उच्यते—

निधनश्रुतिवैयर्थ्यान्न हीषः फलसंगतिः ।
निधनेन तु संबन्धे फलशिष्टं विशेषणम् ॥

हीषा वृष्टिं कुर्यात्तां च निधनभूतेनेति वाक्यभेदः । तदसंबन्धे चाऽऽनर्थक्यम् । अस्मत्पक्षे न किंचिदनर्थकम् । सर्वस्य सौभरस्य वचनान्तरैरुक्तवृष्ट्यादिकामत्वेन तत्प566 दानां च प्राप्तत्वाद्धीषादिसंबन्धमात्रे विधीयमाने वाक्यभेदाभावः । न च वचनमनर्थकं, निधनविशेषनियमार्थत्वात् । विनाऽपि च गुणकामत्वेनास्त्येवात्र सामान्यविशेषलक्षणो बाधः, सौभरशब्दस्य सर्व402भक्तिसामान्यवचनत्वात्सौभरश्रुत्या हि परोक्षवृत्त्या निधनान्तरं प्राप्नोति । इदं पुनः प्रत्यक्षं, तस्माद्बलीयः । यथा चार्थादाक्षिप्यमाणं श्रौतेन निवर्त्यते तथा परोक्षवृत्त्याऽपीति । अथवा सौभरशब्दवाच्याया गीतेर्नैव किंचिद्बाध्यते । अक्षरविधानेनाक्षरान्तरमात्रबाधनात् । यदि हि गीत्यन्तरावयवो विधीयेत ततः सौभरावयवोऽपि बाध्येत । स्तोभाक्षरबाधस्त्वयं निधनविषय इत्यदोषः । तस्मान्निधननियमार्था पुनःश्रुतिरिति । एवं तु व्याख्यायमानेऽस्ति किंचिद्वाच्यम् । तदुच्यते

न तावत्संशयो युक्तो वचनव्यक्तिभेदतः ।
हीषो निधनसंबन्धो नेष्टो हि व्यवधानतः ॥

हीषिति निधनमिति व्यवहितकल्पनादोषादनिष्टः संबन्धः । तथोत्तरपक्षेऽपि—

निधने हीष्विधानं चेद्वृष्टिकामविशेषिते ।
विशिष्टार्थानुवादत्वाद्वाक्यभेदः स्फुटो भवेत् ॥

निधनानुवादेन हीषादिविधाने फलपदमनर्थकं पुनःश्रुतिवैयर्थ्यं च स्यात् । सौभरग्रहणेनैव हि निधनमात्रसंबन्धः प्राप्त इति न तन्मात्रवचनेनार्थः । तत्र यदि वृष्टिकामाय यद्यत्सौभरं तस्य यन्निधनमिति विशिष्टमनूद्य तत्र हीष्पदं प्रयुञ्जीतेति विधीयते ततोऽनेकसंबन्धकरणाद्वाक्यं भिद्येत । यद्यपि वृष्टिकामसौभरतन्निधनानि प्राप्तानि 567 तथाऽप्यनेकेषामपि संनिधिरस्तीति व्यवच्छेदार्थमवश्यं यत्नः कर्तव्यः । ततश्चानेकार्थत्वमिति दुर्बलः सिद्धान्तः । पूर्वपक्षनिराकरणमपि न सम्यक्कृतं, समाम्नायादेव हीषादीनां निधनत्वसिद्धेः । 403तस्मादेवं वर्णनीयम् ।

वृष्टिकामपदेनैव संबन्धे सति संशयः ।
फलेन साधनेनेति वाक्यसामर्थ्यवीक्षणात् ॥

अत्र हीषिति वृष्टिकामायेत्येवमेवावस्थिते संदेहः किं साक्षात्फलेन हीषः संबन्धोऽथ फललक्षितेन साधनविशेषेणेति । तदा च हीषिति निधनमिति, एतत्फलं भवतीति वचनव्यक्तिरिव भाष्यकारेण दर्शिता । वृष्टिकामायेति सौभरविशेषणमिति सौभरस्य निधनवाक्ये स्वपदेनानुपादानाल्लक्षणारूपेणैव विशेषणत्वम् । न हीषा संबन्ध इति फलस्वरूपासंबन्धाभिप्रायेण । तत्र तथैव विधिपुनःश्रुत्यपेक्षं व्याख्यानं, प्रयोगवचनसामर्थ्यादेव सिद्धं स्यादिति, अपरा व्याख्या । यदि हि स्वार्थप्रवृत्तस्यैव सौभरस्य निधनमात्रं नियम्येत ततस्तत्प्रयोगवचनेनैवोपनीतमात्रहीषादिविधिसिद्धेर्विध्यानर्थक्यं भवेत् । फलसंबन्धपक्षे तु न प्रयोगवचनः समर्थ इत्यर्थवत्ता । किं च

