रेवत्यधिकरणम्

552 इदानीमस्यापवादार्थमुत्तरमधिकरणमारभ्यते । तत्र विषयं तावद्दर्शयति—‘त्रिवृदग्निष्टुदग्निष्टोमः’ । ‘तस्य वायव्यास्वेकविंशमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामो यजेत’ इत्येतमग्निष्टुंतं प्रकृत्य ‘वारवन्तीयमग्निष्टोमसाम कार्यम्’ इति च गुणं ‘विधाय पुनर्ब्रवीति ‘एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत’ इति । तत्रापि पूर्ववदेव संदेहः । किं गुणविशिष्टो यागः पूर्वस्माद्व्यतिरिक्तश्चोद्यते किं वा पूर्वस्यैव गुणादिन्द्रियवत्पशवः फलमिति । किं तावत्प्राप्तं, समस्तेनैव पूर्वाधिकरणेन गुणात्फलमिति । तथा हि—

रेवतीवारवन्तीयसंबन्धव्यापृते विधौ ।
श्रूयते फलमत्रापि यागोऽतो न विधीयते ॥
रेवतीवारवन्तीयसंबन्धं च करिष्यति ।
विनैव प्रत्ययावृत्त्या कृत्वाशब्दः पृथक् श्रुतिः ॥

यस्तु रेवतीवारवन्तीयसंबन्धोत्पत्तिविधानात्तस्य च फलं प्रति विधानात्प्रत्ययावृत्तिलक्षणो वाक्यभेद आशङ्क्यते सोऽपि नाऽऽशङ्कितव्यः । स्वयमेव वेदेन तत्फलस्योपात्तत्वात् । रेवतीषु वारवन्तीयं कृत्वेति निष्पादिते हि संबन्धे यजेः परेण लिङा फलसंबन्धः केवलः कर्तव्यः । तेन नाऽऽवृत्तिदोषो भविष्यति । तत्राप्याधारनिर्देशाद्रेवतीनां परार्थता प्राधान्याद्वारवन्तीयं फलं प्रति विधीयते । गुणोपादानवशेन धात्वर्थादुत्तारितो विधायकः फलाय गुणं विदधद्यदन्यत्राज्ञातशेषत्वं विधत्ते । रेवत्यश्च सप्तमीनिर्देशाद्वारवन्तीयशेषभूतत्वात्प्रयोजनान्तरमनपेक्षमाणा न फलेन संबध्यन्ते । तद्गुणकं तु वारवन्तीयं द्वितीयानिर्देशादवगतप्राधान्यं करोत्यभिहितां भावनां प्रति धात्वर्थस्थानीयं प्रतीयमानं 553 प्रयोजनापेक्षत्वात्फलवत्तां प्रतिपद्यते । अथवोभयतिरस्कारेणात्रापि संबन्धादेव फलमिति वक्तव्यम् । एवं च सति विपरिवृत्तिप्राप्तो यजिः प्रकृतार्थाबलम्बी वैतच्छब्दः, तस्माच्च यजिसमानाधिकरणात्परा षष्ठी फलवता गुणेन सह प्रकरणात्प्राप्तमाश्रयाश्रयिसंबन्धं वदन्ती, प्रमाणाभावाच्चाऽऽश्रयान्तरासंबन्धात्तन्निवृतिरूपप्रवृत्त एवकारः, पूर्वोच्चरितेन वचनान्तरेण च प्राप्तमग्निष्टोमसामसंबन्धविशिष्टं वारवन्तीयमित्यादि सर्वमकर्मान्तरत्वान्नित्यप्राप्तमनूद्यमानं न प्रत्ययमायासयिष्यति । कर्मान्तरपक्षे तु सर्वमप्राप्तत्वाद्विधातव्यम् । न च तल्लभ्यते । कुतः ।

एकशक्तिः स्वभावेन सर्वदैव विधायकः ।
अल्पार्थविधिसंतुष्टो नानेकार्थविधिक्षमः ॥

तेन कृत्वाशब्देन रेवतीनां वारवन्तीयसंबन्धमात्रं लिङा च फलसंबन्धमात्रं विधीयत इति ज्यायान्गुणविधिपक्षः । सर्वे चैतेऽनुवादा यज्यनुवादेनैव तन्मूलत्वात्प्रदर्शिता भवन्तीति न भाष्यकारेण प्रत्येकमुपवर्णिताः । तस्मान्न कर्मान्तरमिति प्राप्तेऽभिवीयते ।

आश्रयत्वेन गृह्णाति यो गुणः प्रकृतां क्रियाम् ।
तत्संबन्धानुवादत्वात्तत्र भेदो न गम्यते ॥

