सौभराधिकरणम्

ज्योतिष्टोमे सौभरमुक्थ्यानां ब्रह्मसाम विहितम् । पुनश्च तदेव ‘यदि रथंतरसामा’ ‘यदि बृहत्सामा’ इति च निमित्तयोर्विहितम् । ततः पुनः ‘यो वृष्टिकामो योऽन्नाद्यकामो यः स्वर्गकामः स सौभरेण स्तुवीत’ इति नित्यस्यैव सतः फलत्रयसंबन्धः कृतः । तथा च वक्ष्यति एवंजातीयकेषु कामेषु 399‘नित्यस्य समत्वात्’ इति । क्रत्वर्थपुरुषार्थं चैवंजातीयकं भवतीति वक्ष्यति ‘एकस्य400 तूभयत्वे संयोगपृथक्त्वम्’ इति । एतदपि वक्ष्यति यथा विकल्पेनैतान्यस्य फलानि भवन्ति 401‘योगासिद्धिर्वाऽर्थस्योत्पत्त्ययोगित्वात्’ इति । तदेवं रूपं सौभरं प्रकृत्य पुनः श्रूयते ‘हीषिति वृष्टिकामाय निधनं कुर्यात्’ ‘ऊर्गित्यन्नाद्यकामाय’ ‘ऊ इति स्वर्गकामाय’ इति । निधनमिति चान्त्या सामभक्तिरभिधीयते । तत्रैतद्विचार्यते । किं सौभरं निरपेक्षं फलानि साधयति, इमानि वृष्ट्यादीनि हीषादिनिधनफलानि पृथगेव भवन्ति, उत सौभरस्यैव तत्तत्फलं साधयतस्तत्त564 न्निधनं नियम्यत इति । यद्यपि चात्र कर्मभेदाभेदौ न स्तस्तथाऽपि प्रसङ्गादुपन्यस्येते । अथवा कर्मभेदाभेदवत्फलापूर्वभेदाभेदावपि लक्षणार्थाविति संबन्धः । एवं चानुष्ठानेऽपि विशेषो भवति । यदा वृष्टिकामेन सौभरं प्रक्रान्तं तदेतरयोरपि निधनयोः स्वफलप्रार्थनावशेन प्रयोगः । अपि च वृष्टिप्रार्थनयोरपि भेदः कर्तव्यो यदि निधनादपरं फलम् । अथ तु निधननियमस्ततो हीषेव प्रयोक्तव्यमेकैव वृष्टिः प्रार्थयितव्या । एवमन्नाद्यकामस्वर्गकामयोरपि दर्शयितव्यम् । कुतः संशयः । केचित्तावद्भाष्यकारकृतेन वचनव्यक्तिद्वयप्रतिभानेन वर्णयन्ति किं हीषादिशब्दानां वृष्टिकामादिपदैः संबन्धोऽथ निधनपदेनेति । यद्यपि चोत्तरयोर्निधनमिति न श्रूयते तथाऽप्याकाङ्क्षावशेनानुषज्यमानं सर्वसंबन्धित्वेन कथ्यते । किं तावत्प्राप्तम्—

पुनर्विधानसामर्थ्यात्स्वार्थत्वाच्च फलश्रुतेः ।
फलभूयस्त्वलाभाच्च हीषादेरपरं फलम् ॥

यदि हि सौभरफलान्येवैतान्यभविष्यंस्ततः पुनर्वचनमनर्थकमापत्स्थत । न हि विधेयं तस्य तदा किंचिदपि लभ्यते । हीषादीनां शाखान्तरेषु सौभरनिधनत्वेन पाठादेव प्राप्तत्वात् । नियमार्था श्रुतिरिति चेन्न । श्रुतिप्राप्तानां नियमेन निवर्तयितुमशक्यत्वात् । सर्व एव तावन्नियमोऽन्यव्यावृत्तिफलत्वादन्याय्यः । तथाऽपि तु यत्रार्थाक्षिप्तावस्थानि वस्त्वन्तराणि भवन्ति तत्रैकश्रवणवशेनेतरन्निवर्तते । न त्विह हीषादी565 नामर्थात्प्रयोगः, येनैकविधानादितरनिवृत्तिर्गभ्येत । सौभरश्रुत्या हि तानि प्राप्यन्ते । तत्र न शक्यं विधिमात्रप्रवृत्तया पुनःश्रुत्या गत्यन्तरे संभवति बाधनं कर्तुम् । अस्मत्पक्षे तु काम्यत्वादन्यतरद्वचनं क्रत्वर्थप्राप्तेतरबाधेनैव भविष्यति । वाक्यान्तराविहितं च वृष्टिहीषादिसंबन्धं विदधद्वाक्यमर्थवद्भवति । वृष्टिकामशब्दश्च स्वार्थत्वेन संभवन्न निधनव्यवस्थापरे वाक्ये सौभरविशेषणार्थः कल्पितो भविष्यति । पुरुषार्थभूयस्त्वं च विध्यात्मके वेदे पुरुषप्रवर्तनसौकर्यादिष्यते । तस्मान्निधनादपरं फलमिति ॥ २८ ॥

  1. ( अ॰ ३ पा॰ ६ अ॰ १६ सू॰ ४३ ) ।
  2. ( अ॰ ४ पा॰ ३ अ॰ ३ सू॰ ५ ) ।
  3. ( अ॰ ४ पा॰ ३ अ॰ ११ सू॰ २८ ) ।