ वेति—धात्वर्थत्रयानुरक्तैकमावनापक्षपरिग्रहः । तस्याप्युपपत्तिः ॥

463
प्रत्ययार्थप्रधानत्वात्प्रतिधातु न भिद्यते ।
तत्रोपादीयमानत्वाद्धात्वर्थाः संहताः पुनः ॥

यदि हि धात्वर्थानां प्राधान्यं भवेत्ततो भावना तान्प्रत्युपादीयमाना प्रतिप्रधानं भिद्येत । भावप्रधानत्वाच्चाऽऽख्यानस्प प्रकृतिप्रत्ययोश्च प्रत्ययार्थशेषत्वादरुणैकहायन्यादिवद्यागादिभिः संहत्यैका भावना विशेष्यते । यद्यपि प्रधानानां गुणानुरोधेनाऽऽवृत्तिरयुक्ता तथाऽपि केवलप्रकृतिप्रत्ययप्रयोगासंभवादवश्यं तावद्धातुसंवम्धार्थं प्रत्ययः पुनरावर्तयितव्यः । यदि तु केवलः प्रत्ययः क्रीणातिवच्छ्रूयेत, ततः सकृदुच्चरित एवारणादिभिरिव धातुभिः संबध्येत, अपदत्वान्न स्वतन्त्रः श्रूयत इत्यावर्तते । दृष्टा च विशेषणसंबन्धार्थमावृत्तिः ‘आयुर्यज्ञेन कल्पतां’ ‘दध्ना जुहोति’ ‘पयसा जुहोति’ ‘ऐन्द्रवायवं गृह्णाति’ ‘मैत्रावरुणं गृह्णाति’ इत्येवमादिषु । तथाऽनुष्ठानाबवृत्तिरपि ज्योतिष्टोमस्यानेकद्रव्यदेवतासंयोगसंपादनार्था दृश्यते । तस्मादर्थैकत्ववशेन सर्वमिदं वजतिददातिजुहोतिविधानात्मकमेकं वाक्यमेकं कर्मैकं चापूर्वमिति । अयमेव चात्र पूर्वः पक्षः साधुर्न पूर्वोक्तो भावनासमुदायासंभबात् । कुतः ॥

प्रसिद्धे भावनाभेदे भाव्यभेदो नियोमतः ।
न चाऽऽसां समुदायत्वमैकशब्द्याद्विनेष्यते ॥