इदं तावद्वाक्यमेतस्यैव रेवतीष्वित्यादि यजिमच्छ्रूयते । स च यजिर्यादृगत्र श्रूयते तादृग्यदि कुतश्चित्प्राप्तस्ततः शक्यमकर्मान्तरत्वमध्यवसातुम् । तद्यथा—दधिहोमसंबन्धलाभादिन्द्रियकामवाक्ये378 । श्रुतफलसंबन्धमात्रे वाक्येन विधीयमाने प्रकरणादेवाऽऽश्रयापेक्षायां लब्धो होमसंबन्ध इत्यनूद्यते । शक्नोति हि दधि साक्षादेव होमं निर्वर्तयितुं न तु रेवतीगुणकं वारवन्तीयं यागनिर्वृत्तिसमर्थमद्रव्यदेवतात्मकत्वात् । तथा हि ।

देवताद्रव्यकर्तृभ्यो नातिरिक्तमपेक्षते ।
यागः साधनमित्येवं साम्ना नैवैष साध्यते ॥

तस्मात्प्रकरणवशेन बुद्धावुपप्लवमानोऽपि यागः सामाश्रयत्वमयोग्यत्वादप्रतिपद्यमानो न रेवतीवारवन्तीयवाक्ये शक्योऽनुवदितुम् । प्राप्तिप्रमाणाभावात् । यत्तु वारवन्तीयस्य साध्यत्वेनाऽऽश्रयत्वप्रतिपत्तिक्षमं स्तोत्रं न तस्य प्रकरणम् । आतिदेशिकत्वादग्निष्टुति स्तोत्राणाम् । आह च ।

554
स्तोत्रसाधनभूतत्वं साम्नो योग्यतया स्थितम् ।
स्तोत्रं च प्रकृतं नास्तीत्याश्रयो न प्रतीयते ॥

अथोच्येत यथाऽनेन शक्यते यागः कर्तुं तथा कुर्वदाश्रयिष्यति । यथा च शक्नेति याग आश्रयत्वं प्रतिपत्तुं तथा प्रतिपत्स्यते । सर्वाख्यातसहकारिशक्त्यनुसारेणावगमात् । 379‘आनर्थक्यात्तदङ्गेषु’ इत्यनेन न्यायेनाङ्गभूतस्तोत्रद्वारेणऽऽश्रयाश्रयिसंबन्धः सेत्स्यतीति । तदनुपपन्नम् । उक्तं ह्येतत्380 ।

तन्नामाङ्गेषु कल्प्येत यदङ्गत्वेन चोदितम् ।
प्राधान्यावस्थितं यत्तु तदङ्गं नोपसर्पति ॥

‘सप्तदशारत्निर्वाजपेयस्य यूपः’ इति सप्तदशारत्नित्वं गुणत्वेन चोद्यमानं साक्षाद्वाजपेयस्यासंभवाद्यथा शक्नोति तथोपकरिष्यतीत्यध्यवसानात्तदङ्गपशुयूपाङ्गत्वेनावधार्यते । यदि तथैव वारवन्तीयमपि यागाङ्गत्वेन चोद्येत ततस्तत्रासंभवात्तदङ्गानि स्तोत्राण्युपसर्पेत् । इदं पुनः फले विहितं गुणभूतां क्रियामाश्रयत्वेनापेक्षमाणं यदि योग्यां लभते ततो गृह्णाति । अथ न लभते ततो वाक्यादर्थान्तरत्वं प्रतिपद्यते । न चैतदन्यथाऽनर्थकं भवति । कर्मान्तरविधाने सुतरामर्थवत्त्वात् । अत्यन्तभेदाच्च यागस्तोत्रयोर्न स्तोत्रे साधिते यागः साधित इति शक्यं वक्तुम् । तत्र यथैव क्रत्वन्तरे श्रुतं क्रत्वन्तरे क्रियेत तादृगेवैतत्स्यात् । वाजपेयस्येति तु सामान्यसंबन्धमात्रवाचिनी षष्ठी 381पारम्पर्याद्यागेऽप्यविरुद्धेति वैषम्यम् । यद्यपि स्तोत्रद्वारेण क्रतोराश्रयत्वं स्यात्तथाऽपि सर्वस्तोत्रेषु 382प्रसज्यमानेष्वग्निष्टोमसामेत्यनर्थकं भवेत् । तत्राग्निष्टोमसाम्नि383 वाक्येनैवाऽऽश्रये कल्प्यमाने वाक्यभेदः, पुनरपि च वाक्येनाग्निष्टोमसाममात्रसंबन्धेऽवगम्यमाने यद्येतस्यैवेति विशेष्यते ततोऽपि वाक्यभेदः । एतस्यैवेति च पूर्वं संबन्धे तथैव सर्वतदीयस्तोत्रसंबन्धापत्तेरग्निष्टोमसामेति विशेषणात्स एव वाक्यभेदः । ऋक्सामसंबन्धकरणकृतं चातिगौरवं स्थितमेव । ननु चास्मिन्नग्निष्टुत्याश्रयत्वेन लब्धे 384पूर्वविधिनैव शेषमवाप्स्यते । वारवन्तीयं हि क्रतुमाश्रयद्यत्र स्थाने स्थितं साधयद्दृष्टं न ततोऽन्यत्र भविष्यति । क्रतुरपि च तन्नान्यस्तोत्रगामित्वेनापोक्षिष्यते । प्रकृतक्रत्वग्निष्टोमसामसंबन्धि वारवन्तीयातिक्रमकारणाभा555 वाच्च न क्रत्वन्तरस्तोत्रान्तरसंबन्धाशङ्का । नैतदेवम् । यदि हि वारवन्तीयाग्निष्टोमसामविधिवाक्यं रेवतीवाक्येनापेक्ष्येत तत एवं विज्ञायेत । न तु तदपेक्षाऽस्ति । गुणादिवाक्यानां परस्परसंबन्धाभावादित्युक्तं प्राक् । पूर्वसंबन्धविलक्षणश्चायं क्रतोर्वारवन्तीयेन संबन्धो न तत्कल्पितस्थानविषयत्वं प्रतिपत्स्यते । कर्माङ्गभूतस्य हि तस्यैतत्क्रत्वग्निष्टोमसामत्वं विज्ञातम् । इदानीं पुरुषार्थभूतत्वाद्वेदस्तावन्न तदेव स्थानं कल्पयति । सामान्यतो दृष्टकल्पनायाश्चैवं जातीयकेष्वप्रमाणत्वमुक्तम् । आह च ।

