468 मिदादिपदमकिंचित्करत्वादुदास्ते । तेन तदपोद्धृत्याऽऽख्यातमात्रं विचार्यते । नन्वेवं सति संज्ञागुणयोरभेदकत्वप्रसङ्गः । तत्र तौ भेदकौ यत्राऽऽख्यातपदं न व्याप्रियते तथा चोदाहरिष्यति “अथैष ज्योतिः” “वाजिभ्यो वाजिनम्” इति । वाजिने तावन्नैवाऽऽख्यातपदं श्रूयते, ज्योतिरादावप्याख्यातस्य गुणफलसंबन्धव्यापारेण प्रकृतनिवेशसंभवे सति ततः पूर्वप्रवृत्तया संज्ञयैव भेदो भविष्यति । यत्राप्याख्यातस्य स्वरसेन प्रकृतकर्मनिवेशोपप्लवे सति तत्रासंभवन् गुणो विधीयते तत्राप्यसौ भेदको यथाऽत्रैवाभ्युपेत्यवादे वक्ष्यति स एष देवतायागसंबन्धो विधीयमान इत्यादि । तच्चाऽऽख्यातस्य भेदशक्तौ विहतायां भवतीति तदेव तावत्प्रथमं परीक्ष्यते । किमेकमपूर्वमिति—फलतः कर्मभेदाभेदोपन्यासो, यद्वा किमेकं कर्मापूर्वं चोदयत्युत पञ्चापि कर्माण्यपूर्वाणीति । किं प्राप्तम् । एकमपूर्वमिति । कुतः ।

प्रत्ययार्थः समानोऽपि धातुभेदेन भिद्यते ।
धातोरपि समानत्वे केन भेदोऽवधार्यते ॥

अपि च ।

पूर्वं तेनैव शब्देन बुद्धौ कर्म निवेशितम् ।
न भेदं प्रत्यभिज्ञानात्पुनः श्रुत्या प्रपद्यते ॥

यथैव यजतिशब्दः सकृत्प्रत्यक्षेणावगतः पुनरुच्चारणे स एवेति प्रत्यनिज्ञानान्न भिद्यते । तथा तदर्थोऽपि, यथा चात्रैव बुद्धबोधनकृत्प्रत्यक्षमनर्थकमपि भवन्न शक्नोति शब्दान्तरत्वं कर्तुमेवं पुनः श्रुतिरर्थान्तरत्वम् । न ह्यानर्थक्यं नाम क्वचित्प्रमाणवर्गेऽन्तर्भवति । यच्च वेदोऽवबोधयति तन्मात्रमेव तत्प्रमाणवादिभिरभ्युपगन्तव्यम् । तदिहैकशब्देनाभेदे वेदेनावगमिते योऽन्यत्वं कल्पयति तेन वेद एवाप्रमाणीकृतः स्यात् । न च प्रमाणावगतमानर्थक्यं दोषाय । अस्ति वेयमपि गतिः । प्रयोगवचनसंस्पृष्टः शब्दोऽर्थमवदधत्स्वयं प्रयोगित्वेन240 गृह्यत इति । अथ वाऽऽभीक्ष्ण्यादि241द्योतनार्थोऽभ्यासो भविष्यति । अस्ति हि लोके द्विर्वचनादतिरेकेणापि यावत्कृत्वोऽम्यस्ते विवक्षितार्थप्र

  1. मन्त्रवत्कर्मकालप्रयोज्यत्वमेकं प्रयोजनमभ्यासस्येत्यर्थः ।

  2. प्रतिप्रधानप्रयोगमावृत्तिराभीक्ष्ण्यं नाम ।