यदि हि भावनाभेदं पूर्ववाद्यभ्युपगच्छत्येव ततः सा भावयितव्यापूर्वभेदादृते नैवभिद्यत इति तद्भेदेऽपि सिद्धे किमनेन कृतं स्यात् । अपि च समुदायत्वापादनमेकशब्दसंयोगात्समुदायानुवादरूपेण वा भवति यथा “य एवं विद्वान्पौर्णमासीं यनते” इति, फलादिसंबन्धेन वा यथा “राजसूयेन स्वाराज्यकाम” इति । न त्विहैकमपि पश्यामो येन समुदायत्वमध्यवस्येम । ननु ज्योतिष्टोमेनेत्येष समुदायवचनो भविष्यति । न । तस्य यजिसामानाधिकरण्येन तन्मात्रवचनत्वात् । तस्मान्नैष पक्षः । एवं नु भाष्यग्रन्थो नेतव्यः । किं तावत्प्राप्तं धातुत्रयानुरक्तमिन्द्रायुधमिवैकं कर्मेति । तत्सिद्ध्यर्था त्वियमुपपत्तिः । एवमल्पादृष्टकल्पना भविष्यतीति । कर्मभेदे हि बह्वदृष्टकल्पना निष्प्रमाणिकाऽभ्युपगन्तव्या । तस्मात्समुदायश्चिकोर्षित इत्याद्येकस्यैव कर्मणोऽवयवाभिप्रायेणोक्तम् । अतो यजेतेत्यस्य पूर्वी भागो यजत्यर्थं ब्रवीति, उत्तरो भावयेदित्यादि विगमनस् । अथ वेति प्रमादलिखितमिति मन्यन्ये । शक्यं त्वेतत्समर्थयितुं, द्वे ह्येते पूर्वपक्षोपपत्ती भाष्यकारेणोपन्यस्ते । तत्रानेकादृष्टकल्पनादोषं पूर्वमुपन्यस्य अथ वेत्युपपत्त्यन्तरमाह । 464 एतदुक्तं भवति । किमेकादृष्टकल्पनोपपत्त्याऽथवा शब्देनैवैकां भावनां प्रतिपादयामः । पूर्वार्धभेदेऽपि प्रत्ययैकत्वेनाभिन्नार्थप्रतीतेस्तद्दर्शयति । तथा ददातीति पूर्वो ददात्यर्थमुत्तरस्तमेव भावयेदिति । एवं प्रतिभाति तमेव धात्वर्थं भावयेदिति । तत्त्वयुक्तम् । सर्वत्र धात्वर्थभाव्यत्वप्रतिषेधात् । न चैतत्पूर्वपक्षवादिनोऽपि क्वचिदुषयुज्यते । तथाऽनुवदतीति न शक्यं वदितुम् । तस्मादेवं वाच्यं पूर्वो ददात्यर्थ उत्तरः पुनर्यो यजतेः परेणांशेनोक्तस्तमेव भावयेदित्येवं धात्वर्थान्तरसंबन्धार्थमनुवदतीति । एवं जुहोतीत्यत्रापि । तथा च यजेतेत्यत्रैवं नाभिहितं, न हि तत्र पूर्वतरप्राप्ता भावनाऽस्ति याऽनूद्येत । यदि धात्वर्थभाव्यत्वमभिधीयेत तदविशिष्टं तत्रापीति । न तद्वर्नमुत्तरयोरेव ब्रूयादतो भावनैकत्वप्रतिज्ञानाभिप्रायमेतत् । तस्मादेका भावनाऽपूर्वं च । यद्वा यजतिशब्देन विहितमिति—धात्वर्थैकत्वं वदति स्वत्वत्यागांशसमत्वात् । अथापि लक्षणया ददाति जुहोति यजेतेत्यस्यानुवादस्तथाऽपि कर्मान्तरनिमित्तादृष्टकल्पनातः सैव ज्यायसीत्याश्रीयते । न वाऽनुवादे लक्षणा दोषः । गुणविध्यर्थस्त्वनुवादः । एकत्राऽऽत्रेयः संप्रदानं हिरण्यं च प्रदेयं विधीयते । इतरत्र दाक्षिणानि विधीयन्ते । ननु नामधेयत्वान्नैवायं गुणविधिः । कर्मविधानपक्षे ह्येतस्य नामधेयत्वम् । अनुवादे तु वाक्यानर्थक्यप्रसङ्गादेकान्तेन गुणविधिरम्युपगन्तव्यः । तदा च यजतिददातिजुहोतय इति धात्वभिप्रायकम् । एकं कार्यमेकं धात्वर्थं तदेतरत्तदर्थमिति वा न्यायेनैकमपूर्वं गमयन्तीत्यर्थः । तस्मान्न कर्मभेद इति ॥ अत्रोच्यते ॥

धात्वर्थभेदे सर्वत्र विज्ञेयं भावनान्तरम् ।
उत्पत्त्यैकानुरक्ता हि नान्येनाप्यनुरज्यते ॥