वृष्टिकामपदेनात्र श्रुत्यैवाभिहितः पुमान् ।
साधनापेक्षिणस्तस्य हीषादिपदसंगतिः ॥

अन्यथाऽनेन सौभरं प्रकरणावगतमपि वृष्टिसाधनशक्तियुक्तं लक्ष्येत । न च तदाश्रयणे किंचित्प्रयोजनमस्ति । तथा श्रुतिलक्षणाविशये चेति ब्रुवतो भाष्यकारस्याप्येतदेव व्याख्यानमभिप्रेतमिति गम्यते । सिद्धान्तस्तु—

सौभरस्य समस्तस्य यः कामोऽभिहितः पुरा ।
नियन्तुं निधनं तस्य स एवायमनूद्यते ॥

सर्वस्यैव सौभरस्यायं कामसंयोगः पूर्वोक्त एव प्रत्यभिज्ञायमानः कीर्त्यत इति नापूर्वफलप्रतिपत्तिः । किमर्था तु प्राप्तस्य पुनः श्रुतिरित्यत आह—निधनार्था पुनः श्रुतिरिति । कस्मात्पुनःश्रुत्युपात्तेन फलेनैव हीषादयो न संबध्यन्ते । तत्रोच्यते ।

यथैव वारवन्तीयं नेष्टमाश्रयमाप्नुयात् ।
फले तथैव हीषादि नाऽऽप्नोत्याश्रयमीप्सितम् ॥

हीषा वृष्टिं साधयेदिति हि गृह्यमाणेऽवश्यं किमाश्रितेनेत्यपेक्ष्यते । तत्र यत्सौभरं प्रकृतं तत्तावन्न शक्तमाश्रयत्वं प्रतिपत्तुम् । समस्तं हि साम सौभरशब्देनोच्यते । न 568 च तद्धीषा साधयितुं शक्यं, यथा दध्ना होमः । तद्धि सकलं होमं व्याप्तुं शक्नोति । न तु हीषा सौभरं व्याप्यते । बह्वक्षरसाध्यत्वात् । न च तदसाधयत आश्रयाश्रयिसंबन्धोऽवकल्पते । यत्तु तेन व्याप्त्या साधयितुं शक्यते निधनं, न तस्य प्रकरणमस्तीति न वाक्याद्विनाऽऽश्रयत्वं प्रतिपद्यते । तत्र यदि वाक्येनैव फलसंबन्धस्तेनैव चाऽऽश्रयलाभस्ततो वाक्यं भिद्यते । तथा निधनमात्रानुवादेन हीषादिसंबन्धे प्रकरणं बाधित्वा सर्वसामसंबन्धप्रसङ्गे पुनः सौभरस्य यदिति कथमपि विशेषणीयं, तत्रापि पुनर्मतिः क्लेशनीया । किं च ।

यद्यप्यवयवद्वारं भवेत्सौभरसाधनम् ।
तथाऽपि भक्त्यनेकत्वात्क्व हीषिति न गम्यते ॥

न तावत्सौभरावयवेन निधनेन साधितेन प्रकरणलभ्यसौभरं साधितं भवति । अवयवस्य सौभरत्वेनाप्रतीतेः । न च यथा शक्नुयात्तथाऽऽश्रयेदित्येषा कल्पनाऽस्तीत्युक्तम् । उपेत्यापि त्वाश्रयत्वमनेकप्रस्तावादिभक्तिनि सौभरे कतमस्यां भक्तौ हीषादयः प्रयुज्यन्तामिति नैव ज्ञायते । 404‘मुख्यं वा पूर्वचोदनाल्लोकवत्’ इति प्रस्तावे वा प्राप्नुवन्ति । तत्र निधनमित्यनुवादो नावकल्प्यते । अथोच्येत यथोक्थ्यादीनां फलाय चोदितानां प्रकरणाज्ज्योतिष्टोममाश्रयतामसमस्तव्यापित्वेनानेकावयवत्वेऽपि सति वाक्यान्तरवशेनान्ते निवेशो भवति । एवमत्रापि फले विहितानां हीषादीनामाश्रयत्वेन सौभरमुपसर्पतां समाम्नायवशेन लब्धस्थानानां निधनत्वमनुवदिष्यत इति । तदयुक्तम् । कुतः—

अनन्यविषयत्वेन स्थानमुक्थ्यादिषु स्थितम् ।
हीषादिस्तु बहुस्थानः क्व स्यादिति न गम्यते ॥