फलाय विहितं साम स्वतन्त्रं रूपमात्रतः ।
वेदस्वाध्यायमेवैकमुत्पत्त्यर्थमपेक्षते ॥

यदि वारवन्तीयमग्निष्टुत्येव प्रथममुत्पाद्येत ततो गत्यन्तराभावादनुक्तमपि तद्विषयं विज्ञायेत । इदं पुनः समाम्नायमात्राधीनोत्पत्ति तत एव गृहीत्वा फलाय चोद्यते । तत्र क्रत्वन्तरस्तोत्रान्तरैरेतत्क्रत्वग्निष्टोमसाम्नो न कश्चिद्विशेषः । यदि च वारवन्तीयसंस्कारः कश्चिद्विधीयेत ततः कथंचिद्व्रीहिप्रोक्षणादिष्विव प्रकृतप्रत्ययो भवेत् । न चैवमस्ति । तस्मान्नाग्निष्टोमसामसंबन्धसिद्धिः । ननु च पुरुषार्थमपि सदेतत्क्रतुमसाधयन्न शक्नोति पुरुषार्थं भवितुमिति प्रासङ्गिक्यां क्रतुसिद्धौ पूर्वकॢप्तं स्थानं लभ्यते । यथेज्यार्थे385 दधिप यसी प्रणीताधर्मानुपलभेते । तत्रैवैतद्भवति यत्र गुणभूता धर्मा भवन्ति । न चेहाग्निष्टोमसामत्वं नाम वारवन्तीयस्य गुणः । प्रकरणग्रहणे हि सति गुणत्वमपि स्यात् । तदेव त्वद्याप्यसिद्धावस्थम् । यदि तु केनचित्प्रकारेणाग्निष्टोमसामसंबन्धोऽवगम्यते ततस्तद्धर्मांस्तस्य प्रणीताधर्मवन्नैव कश्चिद्वारयिष्यति । तस्मान्नैषोऽपि परिहारो भवतीत्यपूर्वकर्मविधिनैवैकवाक्यत्वमुपपादनीयम् । तथा सति हि यद्यपि सर्वमप्राप्तं तथाऽपि विशिष्टविधिना शक्यं विधातुम् । किं पुनर्यदा निकायित्वात्पूर्वाग्निष्टुद्धर्मेष्वत्रादिश्यमानेषु बह्वेव प्राप्तम् । एतच्छब्दस्तावद्धर्मलक्षणयाऽनुवादो भविष्यति । न चानुवादे लक्षणादोषः । प्रस्तूयमानकर्मवचनत्वेन वा ‘अथैष ज्योतिः’ इत्यादिवन्मुख्यरूपेणैव वर्तिष्यते । तदा वारवन्तीयं क्रत्वर्थभूतमतिदेशेनैव प्राप्नोतीति तदप्यनुवदिष्यते । कृत्वाशब्दकल्पितरेवतीवारवन्तीयसंबन्धविशिष्टयागमात्रविधानात्तु लाघवं विधेः । नन्वग्निष्टोमसाम्नो रेवतीवारवन्तीयसंबन्धो यागश्चात्र विधीयत इत्यन्यैर्विशिष्टविधिभिर्वैषम्यं विधायकस्य स्यात् । तथा हि ।

556
नैकप्रयत्नसाध्यत्वं क्रियान्तरविशेषणे ।
तेन क्रियां विधायान्यस्तत्र कार्यः पुनर्विधिः ॥

यान्येकक्रियाविशेषणानि भवन्ति तानि तया विधीयमानयाऽर्थादाक्षिप्यमाणानि न विधायकव्यापारं भिन्दन्ति । क्रियान्तरविशेषणे पुनर्विधीयमाने तया क्रियया संबन्धरहितयाऽनाक्षिप्यमाणेऽवश्यं विधायकस्याऽऽवृत्तिरेष्टव्येति वाक्यभेदः प्राप्नोत्येव । नैष दोषः ।