यद्यप्येको भावनावचनस्तदर्थस्य च प्राधान्यं, तथाऽप्यनुरञ्जकधात्वर्थभेदाद्भावनान्तरं प्रत्येतव्यम् । न ह्येकस्यास्त्रयो धात्वर्थाः सन्निपतितुं समर्थाः । न च समुच्चयं प्रतिपद्यन्ते करणांशावरोधित्वेन तुल्यार्थत्वादन्योन्यनिरपेक्षभिन्नशब्दोपादानाच्च । न ह्येको धातुस्त्रीन् धात्वर्थानुपादत्ते । न चैकस्मिन्पदे धातुत्रयं परस्परापेक्षं प्रत्ययं प्रत्युपादीयमानं संभवति “धातोः” इति प्रत्ययोत्पत्तौ विवक्षितैकत्वसंख्यत्वात् । न चैतत्पदत्रयमेकवा465 क्यतां गच्छति । विभज्यमानसाकाङ्क्षत्वैकार्थत्वयोरभावात् । न वैकापूर्वकल्पनात एकवाक्यताऽऽपद्यते । ‘समेषु वाक्यभेदः स्यात्’236 इत्यत्र प्रत्याख्यातत्वात् । न चापूर्वभेदाभेदपूर्वकौ कर्मभेदाभेदौ । विपरीताभ्युपगमात् । यदि च केवलैव भावना केन चिदुपादीयेत ततोऽरुणादिभिरिवैकवाक्यगतैर्दध्यादिवद्वा भिन्नवाक्यगतैरेकैवानूद्यानूद्य युगपद्वा विशिष्टविधानन्यायेन यागदानहोमैरनुरज्येत, न त्वस्याः पृथगुत्पत्तिरस्तीत्यवश्यं ददात्यादीनामेकेन समस्तैर्वोत्पादयितव्या । तत्र यदि तावत्समस्तैरुत्पाद्यते, तत उत्पन्नायाः पुनरुत्पत्त्यसंभवात्सिद्धं कर्मान्तरत्वम् । अथैकेन तावदुत्पाद्येत, तत्रापि विनिगमनायां हेतोरभावाद्विशेषो न ज्ञायते । येन केनचिदुत्पत्तिरप्येतस्याः प्रतीयते ततस्तद्व्यरिक्तेन धातुना नानुरज्यते । येनैव ह्येकेन धातुना कृतानुबन्धा भावनोत्पन्ना तस्यैव श्रौतत्वेन बलीयस्त्वान्न पदान्तरस्थैर्धात्वर्थैः सह विकल्पः संभवतीति ततः प्रच्युतैस्तैः स्वपदप्रतिपादितमवश्यं भावनान्तरमनुरञ्जनीयम् । एवमेकैकत्र स्वपदोपात्तधात्वर्थानुरञ्जनमौत्पत्तिकं श्रौतं च, धात्वर्थान्तरानुरञ्जनमुत्पन्नभावि वाक्यप्रकरणलभ्यं च । ददातिर्हि यजत्युपनिबद्धां भावनां निषेधन् स्ववाक्यानुच्चरितां पदान्तरानुवर्तिनीं प्रकरणाद्वाक्याच्च प्राप्नुयादेवं यजतिरपि तत्र तत्रेति योज्यम् । ननु च ददातिपदेऽप्यसौ पुनः श्रूयमाणा सैवेति प्रत्यभिज्ञायत इति न वक्तव्यं वाक्यप्रकरणाभ्यां ददातिसंबन्धो भवतीति । सत्यं भावनामात्रसंबन्धः श्रुत्यैव प्रतीयते । यागानुरक्तभावनासंबन्धे तु न श्रुतिव्यापारो युज्यते । ननु चैकत्वादेवास्या एवं भेदव्यवहारो न युक्तः । केन वा कर्मभेदपक्षेऽपि सामान्यैकत्वं नाभ्युपगम्यते । नन्वत्र व्यक्तिनानात्वेऽपि नास्ति प्रमाणम् । कथं नास्ति । यदा भिन्नधात्वर्थसंनिधानादसौ नानात्वेन प्रतिशब्दमुपलभ्यते । ननु च शब्दवदेव परोपाधिको भेदप्रत्ययो न पारमार्थिको भावनाभेदः स्यात् । नैतदेवं, शब्दस्यापि गकारादिभेदः पारमार्थिको नैव कस्यचिदनिष्टस्तद्वदिहापि यागादिभेदे सिद्धे शब्दस्थानीयमनुष्ठानसामान्यं निरूप्यते । न च यथा शब्दस्यार्थान्तरभूता ध्वनयः द्रुतादिबुद्धिमपारमार्थिकीं कुर्वन्त्येवमत्र यागादयोऽदूरव्यतिरिक्ताः । तस्मादस्ति भेद इति । आह च—

