566 दानां च प्राप्तत्वाद्धीषादिसंबन्धमात्रे विधीयमाने वाक्यभेदाभावः । न च वचनमनर्थकं, निधनविशेषनियमार्थत्वात् । विनाऽपि च गुणकामत्वेनास्त्येवात्र सामान्यविशेषलक्षणो बाधः, सौभरशब्दस्य सर्व402भक्तिसामान्यवचनत्वात्सौभरश्रुत्या हि परोक्षवृत्त्या निधनान्तरं प्राप्नोति । इदं पुनः प्रत्यक्षं, तस्माद्बलीयः । यथा चार्थादाक्षिप्यमाणं श्रौतेन निवर्त्यते तथा परोक्षवृत्त्याऽपीति । अथवा सौभरशब्दवाच्याया गीतेर्नैव किंचिद्बाध्यते । अक्षरविधानेनाक्षरान्तरमात्रबाधनात् । यदि हि गीत्यन्तरावयवो विधीयेत ततः सौभरावयवोऽपि बाध्येत । स्तोभाक्षरबाधस्त्वयं निधनविषय इत्यदोषः । तस्मान्निधननियमार्था पुनःश्रुतिरिति । एवं तु व्याख्यायमानेऽस्ति किंचिद्वाच्यम् । तदुच्यते

न तावत्संशयो युक्तो वचनव्यक्तिभेदतः ।
हीषो निधनसंबन्धो नेष्टो हि व्यवधानतः ॥

हीषिति निधनमिति व्यवहितकल्पनादोषादनिष्टः संबन्धः । तथोत्तरपक्षेऽपि—

निधने हीष्विधानं चेद्वृष्टिकामविशेषिते ।
विशिष्टार्थानुवादत्वाद्वाक्यभेदः स्फुटो भवेत् ॥

निधनानुवादेन हीषादिविधाने फलपदमनर्थकं पुनःश्रुतिवैयर्थ्यं च स्यात् । सौभरग्रहणेनैव हि निधनमात्रसंबन्धः प्राप्त इति न तन्मात्रवचनेनार्थः । तत्र यदि वृष्टिकामाय यद्यत्सौभरं तस्य यन्निधनमिति विशिष्टमनूद्य तत्र हीष्पदं प्रयुञ्जीतेति विधीयते ततोऽनेकसंबन्धकरणाद्वाक्यं भिद्येत । यद्यपि वृष्टिकामसौभरतन्निधनानि प्राप्तानि

  1. सर्वभक्तीतिसर्वासां प्रस्तावोद्गीथप्रतिहारोपद्रवनिधानाख्यानां भक्तीनां यत्सामान्यं तद्वचनत्वादित्यर्थः ।