कृत्वाशब्दार्थमेवैकं गृह्णीते भावनोत्तरा ।
सोऽपि स्वगोचरप्राप्तं ग्रहीष्यति विशेषणम् ॥
नवेन क्रतुना पश्चादृक्सामग्रहणे कृते ।
कॢप्तस्थानेन साम्नैव रेवतीस्थानकल्पना ॥

रेवतीवारवन्तीयसंबन्धं निष्पाद्योत्तरभावनापेक्षोऽवस्थितः स्वविशेषणविशिष्टः कृत्वाशब्दार्थः क्रतुना गृह्यते । अतश्च स्वविशेषणाक्षेप एव क्रतोः । स तु तत्संबन्धं साक्षादनुपजीवन्गुणभूतत्वादङ्गेषु निक्षिपन्नतिदेशविज्ञातस्थानवारवन्तीयवशेन रेवतीरपि तद्विषयाः कल्पयति । तेन यद्यप्यत्र वाक्येऽग्निष्टोमसाम न विधीयते तथाऽपि क्रतुविशेषणमपि तत्र संक्रामतीत्यदोषः । अतश्च प्रकृतयागसंबन्धस्त्वत्पक्षे वारवन्तीयस्य नास्ति । पश्य ।

आत्मना ह्यक्रियारूपैर्गुणैराश्रीयते क्रिया ।
वारवन्तीयगीतेस्तु क्रियया किं प्रयोजनम् ॥

दधिगोदोहनादीनि क्रियया विना करणत्वमलभमानानि तामपेक्षन्ते । वारवन्तीयं पुनर्गायतिधातुवाच्यक्रियान्मकत्वाद्विनैव क्रियान्तरेण यागवत्फलभवनसमर्थमित्यनपेक्षत्वाद्यागेनासंबध्यमानं स्वतन्त्रमेव रेवतीषु गीयमानमग्निष्टुत्प्रयोगाद्बहिरेव फलं साधयेत् । ततश्चैतस्यैवेति चाग्निष्टोमसामेति च कृत्वाशब्दश्च यजेतेति च सर्वमसंबद्धं स्यात् । तस्माद्यागात्फलम् । स च पूर्वविलक्षणविशेषणविशिष्टत्वात्कर्मान्तरम् । समेष्विति—अयोग्यत्वाद्यागगुणयोराश्रयाश्रयिसंबन्धानपेक्षत्वाभिप्रायम् । क्रियात्मकत्वाद्वा क्रियान्तरानपेक्षत्वमुच्यते । भिन्नवाक्येष्विति । पक्षद्वयेऽपि गुणफलसंबन्धस्य यागान्तरविधानस्य वाऽर्थान्तरत्वात्सेत्स्यत्येव लक्षणतो वाक्यभेदे पूर्वक्रतुसंबन्धे भवत्येव किंचिदेव वाक्यरूपम् । क्रत्वन्तरसंबन्धे त्वत्यन्तभेद इत्यभिप्रायः ।