यथा रक्तोपधानेन निरुद्धे स्फटिके सति ।
कृष्णादिचोदनायुक्तं गम्यते स्फटिकान्तरम् ॥
तथैकधातुसंबद्धभावनाचोदने सति ।
भावनान्तरगामिन्यः स्युर्धात्वन्तरचोदनाः ॥

यस्मात्प्रकृतिप्रत्यययोः स्वार्थाभिधाने स्मृतेराचाराच्च नित्यविवक्षितक्रमत्वेन पूर्वप्रयुक्तप्रकृत्यर्थव्याप्तेषु प्रतिपत्तृषु प्रत्ययांशः संनिपतन् कृतानुबन्धमेव स्वार्थं वदति । तस्मान्न 466 कदाचित्प्रत्यथार्थः शुद्धो लभ्यते । यथोक्तं प्रातिपदिकादुच्चरन्ती द्वितीयादिविभक्तिः प्रातिपदिकार्थो विशेषक इत्याहेति237 । प्रयोगवाक्यशेषभावेन हि समुदायस्य सत्तासंबन्ध इति । एकापूर्वकल्पनया हि समुदायानुरक्तभावनाकल्पनमाश्रितं फलसंबन्धनिमित्ता वाऽपूर्वकल्पना । प्रयोगवाक्यशेषभावेन वोत्पत्तिवाक्यानां फलसंबन्धो भवति न स्वरूपैः । अवधृतस्वरूपाणि च कर्माणि प्रयोगवाक्येन गृह्यन्त इत्यवगते भेदे न शक्यान्येकीकर्तुम् । न च ददातिजुहोत्योः प्रयोगवाक्यशेषभावं पश्यामः, यजेत स्वर्गकाम इति केवलयागश्रवणात् । न च तेन दानहोमौ लभ्येते । स्वार्थत्यागप्रगङ्गादुभयाश्रयणे वा युगपछ्रुतिलक्षणापत्तिर्दोषः । तस्मान्न समुदायकल्पनाऽस्ति । अतश्च धात्वन्यत्वेन पदान्तरत्वात्केवलविशिष्टता गम्यते । न च ज्ञानान्तरेण निवर्तते । न च धात्वर्थैकत्वम् । आसेचनपरस्वत्वापादनाभ्यधिकत्वात् । न च त्यागमात्रलक्षणा, स्वार्थवृत्तित्वेनापि वाक्यसमवायोपपत्तेः । न च दाक्षिणानि नाम गुणः कश्चित्प्रसिद्ध इति सामानाधिकरण्यान्ना467 मधेयत्वमेव युक्तम् । अतश्च वाक्यानर्थक्यं मा भूदिति होमो विधीयते । ददातिना तु यागमनूद्य गुणे विधीयमाने हिरण्यात्रेयसंबन्धे वाक्यभेदप्रसङ्गाद्गुणादपि भेदः संभवतीत्यत्रैकगुणो निर्गुणो वाऽन्यो ददातिरुदाहर्तव्यः ॥ १ ॥

इति शब्दान्तराधिकरणम् ॥ १ ॥
  1. विशिषन्तीति—अनेन च सोमेन यजते इत्यादिवाक्येषु धात्वर्थविशिष्टभावनाविधिरुत ज्योतिष्टोमवाक्याविहितानादृतघात्वर्थविशेषभावनानुवादेन धात्वर्थविधिरिति संदेहो भावनाभेदाभेदसशयकारणमित्याशयः सूचितः ।

  2. ( अ॰ २ पा॰ १ अ॰ १५ सू॰ ४७ )
  3. ( अ॰ १ पा॰ १ अ॰ ७ ) । इत्यत्र भाष्यकार इत्यर्थः ।