युक्तमुक्थ्यादीनां प्रदेशान्तरेष्वदृष्टेरलौकिकत्वाच्च क्रत्वन्तरनिवेशित्वम् । न हि तेषां स्थानान्तरं दृष्टपूर्वम् । न चाविज्ञातस्थानविशेषाणां रूपावधारणं फलसंबन्धो वा । न चान्यत्र वर्तमानानां स्वरूपप्रयुक्त उक्थ्यादिव्यपदेशसंभवः । योऽपि वचनान्तरेण स्थानविशेषलाभः सोऽपि पृथक्क्रत्वर्थत्वाविज्ञानादनयैव फलचोदनया गृह्यत इति तदर्थ एव विज्ञायते । हींषादीनां यः पुनः समाम्नायप्राप्तः स्थानविशेषसंबन्धः स तावत्सौभरविधानेन क्रत्वर्थत्वेन सौभरफलार्थत्वेन चोपयोजितः । इदानीं तु फलं प्रति स्वतन्त्रस्य हीषो विधानाल्लोकवेदसामान्तरभक्त्यन्तरप्रकृतभक्तिवर्तित्वादिविशेषो न ज्ञायते क्वावतिष्ठताम् । यदि हि प्रकृत एव विहित इति विज्ञायेत ततस्तस्य ज्ञातस्थानत्वात्संदेहो न स्यात् । ननु चैकत्वाच्छब्दस्य य एवायं प्रकृतः स्यात्स एव लोकादिष्वपीति तद्गतग्रहणेऽपि तदेव विशेषस्थानं भविष्यतीति । नैतदेवम् । कुतः—

569
एकत्वेऽपि हि शब्दस्य शक्तिभेदः प्रयोजने ।
तत्र कार्यान्तरस्थानं न स्यात्कार्यान्तरेष्वपि ॥

न शब्दैकत्वेन यत्किंचित्कार्ये स्थानं दृष्टसामर्थ्यं तदेवान्यत्रापीति शक्यते वक्तुम् । न हि यत्, देवदत्तस्य युध्यमानस्य स्थानमवगतं तदेव भुञ्जानस्यापि भवतीति गम्यते । कार्यप्रयुक्ता हि स्थानविशेषादयो न स्वरूपप्रयुक्ताः । स्वरूपस्य स्थानान्तरेऽप्यविभागात् । अतः कार्यान्तत्वादेकस्यापि स्थानभेदप्राप्तिः । न च यत्सौभराङ्गभूतस्य हीषः स्थानं तदेव पुरुषार्थस्यापीत्यवधारणं शक्यम् । प्रासङ्गिकसौभरसाधनत्वादिति चेत् । न, तस्यैव स्थानविशेषलाभात्प्रागसिद्धत्वात् । इतरेतराश्रयं हि स्यात्सौभरसाधनत्वेन स्थानविशेषस्तस्माच्च साधनत्वमिति । ननु यथाऽभ्युदितेष्टयां मध्यमादितण्डुला उपादीयमानत्वेऽपि प्रकृता गृह्यन्ते तथाऽत्र हीषादयो ग्रहीष्यन्ते । युक्तं तत्र प्रकृतगामिविभजतिवाक्यापेक्षितानां देवतासंयोगवाक्यानां तद्विषयत्वाद्यच्छब्दोपबद्धमध्यमादिविभागस्य च प्रकृतप्रत्ययानतिरेकादन्येषामग्रहणम् । इह तु न हीषादीनां तादृक्कारणमस्तीति न लौकिकप्रत्ययो निवर्तते । तस्मान्नैवं वाक्यार्थः संभवतीत्ययमपरः परिगृह्यते । यदा सर्वप्रकारमन्विष्यमाणोऽपि श्रौतः फलसंबन्धो न लब्धः, तदा मा बाधितरां श्रुतिरिति प्रकृतसाधनलक्षणा विज्ञायते । तत्रैषोऽर्थो भवति । प्रकृताय वृष्टिसाधनाय हीष्शब्दोऽङ्गमिति । प्रकृतगामी च वृष्टिशब्दस्तत्साधनभूतं सौभरमेव लक्षयति नान्यत् । न चान्यसाधनभूतमप्रतीतेः । सत्यामपि च हीषादीनां प्राप्तौ नियमार्थत्वादर्थवद्वाक्यमित्युक्तम् । ते च हीषादयो यथाभूताः सौभरेणाऽऽक्षिप्तास्तथाभूता एव नियम्यन्त इति विनाऽपि निधनशब्दसंयोगेन सिद्धं निधनत्वमनूद्यते । तद्दर्शयति—वृष्टिकामाय सौभरमस्त्येवेत्यादि । तदेतदधिकरणं गुणक्रियाफलप्रतिपादनपरयोरनन्तराधिकरणयोरुभयोरप्यपवादभूतम् । वृष्ट्यादिशब्देनैवेदं फलं साधनलक्षणयेति प्रतिपादनात् । यस्तु वाक्यभेदश्चोदित आसीत्स निधनसंबन्धे सति श्रुत्या वा सौभरे विशेषणत्वेनोपादीयमाने भवेत् । न त्विह तदुभयमप्यस्ति । वृष्टिकामपदेनैव संबन्धात्, प्रकरणलभ्यत्वाच्च सौभरविशेषणत्वस्य । न च प्रकरणलभ्या विशेषा वाक्यं भिन्दन्ति । तस्माददोषः । इदं त्विह विचारयितव्यं भवति । किं यत्र क्वचन शाखायामधीतस्य सौभरस्य वृष्ट्यादिसाधनभूतस्य हीषादयो नियम्यन्त उत यत्र हीष्निधनकं पठ्यते तच्छाखागतं वृष्टिकामस्य प्रयोक्तव्यम् । एवमूर्ङ्निधनकम्, ऊनिधनकं चेति सदृशो विचारः । तत्रानियमेन सहस्रशाखागतसौभरप्रयोगविकल्पे सति वृष्टिकामादिनिमित्ते हीषादिमात्रनियम इति प्राप्तेऽभिधीयते । यत्र तन्निधनकं पठ्यते तच्छाखागतैव वृष्टिकामादेः समस्ता गीतिरुपादातव्येति । कुतः ।