557 न ह्येतस्य रेवत्यः सन्ति—आनन्तर्यात्तावदेषा वचनव्यक्तिः प्रतिभाति, एतस्य या रेवत्यस्तासु वारवन्तीयं कृत्वेति । तत्र यद्यपि प्रकरणलभ्यत्वादेतस्येति विशिष्टानुवादो न वाक्यं भिनत्ति तथाऽपि रेवतीस्वरूपकर्तव्यतैव तावदप्राप्तेति नानूद्यते । तत्र रेवत्यः प्रयोक्तव्याः, तासु च वारवन्तीयमित्येको वाक्यभेदः, एतच्छब्दवैयर्थ्यं च । अथ त्वेतच्छब्दानुग्रहार्थमेतस्य रेवत्यः कर्तव्याः, तासु च वारवन्तीयं, तच्च फलायेति विधीयते यजिश्चानूद्यत इति तथाऽप्यर्थत्रयनिमित्तवाक्यभेदाभ्युपगमेनाग्निष्टोमसामसंबन्धो विधातुमनुवदितुं वाऽशक्यत्वादुभयथाऽपि नावकल्पते । अथ सोऽपि विधीयेत तथा सति पूर्वस्माद्विध्यपगमादग्निष्टोमसाममात्रप्रसङ्गादेतस्यैवेत्यनर्थकं, विधीयमाने वाक्यभेद इत्येका ग्रन्थयोजना । अथवा—यथाक्रमावस्थित एवैतच्छब्दो रेवतीविशेषणं स तथाभूत एवाभ्युपगम्यते । ततश्चैवं वचनं व्यज्यते—एतस्य या रेवत्यस्तासु वारवन्तीयमग्निष्टोमसाम कृत्वेति । तत्तु कस्य क्रतोरित्यविशेषणादेतच्छब्दस्य च रेवतीविशेषणत्वेनोपक्षीणत्वादेतस्याग्निष्टोमसामेति न लभ्यते । तद्विवक्षायां वा पुनरपि वाक्यभेदः । इहैव सर्वाः पूर्वपक्षवचनव्यक्तीर्निराकृत्य सिद्धान्ते कथमवाक्यभेद इति प्रष्टव्ये पूर्वपक्षवादी विस्मितः पृच्छति । तथा नाम संप्रति विहिते सति अनेनाऽऽकाश एवेयन्तो वाक्यभेदा इन्द्रजालवदेव दर्शिताः । ततः पृच्छामि तावदेतस्य कथमवाक्यभेद इति । सिद्धान्तवादी त्वप्राप्तकर्म विधीयते । विशिष्टविधानोपपत्तौ सत्यामेकार्थत्वादित्याह । नन्वर्थभेद इति—क्तान्ताख्यातोपात्तभावनाद्वयैकवाक्यत्वासंभवाभिप्रायेण । नेति ब्रूम इति—गुणभूतैकभावनाविशिष्टप्रधा558 नभूतभावनान्तरविधानाभिप्रायम् । रेवतीनां वारवन्तीयस्य च संबन्धो न विहितः स्यादिति—विशेषणविशेषणानामविधेयत्वाल्लिङा तावन्न विधीयते । कृत्वाशब्दश्च नैव विधौ स्मर्यते । तेन यद्यपि संबद्धा भावनाऽभिधीयते तथाऽपि विध्यधीनप्रवृत्तित्वात्पुरुषः सतीमपि तामसतीमिव प्रतिपद्यते । तेन यागभावनामात्रविशेषणत्वाद्रेवतीवारवन्तीययोस्तदबहिर्भावमात्रेण प्रयोक्तव्ययोरन्योन्यनियमप्रमाणाभावादेकस्तोत्रविषयत्वे तदेकदेशनियमे चासति रेवतीषु ऋक्ष्वन्यान्यपि गायत्रामहीयवादीनि सामानि प्राप्नुवन्ति । सामापि वारवन्तीयमन्यास्वावापभूतासु386 गायत्रीबृहत्यनुष्टुप्सु प्राप्नोति । तत्र रेवतीषु वारवन्तीयमिति संबन्धप्रतीतिर्व्यर्था स्यात् । अतो वारवन्तीयमेव यथावधृतस्थानमुद्दिश्य रेवत्यो विहिता इति । नैष दोषः ।

विधित्वं यद्यपि श्रुत्या न कृत्वेति ब्रवीत्ययम् ।
तथाऽप्येवंविधे तस्य विधित्वं फलमिष्यते ॥

सर्वत्रैव यत्रेदं कृत्वेदं कुर्यादिति श्रूयते तत्र यदि तावत्त्वान्तधातुवाच्या क्रियाऽन्यत एव प्राप्ता ततो निमित्तार्थं श्रवणं भवति । अथ तु न प्राप्ता तत उत्तरस्याः करणं पूर्वनिर्वृत्त्युत्तरकालत्वेन विहितं तामननुष्ठाय 387यथा कर्तुं न शक्यत इत्यर्थादवश्यं कर्तव्या सती विहितवद्विज्ञास्यते । न चेह रेवतीवारवन्तीयसंबन्धः प्राग्विधेः कुतश्चित्प्राप्तो येन निमित्ततयाऽऽश्रीयेत । तस्मादनुष्ठेय एव विज्ञायते । यदि तर्ह्यनुष्ठेयत्वेन संबन्ध उपपन्नः कथमुत्तरयाऽनुष्ठेयत्वोपात्तयैव सह संबध्यते । तदर्थमाह—द्वावप्येतावर्थौ कृत्वेत्येष शब्दः शक्नोति वदितुमिति । कथमेकेनानेकार्थावगतिरिति चेदत आह—दृष्टा हि क्वचिदियमपि गतिः । यथा शोणमानयेति । प्रमाणान्तरप्राप्तेऽप्यानयतौ रक्तोऽश्वश्चोद्यमानो न रक्ताश्वशब्दाभ्यामिवाभिहितो वाक्यभेदं जनयति । तथाऽत्र त्वाशब्दोपात्ता निर्वृत्तिः पूर्वकालत्वं चेति । अथवा ।

559
तत्रैव न विधीयेत विशेषणविशेषणम् ।
यत्र द्रव्याङ्गभूतं तन्न कर्माङ्गं प्रतीयते ॥

