467 मधेयत्वमेव युक्तम् । अतश्च वाक्यानर्थक्यं मा भूदिति होमो विधीयते । ददातिना तु यागमनूद्य गुणे विधीयमाने हिरण्यात्रेयसंबन्धे वाक्यभेदप्रसङ्गाद्गुणादपि भेदः संभवतीत्यत्रैकगुणो निर्गुणो वाऽन्यो ददातिरुदाहर्तव्यः ॥ १ ॥
अभ्यासाधिकरणम्
शब्दान्तराधिकरणप्रत्युदाहरणरूपेणाभ्यासस्य पूर्वपक्षः सुखमभिधीयत इति तदनन्तरमारम्भः । तत्र समिधो यजति तनूनपातं यजति इत्यादिषु समिदादिशब्दानपोद्धृत्य यजतीत्येतत्पञ्जकृत्वोऽभिहितं किमेकस्य कर्मणो वाचकमथानेकस्येत्युदाहृतं तदाक्षिप्यते ।
षडपि भेदहेतवः पृथग्भूताः स्वसामर्थ्यमात्रव्यापारफला दर्शयितव्याः । तद्यावदत्र गुणनामधेययोर्भेदकरत्वं नापनीयते न तावदभ्यासस्य परभागलाभोऽस्तीत्यन्यदुदाहर्तव्यम् । न च तत्संभवति । कुतः ।
‘ऐन्द्रवायवं गृह्णाति’ इत्येवमादीनि हि सर्वाणि परस्परासंगत्यौत्पत्तिकगुणयोगाद्भिद्यन्ते । ‘भिन्ने जुहोति’ ‘स्कन्ने जुहोति’ इत्यादीन्यपि ‘फलं चाकर्मसंनिधौ’238 इत्यनेन न्यायेन निमित्तं प्रत्युपादीयमानत्वाद्भिद्यन्ते । निमित्तसंबन्धपरत्वाच्च नाभ्यासानर्थक्यमित्यभेदकत्वम् । ये तु पञ्चशारदीयेषु239 “तान्पर्यग्निकृतांस्तान्पर्यग्निकृतान्” इत्येवमभ्यासमुदाहरन्ति तेषां प्राकृतपर्यग्निकरणानुवादप्रस्मरणसामर्थ्यं तत् । न वाऽत्र यजतिः श्रूयते यस्याभ्यासाद्भेदः स्यादिति न किं चिदुदाहरणम् । यथोदाहृतेष्वेव तु समाधिः ।
यान्युपादेयार्थानि नामपदानि तानि तावदाख्यातपरतन्त्रत्वात्तदनुसारीणि सन्ति तद्वृत्तिं प्रतीक्षन्ते, तच्चेत्प्रकृते निविष्टं नामपदमपि तस्यैव गुणविधिर्नामधेयं वा । अथ तेनापूर्वं परिकल्पितमतस्तद्गामि नामपदमित्येवं भेदाभेदयोरवगतयोः पश्चादागच्छत्स