570
प्रपद्यते रूपविनाशभीतेर्गीतिर्न गीत्यन्तरभक्तियोगम् ।
अतः समस्तैव विकल्प्यमाना यथासमाम्नायमसौ नियम्या ॥

सामरूपं हि समाम्नायादवगम्यते तच्चाल्पेनान्यत्वेनाप्रत्यभिज्ञानादन्यदेव भवति । तत्र यदि शाखान्तरीयायां गीतौ शाखान्तरीयनिधनं प्रयुज्येत ततो रूपान्यत्वं स्यात् । न च वचनादृते ऐर405वद्विकारः । तच्छाखागतगीतिग्रहणेनाविरोधोपपत्तेः सर्वत्रासंभवाद्विकाराश्रयणम् । अस्ति चात्र गतिः । विकल्पप्ताप्तौ चायं नियमः । समस्तस्य च साम्नः पदार्थत्वाद्विकल्पप्राप्तिर्नावयवानाम् । अतो नान्यदीयनिधनविधानम् । अत एकदेशनियमे सति कांस्य406भोजिन्यायेन समस्तनियमः । एषोऽपि चात्र वाक्यार्थः संभवति । उभयोः प्राप्तयोः संबन्धमात्रं विधीयते । यद्वृष्टिकामाय सौभरं यच्च हीषित्येवं निधनं तदेकत्र संपादनीयमिति । तस्मात्समस्तगीतिनियम इति सिद्धम् ॥ २९ ॥

  1. सर्वभक्तीतिसर्वासां प्रस्तावोद्गीथप्रतिहारोपद्रवनिधानाख्यानां भक्तीनां यत्सामान्यं तद्वचनत्वादित्यर्थः ।

  2. ‘यद्येवमभिसंबन्धः’ इत्यादि—अधिकरणसमाप्तिपर्यन्तस्य भाष्यस्य परेषां व्याख्यानं ‘केचित्तावदित्यारभ्य पुनः श्रुतिरिति’ इत्यन्तेनोपन्यस्य, तत्र च ‘एवं तु व्याख्यायमाने’ इत्यादिना दूषणमभिधाय स्वमतेन भाष्यं व्याख्यातुमुपक्रमते—तस्मादेवमित्यादिना ।

  3. ( अ॰ १२ पा॰ २ अ॰ १० सू॰ २५ ) ।
  4. ऐरवदिति—'न गिरागिरेति ब्रूयात्’ ‘ऐरं कृत्वोद्गेयम्’ इति वचनबलाद्यज्ञायज्ञीयसाम्‍नो गिरापदत्यागेन इरापदे गानेऽपि न प्रकृते, इति व्यतिरेकदृष्टान्तार्थः ।

  5. कांस्यभोजिन्यायेनेति शिष्याचार्ययोः सहभोजनप्राप्तौ शिष्यस्य कांस्यभोजित्वनियममनियतपात्रभोज्याचार्योऽनुरुन्धानो लोके दृश्यत इत्ययं न्यायो द्वादशाध्याये साधयिष्यमाणोऽत्रानुसंधेयः ।