388“तत्रैकत्वमयज्ञाङ्गभूतमर्थस्य गुणभूतत्वात्” इति द्रव्यविशेषणानां विध्यसंस्पर्शो वक्ष्यते389  । रेवतीवारवन्तीयसंबन्धस्तु करोतेर्विशेषणम् । सामान्यभूतत्वाच्च करोत्यर्थस्तद्रहितो नानुष्ठेयत्वं प्रतिपद्यते । तेन मृष्यामहे हविषा390 विशेषणमितिवद्यजिभावनाविशेषणस्य करोत्यर्थस्यावश्यं रेवतीवारवन्तीयसंबन्धविशिष्टताऽभ्युपगन्तव्या । तथा च क्रियाविशेषणानामपि प्रयाजादीनां विशेषणानि द्रव्यदेवतादीनि दर्शपूर्णमासादिषूपयोक्ष्यन्ते । तस्मान्निष्पन्नसंबन्धविशेषितायां भावनायामृक्सामयोर्नियमः सेत्स्यति । कृत्वाशब्दश्चात्र प्रतिपत्तिक्रमनियमनिर्वृत्त्यर्थ एव द्रष्टव्यो नानुष्ठाननिर्वृत्त्यर्थः । अग्निष्टोमसाम्नः प्राग्यागादप्रयोगात् । अतो नैवं विज्ञायते रेवतीषु वारवन्तीयं प्रयुज्य यष्टव्यमिति । किं तर्हि, एवं करिष्यामीति परिकल्प्य यागः प्रक्रमितव्य इति । नन्वेवमपीति । यावदभिधेयं विधिकल्पनादनेकार्थत्वान्नैकवाक्यत्वमिति मन्यते । नैष दोष इति । न तावदभिधेयनानात्वेनानेकार्थत्वं भवतीत्युक्तम् । अथ प्रयोजनभूतविधेयनानात्वमेव मन्येथाः । तत्रोच्यते ।

श्रूयन्ते बहवोऽत्रार्था एक एव विधीयते ।
विशिष्टा भावना सा च याग इत्युपलक्षिता ॥

ननु रेवत्योऽपि विधीयन्त इति । यदि श्रुतमात्रानुपात्येवानेकार्थत्वं भवेत्तत एष परिहारः स्यात् । एते तु सर्वे विधीयमानत्वात्प्रयोजनभूतास्तस्मादनेकार्थत्वमस्त्येवेति । उच्यते ।

560
विधेयमात्रमप्यत्र नार्थ इत्यमिधीयते ।
प्रधानविधियुक्तोऽर्थः स चैकोऽत्र विधीयते ॥

तदाह—न ह्यत्रानेकस्य प्रयोजनत्वेनाभिप्रेतस्यानेकं पदं विधायकमिति । तथा ह्यवान्तरकर्मत्वात्तत्क्रियाणां न प्राग्यजिभावनातः पर्यवसानम् । विशिष्टविध्युत्तरकालं तु न किंचिदपेक्ष्यते । तस्मात्सिद्धमेकार्थत्वादेकवाक्यत्वम् । गुणविधित्वे चोक्ता वाक्यभेदाः । अथोच्येत इति । एतच्छब्दसमर्थनार्थम् । सिद्धेऽपि कर्मान्तरत्वे कर्मयुक्तफलपक्षात्पक्षान्तरमिति निराक्रियते । तत्रैषा वचनव्यक्तिः—रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा, एतस्याङ्गत्वेन यजेतेति । किमेवं भविष्यति । प्रकरणं तावन्न बाधिष्यते । एतस्यैवेति च प्रकृतग्राहि समीपस्थितसंबन्धिपदमनुग्रहीष्यते । तत्रोच्यते । न । पशुकामपदानर्थक्यप्रसङ्गात् । तदुपरित्यागे वाक्यभेदप्रसङ्गः । न ह्येकस्य क्रतुं फलं च प्रति युगपद्विधानमवकल्पते । 391अथैवमुच्येत रेवतीषु कृतेनेति । प्रथमोपन्यस्तमेव पक्षं दोषान्तराभिधित्सया पुनरुपन्यस्यतीति केचित् । 392अथवा नैवम् ।

561 कथं तर्हि, गुणकामेषु याज्ञिकानां द्वयी प्रतिपत्तिः, केषांचिन्मीमांसकवदेव गुणात्फलम् । अपरेषां तु गुणः क्रत्वर्थ एव तद्वतस्तु क्रतोः फलान्तरसंबन्धः । अत्रैषा वचनव्यक्तिः । नित्यं तावदनेन ब्रह्मवर्चसकामो यजेत । यदि तु पशुकामः स्यात्ततोऽनेनैव रेवत्यादिविशिष्टेनेति । तथा सति च—

प्रत्ययः संनिकृष्टार्थविधिं तावत्करिष्यति ।
न चान्यपर उत्पत्तिं विधानाच्च विशिष्टता ॥

यागं हि फले विदधत्प्रत्ययो न विप्रकृष्यते । न चानुत्पत्तिपरः सन्नुत्पत्तिमपि कल्पयिष्यति । अनेकार्थविधानं च यथैवोत्पत्तिविधौ कर्मविधाननिमित्तं लभ्यते, तथा फलविधावपि फलोद्देशेन कर्मविधानादित्येवं मन्यमानो वदति—अथ रेवतीषु कृतेन वारवन्तीयेन पशुकामो यजेतेति । स्तोत्रद्वारेण यागसाधनत्वोपपत्तेः करणतृतीयैवैषा । अथवेत्यंभूतलक्षणा । अनेनैवेत्थंभूतेन पशुकामो यजेतेति । तत्रोत्तरम् । नैवं शक्यम् । ऋगन्तरप्रगाणाद्विशेषहानाद्वैगुण्यमिति । यदि तदेवेदं कर्म ततस्तस्य वायव्यास्वग्निष्टोमसाम विहितं तदृगन्तरे रेवत्याख्ये गीयमानं पूर्वविहितवायव्याख्यविशेषहानाद्विगुणं भवेत् । नन्विदानीमेवाऽऽत्मीये पक्षे भवतैव तत्र रेवतीषु ऋक्ष्वन्यान्यपि सामानि प्राप्नुवन्त्येवं पर्यनुयुक्तेनाभिहितम् । नैष दोषः । कृत्वेति निर्वृत्तः संबन्धो यागायोच्यते । द्वावेतावर्थौ कृत्वेत्येष शब्दः शक्नोति वदितुमिति । सिद्धान्तवादी त्वपूर्वकर्मविधावनेकार्थविधानं शक्यं नान्यत्रेति मन्यमान आह—सति वचने मत्पक्षे शक्यं भवत्पक्षे त्वसति वारवन्तीयग्रहणमात्रेण लभ्यमानासु रेवतीष्वशक्यमिति । परः पुनराह—वचनं तर्हि भविष्यतीति । तेनैवाभिप्रायेण । फले विशिष्टकर्मविधानात्कृत्वाशब्दस्य चाविधायकत्वात् । यजिरनुवाद—इति च सत्यपि फलं प्रति विधान उत्पत्त्यविधानाभिप्रायेण । सिद्धान्तवादी स्वाभिप्रेतानेकार्थविध्यन्यथानुपपत्तिफलं कथयति—यदि वचनं सिद्धं तर्हि कर्मान्तरं न पूर्वस्थैवाग्निष्टुतो गुणविधानमिति । ननु ततो यजेतेति यागानुवादादिति वचनेनानिराकृतत्वादद्यापि स्वपक्षमेव बलीयांसं मन्यते । नैवं शक्यमिति सिद्धान्तविवरणम् । यदि हि रेवतीगुणकं वारवन्तीयं यागं 562 प्रति गुणत्वेन विधीयते ततोऽवश्यं स उद्देष्टव्यः । ततश्चोद्दिश्यमानत्वादेव फलपदं न तेन गुणेन वा संबध्यत इत्यनर्थकमेव स्यात्संबध्यमानं393 वा वाक्यं भिन्द्यात् । गुणविशिष्टकर्मविधाने वाऽप्रत्यभिज्ञायमानत्वादेकान्तेन कर्मान्तरत्वम् । 394न च यत्पशुकामो यजेतेत्यप्राप्तत्वादनुवादः संभवति । एतेन रेवतीवारवन्तीयविधिं प्रत्यस्य निमित्तत्वं प्रयुक्तम् । अतश्च न वारवन्तीयं केनचिद्बलवत्तरेण प्रमाणेन रेवतीभिः संबद्धमिति विशेषहानाद्विगुणं भवेत् । अथ यागसंबन्धोऽनुवाद इति । गुणादेव फले सति प्रकरणादवगतं यागाङ्गत्वमस्मिन्वाक्येऽनुवदिष्यत इति । कः पुनराश्रयाश्रयिसंबन्धात्पूर्वनिराकृतादस्य विशेषो येनोपन्यस्यते । स उच्यते । तत्र हि 395‘आनर्थक्यात्तदङ्गेषु’ इत्येतन्निराकृतम् । अङ्गत्वज्ञाने तु तत्संभवादग्निष्टोमसामसंबन्धः सुलभ इत्यभिप्रायः । तन्निराकरोति—प्रकरणाद्धि वाक्यं बलवत्तरामिति । आश्रयाश्रयिसंबन्धो हि फलसंबन्धानुगुणत्वात्संभवन्गृह्यते । स तु न संभवतीत्युक्तम् । अङ्गाङ्गिसंबन्धस्तु क्रतुकथंभावग्रहणात्स्यात् । तच्च नास्ति । 396“असंयुक्तं प्रकरणात्” इति वक्ष्यति । संयुक्तं चैतत्फलेन । तस्मादविरोधाद्गुणफलविशिष्टकर्मान्तरविधानम् । तत्रैतत्स्यात् । सत्यपि कर्मान्तरत्वे तदनुगृहीताद्गुणादेव फलमिति । तद्विकल्प्य भावार्थाधिकरणन्यायेन प्रत्ययसंनिकर्षेण यागफलसंबन्धावगमान्निराकरोति । तस्मात्कर्मविधिः । अथ पुनर्विशिष्टे यागे विधीयमाने क्रिया397न्तरस्याग्निष्टोमसाम्नो 563 विशेषणेन कथं संबन्ध इति । तत्रोत्तरं वचनादिति । प्रागुक्तन्यायेना398ऽऽतिदेशिकं वचनं द्रष्टव्यम् । अग्निष्टोमसाम्नः कार्य इति । न किंचिदग्निष्टोमाख्यं सामावस्थितं विद्यते यस्य वारन्तीयं कार्यापन्नमिति कल्पते । तेन प्राकृतयज्ञायज्ञीयकार्यापत्त्यभिप्रायेणोक्तम् । अथवाऽग्निष्टोमसाम्न इति स्तोत्रस्यैव कार्ये तादर्थ्येन वर्तिष्यत इत्यर्थः । तस्मात्समेषु कर्मयुक्तं फलं स्यादिति सिद्धम् ॥ २७ ॥

  1. शक्यमकर्मान्तरत्वमष्यवसातुमित्यस्यानुषङ्गः ।

  2. ( अ॰ ३ पा॰ १ अ॰ ९ सू॰ १८ ) ।
  3. औदुम्बराधिकरणवार्तिक इति शेषः ।

  4. यागेऽपीति—पशुयागेऽपीत्यर्थः ।

  5. प्रसज्यमानेष्विति—आश्रयतयेति शेषः ।

  6. अग्निष्टोमसाम्नि—अग्निष्टोमस्तोत्र इत्यर्थः ।

  7. पूर्वविधिनैव शेषमिति—प्राकरणिकेन ‘वारवन्तीयमग्निष्टोमसाम कार्यम्’ इत्यनेनैव विधिना वारवन्तीयस्याग्निष्टुत्संबन्ध्यग्निष्टोमस्तोत्रसंबन्धप्राप्तेर्न वाक्यभेद इत्यर्थः ।

  8. यथेज्यार्थे, इति—अभ्युदितेष्टौ यागार्थयोरपि दधिपयसोः ‘सह श्रपयति’ इति प्राकरणिकेन वाक्येन तण्डुलैः सह श्रपणविधानेन प्रसङ्गात्प्रणीताकार्यापन्नत्वेन यथा तद्धर्माः प्राप्नुवन्ति तथेति दृष्टान्तभागाशयः ।

  9. ‘त्रीणि ह वा यज्ञस्योदराणि । गायत्री बहत्यनुष्टप् च । अत्र ह्येवावपन्ति’ इति वचनानुराधेनेति शेषः ।

  10. यथेति—यथा विहितं तथेत्यर्थः ।

  11. ( अ॰ ४ पा॰ १ अ॰ ५ सू॰ ११ ) ।
  12. ( अ॰ ४ पा॰ १ अ॰ ५ ) इत्यत्रेति शेषः ।

  13. ‘यस्योभयं हविरार्तिमार्छेत्’ इत्यत्र नित्यस्याऽऽर्तिमात्रस्य कादाचित्कत्वव्याप्यनिमित्तत्वायोगेन यथाऽऽर्तेर्हवीरूपविशेषणमावश्यकं तद्वदिति दृष्टान्तभागाशयः ।

  14. अथैवमित्यादि शङ्काभाष्यं गुणफलान्वयस्यैवाभिधानात्पुनरुक्तमिव भासमानं परमते वारवन्तीयस्य रेवतीषु प्रगाणेन वायव्यर्गाधारत्वहानादाश्रयवैलक्षण्यरूपदोषान्तरोक्त्यर्थत्वेन व्याकरोति—अथेत्यादिना ।

  15. अग्निष्टुद्यागस्यैव गुणान्तरविशिष्टस्य फलान्वयाभिधानार्थमेतद्भाष्यमिति स्वमतेन गुणकामत्वापरित्यागेनैवार्थान्तरं प्रदर्शयितुमाह—अथवेत्यादिना ।

  16. संबध्यमानमिति-फलपदं गुणविशिष्टेन यागेन संबध्यमानं यागस्य गुणफलोभयसंबन्धापादकत्वाद्वाक्यं भिन्द्यादित्यर्थः ।

  17. याऽपि च पूर्वं ‘यदि तु पशुकामः स्यात्ततोऽनेनैव रेवत्यादिविशिष्टेन यजेत इति’ वचनव्यक्तिरभिहिता साऽपि प्रमाणान्तराप्राप्तफलान्वयानुवादायोगादयुक्तेत्याशयेनाऽऽह—न चेत्यादिना ।

  18. ( अ॰ ३ पा॰ १ अ॰ ९ सू॰ ११ ) ।
  19. ( अ॰ ३ पा॰ ३, अ॰ ४ सू॰ ११ ) ।
  20. क्रियान्तरस्येति—क्रियान्तरस्य यागाख्यस्य विशेषणेन रेवत्याधारेण वारवन्ती. येन सह, अग्निष्टोमसाम्ना—अग्निष्टोमस्तोत्रस्य कथं संबन्ध इत्यन्वयार्थः ।

  21. आतिदेशिकमिति—अग्निष्टुत्प्रकरणे श्रूयमाणं ‘वारवन्तीयमग्निष्टोमसाम कार्यम्’ इति वचनं कर्मान्तरेऽतिदिष्टमित्यर्थः ।